SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः मद्धाम्नः स्वामिसमवसरणस्य तथाऽन्तरे । मद्यानयोग्यं कर्तव्यं सर्वद्धर्या मार्गभूषणम् ।।९।। इतश्च तत्र भगवान् पुरावहिरुपाययौ । देवैश्च तत्र समवसरणं च व्यरच्यत ।।१०।। तद्राजशासनं तेऽपि राजाऽऽयुक्ताः क्षणाव्यधुः । वचसा भूभुजां सिद्धिर्मनसेव दिवौकसाम् ।।११।। अशामि कुंकुमाम्भोभी रजस्तद्राजवर्त्मनः । अकारि तन्मार्गमही पुष्पप्रकरदन्तुरा ।।१२।। स्थाने स्थाने व्यधीयन्त काञ्चनस्तम्भतोरणाः । मञ्चाश्च सञ्चिताः स्वर्णभाजनश्रेणिशोभिताः ।।१३।। विचित्राश्चित्रकत्वरिभश्चीनवासोभिराचिताः । उड्डामराश्चामरैश्च रत्नादशैंः सुदर्शनाः ।।१४।। उद्गन्धयो गन्धपुटापुटिकाभिः सहस्रशः । स्तम्भैर्वाभितो न्यस्तैरबध्यन्त च मालिकाः ।।१५।। (युग्मम्) उदंडैमंडपैर्मेघाडम्बरश्रीविडम्बभिः । मुक्तोच्चूलवदुल्लोचैरेकच्छायं व्यधीयत ।।१६।। पदे पदे मुमुचिरे धूपघट्यः सपावकाः । निक्षिप्तागुरुकर्पूरधूमांकुरितमण्डपाः ।।१७।। एवं दिवः खंडमिव कृत्वा मार्ग नियोगिनः । राज्ञे व्यज्ञपयन् स्वामिदर्शनौत्सुक्यधारिणे ।।१८।। स्नात्वा राजाऽपि दिव्यांगरागः सर्वांगभूषणः । शुचिवस्त्रधरः स्रग्वः गजमारोहदुत्तमम् ।।१९।। मूर्ध्नि श्वेतातपत्रेण चामराभ्यां च पार्श्वयोः । राजमानो राजवर्यः सुरराज इवाचलत् ।।२०।। महा_भूषणधरैः सामन्ताद्यैः सहस्रशः । सोऽन्वगम्यत भूपालः स्वै रूपैरिव वैक्रियैः ।।२१।। सद्यस्तमनुचेलुश्च चलश्चामरराजिताः । पराजितशचीरूपा अन्तःपुरमृगीदृशः ।।२२।। बन्दिवृन्दैः स्तूयमानो गीयमानश्च गायनैः । दर्श्यमानस्वविज्ञानो मार्गालंकारकारिभिः ।।२३।। निरन्तरैर्नृपच्छन्नैर्भवन्नूतनमंडपः । क्रमेण प्राप समवसरणं स महीपतिः ।।२४ । । स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसांचक्रे यथास्थानं चाऽऽस्थाने ऋद्धिगर्वितः ।।२५।। तस्यद्धिगर्वं विज्ञाय तत्प्रबोधनहेतवे । अम्भोमयं विकृतवान् विमानं पाकशासनः ।।२६।। स्फटिकाच्छजलप्रान्तविकटाम्भोजसुन्दरम् । मरालसारसस्वानप्रतिस्वानसमाकुलम् ।।२७।। सुरद्रुमलताश्रेणिपतत्कुसुमशोभितम् । नीलोत्पलै राजमानमिन्द्रनीलमणीमयैः ।।२८ । । नलिनीषु मरकतमयीषु परिवर्तिभिः । विभ्राजमानमधिकं स्वणाम्भोजैविकस्वरैः ।।२९।। लोलकल्लोलमालाभिः पताकामालभारिणम् । जलकान्तविमानं तं शक्रोऽध्यास्त सुरैः सह ।।३०।। (चतुर्भिः कलापकम्) Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy