SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः २८१ ६०. रसगौरवध्याने श्रीउपदेशप्रासाददर्शितं जितशत्रुनृपसुबुद्धिमन्त्रिवृतम् । ___ चंपायां जितशत्रुर्नृपः । तस्य सुबुद्धिर्मंत्री सम्यग्जिनमतज्ञः । एकदा नृपो दिव्यरसवती सरसां कारयित्वा बहुसामन्तयुतो भुक्त्वा रसगृचः 'अहो रसोऽहो गन्धः' इत्यादिवाक्यैः श्लाघां चकार । सुबुद्धिं विनाऽन्येऽपि सर्वे तथैव श्लाघां चक्रुः । ततो राज्ञा मंत्री पृष्ट:-त्वं किं न प्रशंससि ?' । सोऽवक्-“राजन् ! शुभाशुभवस्तुषु मम विस्मयो न । यतः पुद्गलाः सुगन्धा दुर्गन्धाः सुरसा अपि विरसा भवन्ति वैपरीत्येन वा । ततो निन्दाप्रशंसे न युक्ते" । राजा तन्न श्रद्धत्ते । अन्यदा राजा राजपाटिकायां गच्छन् मार्गे परिखोदकं बहुजीवाकुलं दुर्गन्धं सूर्यातपक्कथितं दृष्ट्वा नासिकां वस्त्रेण पिधाय 'अहो दुर्गन्धनिन्द्यं जलं' इत्यवादीत् । मंत्री प्राह-'राजन् ! मा जलं निन्द, कालप्रयोगेणाभव्यमपि भव्यतया परिणमति' । राज्ञा नांगीकृतम् । ततो मंत्रिणा रहः परिखोदकं वस्त्रगलितं स्वाप्तनरैः कोरकघटे क्षेपितं कतकचूर्णादिना च निर्मलीकृतम् । पुनर्गलितं नव्यघटेषु क्षिप्तं । एवमेकविंशत्या दिनैस्तन्नीरं स्वच्छसुखादुशीतलं लोकोत्तरप्रायमजायत । ततः सुरभिवास्यं कृत्वा नृपजलरक्षकेभ्यो दत्तम् । समये राज्ञः समीपे तैरुपनीतम् । नृपस्तस्य जलस्य लोकोत्तरगुणानुपलभ्य तान् प्रपच्छ-'क्वेदं प्राप्तं ?' ते प्रोचुः-'मंत्रिणाऽर्पितं' । राज्ञा मंत्री पृष्टः प्राह-'राजन् यद्यभयं ददासि तदा जलोत्पत्तिं वदामि' । राज्ञाऽभये दत्ते मंत्री यथावृत्तं प्रोवाच । नृपो न श्रद्धत्ते । ततो मंत्रिणा तदध्यक्षं पूर्वोक्तविधिना कृतम् । राजा वीक्ष्य विस्मितः प्राह-कथं त्वयैतज्ज्ञातं ?' । सोऽवदत्-“राजन् ! जिनागमश्रुतादिश्रद्धया च पुद्गलपरिणामोऽयमेवेति । हे नृप ! पुद्गलानामचिन्तनीया शक्तिः अनेकधा परिणमनस्वभावस्तिरोभावत्वेन वर्तते । स च ज्ञानिनां ज्ञान आविर्भवति । परंतु छद्मस्थानां ज्ञानावरणादिकर्मावृतानां सम्यगुपलब्धिर्न जायते । तथापि श्रुतवचोभिरवश्यं श्रद्धेयैव । यत इहलोके द्विविधाऽनुपलब्धिर्भवति । तत्रैकाऽसतो वस्तुनो यथा शशशृंगादीनां द्वितीया तु सतामप्यर्थानामनुपलब्धिर्भवति । सात्राष्टविधा । तथाहि-अतिदूरात् प्रथमा, सा त्रिविधा देशकालस्वभावविप्रकर्षात् अनुपलब्धिः । तत्र कश्चिन्नरो ग्रामान्तरं गतो न दृश्यते, तत्कथं नास्ति सः ? अस्त्येव, परं देशविप्रकर्षान्नोपलब्धिः । एवं समुद्रस्य परित्तं पर्यन्तः मेर्वादिकं च सदपि नोपलभ्यते । तथा कालेन विप्रकर्षात् अतीता निजपूर्वजादयो भविष्यत्पद्मनाभादयो जिना नोपलभ्यन्ते । तथा स्वभावविप्रकर्षात् नभोजीवपिशाचादयो न दृश्यन्ते, न च ते न सन्तीति १ । तथाऽतिसामीप्यात् यथा नेत्रकज्जलं नोपलभ्यते, तत्कथं नास्ति ? अस्त्येव २ । तथेन्द्रियघातात् । यथान्धबधिरादयो रूपशब्दादीन्नोपलभन्ते, तत्किं न सन्ति ? सन्त्येव ३ । तथा मनोऽनवस्थानात् यथाऽनवस्थितचेता गजमपि गतं न पश्यति, तत्किं नास्ति ? अस्त्येव ४ । तथा सौक्ष्म्यात् यथा जालान्तरगतत्रसरेणवः परमाणुव्यणुकादयो वा सूक्ष्मनिगोदादयो नोपलभ्यन्ते, तत्किं न सन्ति ? Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy