________________
२८२
आतुरप्रत्याख्यानप्रकीर्णकम्
सन्त्येव ५ । तथा आवरणात् यथा कुड्यान्तरे व्यवस्थितं वस्तु नोपलभ्यते, तत्किं नास्ति ? किं तु तदस्त्येव । चन्द्रमंडलस्य च परभागो न दृश्यतेऽर्वाग्भावेन व्यवहितत्वात् । ज्ञात्वाप्यावरणादनुपलब्धिः यथा मतिमान्द्यात् सतामपि शास्त्रसूक्ष्मार्थविशेषाणामनुपलब्धिः ६ । तथाऽभिभवात् यथा सूर्यादितेजसाऽभिभूतानि ग्रहनक्षत्राणि नोपलभ्यन्ते, तत्कथं तेषामभावः ? । एवमन्धकारेऽपि घटादयो न दृश्यन्ते ९ । समानाभिहारात् यथा मुद्गराशौ मुद्गमुष्टिः, तिलराशौ तिलमुष्टियं क्षिप्ता सती उपलक्षितापि नोपलभ्यते, जले क्षिप्तानि लवणादीनि च, तत्कथं तेषामभावः । एवमष्टधापि सत्स्वभावानामपि भावानां यथाऽनुपलम्भ उक्त एवं पुद्गलजीवादिषु विद्यमानतापि क्रमेण जायमानापि स्वभावविप्रकर्षादिभ्यो नोपलभ्यते इति सर्वत्र मन्तव्यम् ।। ___ अत्राह परः-येऽत्र देशान्तरगतदेवदत्तादयो दर्शितास्तेऽत्रास्माकमप्रत्यक्षा अपि देशान्तरगतलोकानां केषाञ्चित् प्रत्यक्षा एव सन्ति, तेन तेषां सत्त्वं प्रतीयते । जीवादयस्तु कैश्चिदपि कदापि नोपलभ्यन्ते, तत् कथं तेषां सत्ता निश्चीयते ? इत्यत्रोच्यते-यथा देवदत्तादयः केषांचित्प्रत्यक्षत्वात् सन्तो निश्चीयन्ते तथा जीवादयोऽपि केवलिनां प्रत्यक्षत्वात् किं न सन्तः इति प्रतीयताम् । यथा वा परमाणवो नित्यमप्रत्यक्षा अपि स्वकार्यानुमेयाः स्युस्तथा सर्वत्र ज्ञेयं" । इत्यादि सिद्धान्तवाक्ययुक्त्या सुबुद्धिप्रधानोक्त्या नृपः प्रतिबुद्धो देशविरतित्वं जग्राह । क्रमेण द्वावपि प्राप्तप्रव्रज्यो मुक्तिं प्रापतुः । ६२. अविरमणध्याने श्रीउत्तराध्ययनसूत्रोक्तः भृगुयशयोः सम्प्रदायः ।
यौ तौ गोपदारको चित्रसम्भूतपूर्वभवमित्रौ साधुसेवाकरौ देवलोकं गतौ, ततश्च्युत्वा क्षितिप्रतष्ठिते नगरे इभ्यकुले द्वावपि भ्रातरौ जातौ । तत्र तयोश्चत्वारः सुहृदो जाताः । तत्र भोगान् भुङ्क्त्वा , स्थविराणामन्तिके च धर्मं श्रुत्वा सर्वेऽपि प्रव्रजिताः । सुचिरकालं संयममनुपाल्य भक्तं प्रत्याख्यातम् । कालं कृत्वा सौधर्म कल्पे पद्मगुल्मविमाने षडपि सुहृदः पल्पोपमायुष्का देवत्वेनोत्पन्नाः । तत्र ये ते गोपजीववर्जा देवाश्चत्वारस्ततश्च्युत्वा कुरुजनपदे इषुकारपुरे अवतीर्णास्तत्र प्रथम इषुकारराजा जातः । द्वितीयस्तस्यैव राज्ञः पट्टदेवी कमलावती जाता, तृतीयस्तस्यैव राज्ञो भृगुनामा पुरोहितः संवृत्तः । चतुर्थस्तस्यैव पुरोहितस्य भार्या संवृत्ता । तस्या वासिष्ठं नाम गोत्रम्, यशा इति नाम जातम् । स च भृगुपुरोहितः प्रकामं सन्तानलाभमभिलषति, अनेकदेवोपयाचनं कुरुते, नैमित्तिकान् प्रश्नयति । तौ द्वावपि पूर्वभवगोपदेवौ वर्धमानावधिना एवं ज्ञातवन्तौ, यथा आवामेतस्य भृगुपुरोहितस्य पुत्रौ भविष्यावः । ततः श्रमणरूपं कृत्वा द्वावपि भृगुगृहे समायातौ, सभार्येण भृगुणा वन्दितौ, सुखासनस्थौ धर्मं कथयतः । तयोरन्तिके सभार्येण भृगुणा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org