Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
खण्ड:-२ दृष्टान्तसमुच्चयः
२८१
६०. रसगौरवध्याने श्रीउपदेशप्रासाददर्शितं जितशत्रुनृपसुबुद्धिमन्त्रिवृतम् । ___ चंपायां जितशत्रुर्नृपः । तस्य सुबुद्धिर्मंत्री सम्यग्जिनमतज्ञः । एकदा नृपो दिव्यरसवती सरसां कारयित्वा बहुसामन्तयुतो भुक्त्वा रसगृचः 'अहो रसोऽहो गन्धः' इत्यादिवाक्यैः श्लाघां चकार । सुबुद्धिं विनाऽन्येऽपि सर्वे तथैव श्लाघां चक्रुः । ततो राज्ञा मंत्री पृष्ट:-त्वं किं न प्रशंससि ?' । सोऽवक्-“राजन् ! शुभाशुभवस्तुषु मम विस्मयो न । यतः पुद्गलाः सुगन्धा दुर्गन्धाः सुरसा अपि विरसा भवन्ति वैपरीत्येन वा । ततो निन्दाप्रशंसे न युक्ते" । राजा तन्न श्रद्धत्ते । अन्यदा राजा राजपाटिकायां गच्छन् मार्गे परिखोदकं बहुजीवाकुलं दुर्गन्धं सूर्यातपक्कथितं दृष्ट्वा नासिकां वस्त्रेण पिधाय 'अहो दुर्गन्धनिन्द्यं जलं' इत्यवादीत् । मंत्री प्राह-'राजन् ! मा जलं निन्द, कालप्रयोगेणाभव्यमपि भव्यतया परिणमति' । राज्ञा नांगीकृतम् । ततो मंत्रिणा रहः परिखोदकं वस्त्रगलितं स्वाप्तनरैः कोरकघटे क्षेपितं कतकचूर्णादिना च निर्मलीकृतम् । पुनर्गलितं नव्यघटेषु क्षिप्तं । एवमेकविंशत्या दिनैस्तन्नीरं स्वच्छसुखादुशीतलं लोकोत्तरप्रायमजायत । ततः सुरभिवास्यं कृत्वा नृपजलरक्षकेभ्यो दत्तम् । समये राज्ञः समीपे तैरुपनीतम् । नृपस्तस्य जलस्य लोकोत्तरगुणानुपलभ्य तान् प्रपच्छ-'क्वेदं प्राप्तं ?' ते प्रोचुः-'मंत्रिणाऽर्पितं' । राज्ञा मंत्री पृष्टः प्राह-'राजन् यद्यभयं ददासि तदा जलोत्पत्तिं वदामि' । राज्ञाऽभये दत्ते मंत्री यथावृत्तं प्रोवाच । नृपो न श्रद्धत्ते । ततो मंत्रिणा तदध्यक्षं पूर्वोक्तविधिना कृतम् । राजा वीक्ष्य विस्मितः प्राह-कथं त्वयैतज्ज्ञातं ?' । सोऽवदत्-“राजन् ! जिनागमश्रुतादिश्रद्धया च पुद्गलपरिणामोऽयमेवेति । हे नृप ! पुद्गलानामचिन्तनीया शक्तिः अनेकधा परिणमनस्वभावस्तिरोभावत्वेन वर्तते । स च ज्ञानिनां ज्ञान आविर्भवति । परंतु छद्मस्थानां ज्ञानावरणादिकर्मावृतानां सम्यगुपलब्धिर्न जायते । तथापि श्रुतवचोभिरवश्यं श्रद्धेयैव । यत इहलोके द्विविधाऽनुपलब्धिर्भवति । तत्रैकाऽसतो वस्तुनो यथा शशशृंगादीनां द्वितीया तु सतामप्यर्थानामनुपलब्धिर्भवति । सात्राष्टविधा । तथाहि-अतिदूरात् प्रथमा, सा त्रिविधा देशकालस्वभावविप्रकर्षात् अनुपलब्धिः । तत्र कश्चिन्नरो ग्रामान्तरं गतो न दृश्यते, तत्कथं नास्ति सः ? अस्त्येव, परं देशविप्रकर्षान्नोपलब्धिः । एवं समुद्रस्य परित्तं पर्यन्तः मेर्वादिकं च सदपि नोपलभ्यते । तथा कालेन विप्रकर्षात् अतीता निजपूर्वजादयो भविष्यत्पद्मनाभादयो जिना नोपलभ्यन्ते । तथा स्वभावविप्रकर्षात् नभोजीवपिशाचादयो न दृश्यन्ते, न च ते न सन्तीति १ । तथाऽतिसामीप्यात् यथा नेत्रकज्जलं नोपलभ्यते, तत्कथं नास्ति ? अस्त्येव २ । तथेन्द्रियघातात् । यथान्धबधिरादयो रूपशब्दादीन्नोपलभन्ते, तत्किं न सन्ति ? सन्त्येव ३ । तथा मनोऽनवस्थानात् यथाऽनवस्थितचेता गजमपि गतं न पश्यति, तत्किं नास्ति ? अस्त्येव ४ । तथा सौक्ष्म्यात् यथा जालान्तरगतत्रसरेणवः परमाणुव्यणुकादयो वा सूक्ष्मनिगोदादयो नोपलभ्यन्ते, तत्किं न सन्ति ?
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400