Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 378
________________ परिशिष्टम्-७ मूलाचारतुलनागाथाः ३३७ अथवा प्रत्याख्यानसंस्तरस्तवौ द्वावधिकारी, द्वे शास्त्रे वा गृहीत्वा एकोऽयं अधिकारः कृतः, कुतो ज्ञायते नमस्कारद्वितयकरणादिति । णमोत्थु-नमोऽस्तु । धुदपावाणं-धुतं विहतं पापं कर्म यैस्ते धुतपापस्तेभ्यः । सिद्धाणं च-सिद्धेभ्यश्च । महेसिणं-महर्षिभ्यश्च केवलद्धिप्राप्तेभ्यः । संथरं-संस्तरं सम्यग्दर्शनज्ञानचारित्रतपोमयं भूमिपाषाणफलकतृणमयं वा । पडिवज्जामि-प्रपद्ये अभ्युपगच्छामि । जहा-यथा । केवलिदेसियं-केवलिभिर्दृष्टः केवलिज्ञानिभिः प्रतिपादितमित्यर्थः । धुतपापेभ्यः सिद्धेभ्यो महर्षिभ्यश्च नमोऽस्तु । केवलिदृष्टं संस्तरं प्रतिपद्येऽहमिति पूर्ववत्सम्बन्धः कर्तव्यः । सिद्धानां नमस्कारो मङ्गलादिनिमित्तं महर्षीणां च तदनुष्ठितत्वाच्चेति । आतुर गा. १९ प्रतिज्ञानिर्वहणार्थमाह जं किंचि मे दुच्चरियं सव्वं तिविहेण वोसरे । सामाइयं च तिविहं करेमि सव्वं णिरायारं ।।३६।। जं किंचि-यत्किंचित् । मे-मम । दुच्चरियं-दुश्चरितं पापक्रियाः । सव्वं-सर्वं निरवशेषम् । तिविहेण-त्रिविधेन मनोवचनकायैः । वोसरे-व्युत्सृजामि परिहरामि । सामाइयं च-सामायिकं समन्वीभावं च । तिविहं-त्रिप्रकारं मनोवचनकायगतं कृतकारितानुमतं वा । करेमि-कुर्वेऽहम् । सव्वं-सर्वं सकलम् । णिरायारं-आकारान्निर्गतं निराकारं निर्विकल्पम् । समस्ताचरणं निर्दोषं यत्स्तोकमपि दुश्चरितं तत्सर्वं व्युत्सृजामि त्रिविधेन, सामायिकं च सर्वं निरतिचारं निर्विकल्पं च यथा भवति तथा करोमीत्यर्थः, दुश्चरित्रकारणं यत् तत्सर्वं त्रिप्रकारैः मनोवाक्कायैः परिहरामीति । आतुर. गा० २० उत्तरसूत्रमाह बज्झब्भंतरमुवहिं सरीराइं च सभोयणं । मणसा वचि कायेण सव्वं तिविहेण वोसरे ।।४।। बझं-बाह्यं क्षेत्रादिकम् । अब्भंतरं-अभ्यन्तरमन्तरंगं मिथ्यात्वादि । उवहिं-उपधिं परिग्रहम् । सरीराइं च-शरीरमादिर्यस्य तच्छरीरादिकम् । सभोयणं-सह भोजनेन वर्तत इति सभोजनं आहारेण सह । मणसा वचि कारण-मनोवाक्कायैः । सव्वं-सर्वम् । तिविहेण-त्रिप्रकारैः कृतकारितानुमतैः। वोसरे-व्युत्सृजामि । बाह्यं शरीरादि सभोजनं परिग्रह, अन्तरंगं च मिथ्यात्वादिकं सर्वं त्रिप्रकारैर्मनोवाक्कायैः परिहरामीत्यर्थः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400