________________
खण्डः - २ दृष्टान्तसमुच्चयः
श्रावकव्रतानि गृहीतानि । पुरोहितेन कथितम् भगवन् ! अस्माकमपत्यं भविष्यति न वा इति ? साधुभ्यामुक्तं भवतां द्वौ द्वारको भविष्यतः, तौ च बालावस्थायामेव प्रव्रजिष्यतः, तयोर्भवद्भ्यां व्याघातो न कार्यः । तौ प्रव्रज्य घनं लोकं प्रतिबोधयिष्यतः । इति भणित्वा तौ देवौ स्वस्थानं गतौ ।
ततोऽचिरेण च्युत्वा पुरोहितभार्याया उदरेऽवतीर्णौ । ततोऽसौ पुरोहितः सभार्यो नगरान्निर्गत्य प्रत्यन्तग्रामे स्थितः, तत्रैव सा ब्राह्मणी प्रसूता, दारकौ जातौ, लब्धसंज्ञौ तौ ताभ्यां मुनिमार्गविरक्तताकरणार्थमेवं शिक्षितौ य एते मुण्डितशिरस्काः साधवो दृश्यन्ते, बालकान् मारयित्वा तन्मांसं खादन्ति, तत एतेषां समीपे श्रीमद्भिर्न कदापि स्थेयम् । अन्यदा तस्माद् ग्रामादेतौ क्रीडन्तौ बहिर्निर्गतौ, तत्र पथश्रान्तान् साधूनागच्छतः पश्यतः । ततो भयभ्रान्तौ तौ दारकावेकस्मिन् वटपादपे आरूढौ । साधवस्तु तस्यैव वटपादपस्याधः पूर्वंगृहीताशनादिभोजनं कर्तुं प्रवृत्ताः । वारूढ कुमारौ स्वाभाविकमन्नपानं पश्यतः । ततश्चिन्तुतुं प्रवृत्तौ नैते बालमांसाशिनः, किन्तु स्वाभाविकाहारकारिणः, क्वचिदेतादृशः साधवोऽस्माभिर्दृष्टा इति चिन्तयतोस्तयोर्जातिस्मरणमुत्पन्नम् । ततः प्रतिबुद्धौ तौ साधून् वन्दित्वा गतौ मातृ-पितृसमीपम् । अध्ययनोक्तवाक्यैस्ताभ्यां मातापितरौ प्रतिबोधितौ । तद्धनलिप्सुं राजानां च राज्ञी प्रतिबोधितवती । एवं षडपि जीवा गृहीतप्रव्रज्याः केवलज्ञानमासाद्य मोक्षं गताः ।
६२. अविरमणध्याने श्री आवश्यकहारिभद्रीयटीकाऽन्तर्गता मेतार्यमुनिकथा ।
साएते णगरे चंडवडंसओ राया, तस्स दुवे पत्तीओ - सुदंसणा पियदंसणा य, तत्थ सुदंसणा दुवे पुत्ता - सागरचंदो मुणिचंदो य पियदंसणाएवि दो पुत्ता- गुणचंदो बालचंदो य, सागरचंदो जुवराया, मुणिचंदस्स उज्जेणी दिण्णा कुमारभुत्तीए । इओ य चंडवडंसओ राया माहमासे पडिमं ठिओ वासघरे जाव दीवगो जलइत्ति, तस्स सेज्जावाली चिंतेइ दुक्खं सामी अंधतमसे अच्छिहिति, ताए बितिए जामे विज्झायंते दीवगे तेल्लं छूढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे पुणोवि तेल्लं छूढं ताव जलिओ जाव पच्छिमपहरो, तत्थवि छूढं, ततो राया सुकुमारो विहायंतीए रयणीए वेयणाभिभूओ कालगओ, पच्छा सागरचंदो राया जाओ । अण्णया सो माइसवत्तिं भणइ - गेण्ह रज्जं पुत्ताण ते भवउत्ति, अहं पव्वयामि, सा णेच्छइ एएण रज्जं आयत्तंति, तओ सा अतिज्जाणनिज्जाणेसु रायलच्छी दिप्पंतं पासिऊण चिंतेइ - मए पुत्ताण रज्जं दिज्जंतं ण इच्छियं, तेवि एवं सोभन्ता, इयाणीवि णं मारेमि, छिद्दाणि मग्गइ सो य छूहालू, तेण सूतस्स संदेसओ दिण्णो, एत्तो चेव पुव्वहियं पठ्ठविज्जासि, जइ विरावेमि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसज्जिओ,
Jain Education International 2010_02
२८३
For Private & Personal Use Only
www.jainelibrary.org