________________
२७८
आतुरप्रत्याख्यानप्रकीर्णकम
इय चउसरणगओ हं सम्मं निंदामि दुक्कडं इण्डिं । सुकडं अणुमोएमो सव्वं चिय ताण पञ्चक्खं ।।३२ ।। पंचप्पयारमइयारजायमसिं समक्खमालोए । वयपरिणामो पुण मज्झ जाणमाणस्स वि न जाओ ।।३३।। ते धन्ना कयपुत्रा संबकुमाराइया मह कुमारा । रुप्पिणिपामोक्खाओ पियाओ मे निबिडनेहाओ ।।३४ ।। जे चइऊणं घरवासमेरिसं दुक्खसंतइनिहाणं । जिणपासे पव्वइया ता तेसि वयाणिमणुसरिमो ।।३५ ।। संगामपमुहपावं समायरंतेण के वि जे जीवा । इहभव-अन्नभवेसु वि दुक्खविया ते खमावेमि ।।३६ ।। अन्नं च सरणमिण्डिं विसेसओ मज्झ मरणसमयम्मि । जिणसासणस्स सारो परमेट्ठीणं नमोक्कारो ।।३७ ।। एवं मुहुत्तमेगं जावऽच्छइ सुद्धमणपरीणामो । तावासुहकम्मवसा सरियं दीवायणरिसिस्स ।।३८।। पेच्छ अहो ! तेण तया कुलिंगिमेत्तेण तुच्छरूवेण । भुवणे अगंजियस्स वि माणमरट्टो महं भग्गो ।।३९।।
जं मह पेच्छंतस्स वि दद्धा नयरी सुरिंदपुरिसरिसा । पिय-माइ-सयणवग्गो विणासिओ पावकम्मेण ।।४।। ता जइ पेच्छामि तयं संपयमवि पावकारिणमणज्जं । कड्डे मि तदुदराओ तो हं सकलंतरं सव्वं ।।४१।। एवं वहगयहियओ पुणरवि जाओ किलिट्ठपरिणामो ।
जारिसिया इह व गई मई वि मरणम्मि तारिसिया ।।४२।। रुद्दज्झाणोवगओ सुमरंतो वइरभावमणवरयं । मरिऊण समुप्पन्नोऽसुहलेसो वालुयपभाए ।।४३।।
[श्रीआख्यान० श्लोक २६९ तः ३११] ५९. ऋद्धिगौरवध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रमध्येदशार्णभद्रराजर्षिकथानकम् । इतश्च पुर्याश्चम्पायाः सुरासुरसमावृतः । क्रमेण विहरन् प्राय दशार्णविषयं प्रभुः ।।१।। दशार्णपुरमित्यस्ति नाम्ना तत्र महापुरम् । दशार्णभद्र इत्यासीत्तत्र राजा महर्द्धिकः ।।२।। सभासीनं तदा सायं तमेत्योचुश्चरा इदम् । वीरो जिनपतिः प्रातः समेष्यति पुरेऽत्र ते ।।३।। बभार तद्गिरा हृष्टो राजा रोमाञ्चकंचुकम् । विदूरः स्तनितेनेव रत्नांकुरकदम्बकम् ।।४।। सभासमक्षमूचे च तया ऋद्ध्या प्रगे प्रभुम् । वन्दिष्ये न यथा कश्चिद्ववन्दे त्रिजगत्यपि ।।५।। इत्युदित्वा च मंत्र्यादीन् विसृज्य सकलानपि । जगामान्तःपुरगृहं दशार्णपुरभूपतिः ।।६।। वन्दिष्य एवमेवं च स्तोष्ये प्रातर्जगद्गुरुम् । इति चिन्तापरोऽनैषीत् कथंचिद्यामिनीं स ताम् ।।७।। रवावनुदयत्येव स पार्थिवरविस्ततः । आहूय नगराध्यक्षप्रभृतीनेवमादिशत् ।।८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org