Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
खण्ड:-२ दृष्टान्तसमुच्चयः
मद्धाम्नः स्वामिसमवसरणस्य तथाऽन्तरे । मद्यानयोग्यं कर्तव्यं सर्वद्धर्या मार्गभूषणम् ।।९।। इतश्च तत्र भगवान् पुरावहिरुपाययौ । देवैश्च तत्र समवसरणं च व्यरच्यत ।।१०।।
तद्राजशासनं तेऽपि राजाऽऽयुक्ताः क्षणाव्यधुः ।
वचसा भूभुजां सिद्धिर्मनसेव दिवौकसाम् ।।११।। अशामि कुंकुमाम्भोभी रजस्तद्राजवर्त्मनः । अकारि तन्मार्गमही पुष्पप्रकरदन्तुरा ।।१२।। स्थाने स्थाने व्यधीयन्त काञ्चनस्तम्भतोरणाः । मञ्चाश्च सञ्चिताः स्वर्णभाजनश्रेणिशोभिताः ।।१३।। विचित्राश्चित्रकत्वरिभश्चीनवासोभिराचिताः । उड्डामराश्चामरैश्च रत्नादशैंः सुदर्शनाः ।।१४।।
उद्गन्धयो गन्धपुटापुटिकाभिः सहस्रशः ।
स्तम्भैर्वाभितो न्यस्तैरबध्यन्त च मालिकाः ।।१५।। (युग्मम्) उदंडैमंडपैर्मेघाडम्बरश्रीविडम्बभिः । मुक्तोच्चूलवदुल्लोचैरेकच्छायं व्यधीयत ।।१६।। पदे पदे मुमुचिरे धूपघट्यः सपावकाः । निक्षिप्तागुरुकर्पूरधूमांकुरितमण्डपाः ।।१७।। एवं दिवः खंडमिव कृत्वा मार्ग नियोगिनः । राज्ञे व्यज्ञपयन् स्वामिदर्शनौत्सुक्यधारिणे ।।१८।। स्नात्वा राजाऽपि दिव्यांगरागः सर्वांगभूषणः । शुचिवस्त्रधरः स्रग्वः गजमारोहदुत्तमम् ।।१९।। मूर्ध्नि श्वेतातपत्रेण चामराभ्यां च पार्श्वयोः । राजमानो राजवर्यः सुरराज इवाचलत् ।।२०।। महा_भूषणधरैः सामन्ताद्यैः सहस्रशः । सोऽन्वगम्यत भूपालः स्वै रूपैरिव वैक्रियैः ।।२१।। सद्यस्तमनुचेलुश्च चलश्चामरराजिताः । पराजितशचीरूपा अन्तःपुरमृगीदृशः ।।२२।। बन्दिवृन्दैः स्तूयमानो गीयमानश्च गायनैः । दर्श्यमानस्वविज्ञानो मार्गालंकारकारिभिः ।।२३।। निरन्तरैर्नृपच्छन्नैर्भवन्नूतनमंडपः । क्रमेण प्राप समवसरणं स महीपतिः ।।२४ । । स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसांचक्रे यथास्थानं चाऽऽस्थाने ऋद्धिगर्वितः ।।२५।। तस्यद्धिगर्वं विज्ञाय तत्प्रबोधनहेतवे । अम्भोमयं विकृतवान् विमानं पाकशासनः ।।२६।। स्फटिकाच्छजलप्रान्तविकटाम्भोजसुन्दरम् । मरालसारसस्वानप्रतिस्वानसमाकुलम् ।।२७।। सुरद्रुमलताश्रेणिपतत्कुसुमशोभितम् । नीलोत्पलै राजमानमिन्द्रनीलमणीमयैः ।।२८ । । नलिनीषु मरकतमयीषु परिवर्तिभिः । विभ्राजमानमधिकं स्वणाम्भोजैविकस्वरैः ।।२९।।
लोलकल्लोलमालाभिः पताकामालभारिणम् । जलकान्तविमानं तं शक्रोऽध्यास्त सुरैः सह ।।३०।। (चतुर्भिः कलापकम्)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400