Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 381
________________ ३४० आतुरप्रत्याख्यानप्रकीर्णकम मम। बाहिरा-बाह्या अनात्मीयाः । भावा-पदार्थाः । सब्वे-सर्वे समस्ताः । संजोगलक्खणासंयोगलक्षणाः। अनात्मनीनस्यात्मभावः संयोगः, संयोग एव लक्षणं येषां ते संयोगलक्षणा विनश्वरा इत्यर्थः। ज्ञानदर्शनचारित्रप्रत्याख्यानसंवरयोगेषु ममात्मैव, यतो म्रियते उत्पद्यते च एक एव, यतः एकस्य जातिमरणे, यतः एकश्च नीरजाः सन् सिद्धिं याति, यतः शेषाश्च सर्वे भावाः संयोगलक्षणा बाह्या यतः, अत एक एवात्मा ज्ञानदर्शनलक्षणः नित्यो ममेति । आतुर. गा० २८ अथ किमिति कृत्वा संयोगलक्षणो भावः परिह्रियते इति चेदत आह संजोयमूलं जीवेण पत्तं दुक्खपरंपरं । तम्हा संजोयसंबंध सव्वं तिविहेण वोसरे ।।४९।। संजोयमूलं-संयोगनिमित्तम् । जीवेण-जीवेन । पत्तं-प्राप्तं, लब्धम् । दुक्खपरंपरं-दुःखानां परम्परा दुःखपरम्परा क्लेशनैरन्तर्यम् । तम्हा-तस्मात् । संजोयसंबंध-संयोगसम्बन्धम् । सव्वंसर्वम् । तिविहेण-त्रिविधेन मनोवचनकायैः । वोसरे-व्युत्सृजामि । संयोगहेतो वेन यतो दुःखपरम्परा प्राप्ता, तस्मात् संयोगसम्बन्धं सर्वे त्रिविधेन व्युत्सृजामीत्यर्थः । आतुर गा० २९ पुनरपि दुश्चरित्रस्य परिहारार्थमाह मूलगुणउत्तरगुणे जो मे णाराहिओ पमाएण । तमहं सव्वं शिंदे पडिक्कमे आगममिस्साणं ।।५०।। मूलगुण उत्तरगुणे-मूलगुणाः प्रधानगुणाः, उत्तरगुणा अभ्रावकाशादयो मूलगुणदीपकास्तेषु मध्ये। जो मे-यः कश्चिन्मया । णाराहिओ-नाराधितो नानुष्ठितः । पमाएण-प्रमादेन केनचित्कारणान्तरेण सालसभावात् । तमहं-तच्छब्दःपूर्वक्रान्तपरामर्शी, तदहं मूलगुणाद्यनाराधनम् । सव्वं-सर्वम् । णिंदे-निन्दामि आत्मानं जुगुप्से । पडिक्कमे-प्रतिक्रमामि निर्हरे न केवलमतीतवर्तमानकाले आगमिस्साणं-आगमिष्यति च काले । ये गुणास्तेषां मध्ये यो नाराधितो गुणस्तमहं सर्वं निन्दयामि प्रतिक्रमामि चेति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400