SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २८० आतुरप्रत्याख्यानप्रकीर्णकम् चामरैरमरस्त्रीभिर्वीज्यमानः सहस्रशः । गन्धर्वारब्धसंगीतदत्तकर्णो मनाग्मनाक् ।।३१।। स्वामिपादपवित्रायां दत्तदृष्टिरधो भुवि । मर्त्यलोकमवातारीदमाधिपतिस्ततः ।।३२।। (युग्मम्) नालेन मारकतेन राजितेष्वम्बुजन्मसु । सौवर्णेषु न्यस्तपादं सपादिमिव पर्वतम् ।।३३।। मणीमयदन्तकोशैर्दन्तैरष्टभिरूर्जितम् । देवदूष्यच्छन्नपृष्ठं प्रष्ठं त्रिदशदन्तिनाम् ।।३४।। पूर्वारूढसुरस्त्रीभिर्दत्तहस्तावलम्बनः । मर्त्यलोकावतीर्णोऽथाध्यारुरोह पुरन्दरः ।।३५ ।। (त्रिभिर्विशेषकम्) आगादथोपसमवसरणं भक्तिभावितः । जिनेन्द्रपादान् वन्दारुर्वृन्दारकशिरोमणिः ।।३६।। जलकान्तविमानान्तर्लीलापुष्करिणीषु च । संगीतकानि कमले कमले चाथ जज्ञिरे ।।३७ ।। प्रतिसंगीतकं चेन्द्रानुरूपविभवः सुरः । सामाजिकोऽभवद्दिव्यरूपनेपथ्यसुन्दरः ।।३८।। एकैकस्य च देवस्य परिवारो महर्द्धिकः । मघोन इव संजज्ञे विश्वविस्मयकारणम् ।।३९।। विमाना तया शक्रः स्वयमेव विसिमिये । का कथा पुनरन्येषां तस्मादूनोनसंपदाम् ।।४०।। तत्र स्थितैर्नरसुरैर्विस्मितैर्वीक्षितो हरिः । प्रभुं पृथ्वीलुलद्धारः प्रणनाम पुनः पुनः ।।४१।। दशार्णभद्रः शक्रस्य तया ऋद्धयाऽथ दृष्टया । नगरद्धर्या ग्राम्य इव स्तंभितांगोऽभवत् क्षणम् ।।४२।। दशार्णभद्रो दध्यौ च विस्मयस्मेरलोचनः । अहो शक्रविमानस्य शोभेयं भुवनोत्तरा ।।४३।। अहो रुचिरगात्रत्वं सुरेन्द्रकरिणोऽस्य च । अहो विभवविस्तारः पुरुहूतस्य कोऽप्यसौ ।।४४।। स्वसंपदोऽभिमानोऽयं व्यधायि धिगहो मया । मम शक्रस्य चैतद्धि गोष्पदाब्योरिवान्तरम् ।।४५।। अमुना ऋद्धिगर्वेण स्वात्मा तुच्छीकृतो मया । कूपभेक इवाभूवं प्रागदृष्टेदशर्द्धिकः ।।४६।। एवं भावयतस्तस्य वैराग्यं गच्छतः शनैः । परिणामः शुभतरो बभूवेत्यल्पकर्मणः ।।४७ ।। ऋद्धया यद्यप्पनेनाहं विजितोऽस्मि बिडौजसा । प्रव्रज्याग्रहणादद्य पराजेष्ये तथाऽप्यमुम् ।।४८।। न केवलं विजेष्येऽमुं व्रतादानेन संप्रति । कारीनपि जेष्यामि भवभ्रमणकारिणः ।।४९।। विवेकी चिन्तयित्वैवं दशार्णपुरभूपतिः । तत्रस्थ एव व्युमुचत् किरीटकटकादिकम् ।।५० ।। दशार्णभद्रः कर्मद्रुमूलानीव समन्ततः । उञ्चखानाथ शिरसः पंचभिर्मुष्टिभिः कचान् ।।५१।। शक्रे संपश्यमानेऽथ विस्मयस्मेरचक्षुषि । स गत्वा गणभृत्पार्श्वे यतिलिंगमुपाददे ।।५२।। गत्वा प्रदक्षिणापूर्वमपूर्वोत्साहसाहसः । दशार्णभद्रश्रमणो जगन्नाथमवन्दत ।।५३ ।। शक्रो बभाषे महात्मन्नहो किमपि पौरुषम् । तवेदममुनाऽजैषीर्मामप्यन्यस्य का कथा ।।५४ ।। इत्युक्त्वा तं नमस्कृत्य शक्रः स्वस्थानमभ्यगात् । मुनिर्दशार्णभद्रोऽपि सम्यग्वतमपालयत् ।।५५ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy