Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 377
________________ परिशिष्टम्-७ दिगम्बरीयमूलाचारग्रन्थाऽन्र्तगताः श्रीआतुरप्रत्याख्यानप्रकीर्णकगाथाः । आतुर० गा० १७ प्रत्याख्यानसंस्तरस्तवप्रतिपत्तृभ्यां सहाभेदं कृत्वात्मनः ग्रंथकर्ता प्रत्याख्यानसंस्तरस्तवनामधेयद्वितीयाधिकारार्थमाह । अथवा षटकाला यतीनां भवन्ति तत्रात्मसंस्कारसल्लेखनोत्तमार्थकालास्त्रयः आराधनायां कथ्यते । शेषा दीक्षाशिक्षागणपोषणकाला आचारे, तत्राद्येषु त्रिषु कालेषु यद्युपस्थितं मरणं तत्रैवंभूतं परिणामं विदधेऽहमित्यत आह सव्वदुक्खप्पहीणाणं सिद्धाणं अरहदो णमो । सद्दहे जिणपण्णत्तं पच्चक्खामि य पावयं ।।३७।। __सव्वदुक्खप्पहीणाणं-सर्वाणि च तानि दुःखानि च सर्वदुःखानि समस्तद्वन्द्वानि तैः प्रहीणा रहिताः। अथवा सर्वाणि दुःखानि प्रहीणानि येषां ते सर्वदुःखप्रहीणास्तेभ्यः । सिद्धाणं-सिद्धेभ्यः सम्यक्त्वाद्यष्टगुणैश्वर्येभ्यः । अरहदो-अर्हद्भ्यश्च नवकेवललब्धिप्राप्तेभ्यश्च चशब्दोऽनुक्तोऽपि द्रष्टव्यः । णमो-नमो नमोऽस्ति तेभ्यः । सद्दहे-श्रद्दधे रुचिं कुर्वे । जिणपण्णत्तं-कर्मारातीन् जयन्तीति जिनाः तैः प्रज्ञप्तं कथितं जिनप्रज्ञप्तं जिनकथितम् । पच्चक्खामि-प्रत्याख्यामि परिहरे । पावयं-पापकंदुःखनिमित्तम् । सर्वद्वंद्वरहितेभ्यः सिद्धेभ्योऽर्हद्भ्यो नमोस्तु । सर्वज्ञपूर्वक आगमो यतोऽस्तस्तन्नमस्कारानन्तरमागमश्रद्धानं श्रद्दधे जिनप्रज्ञप्तमित्युक्तं सम्यक्त्वपूर्वकं च, यतः आचरणमतः प्रत्याख्यामि सर्वपापकमित्युक्तम् । अथवा क्त्वान्तोऽयं नमःशब्दः प्राकृते लोपबलेन सिद्धः । सिद्धानर्हतश्च नमस्कृत्वा जिनोक्तं श्रद्दधे पापं च प्रत्याख्यामीत्यर्थः । अथवा मिङन्तोऽयं नमःशब्दः तेनैवं सम्बन्धः कर्तयः-सर्वदुःखप्रहीणान् सिद्धान् अर्हतश्च नमस्यामि जिनागमं च श्रद्दधे। पापं च प्रत्याख्यामीत्येकक्षणेऽनेकक्रिया एकस्य कर्तुः संभवन्ति इत्यनेकान्तद्योतनार्थमनेन न्यायेन सूत्रकारस्य कथनमिति ।। आतुर. गा० १८ भक्तिप्रकर्षार्थं पुनरपि नमस्कारमाह णमोत्थु धुदपावाणं सिद्धाणं च महेसिणं । संथरं पडिवज्जामि जहा केवलिदेसियं ।।३८।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400