________________
खण्डः-२ दृष्टान्तसमुच्चयः
२०९
क्षमयामि सर्वाञ्जीवान् सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् ।।७९ । । मामकीनं न किमपि न वाऽहमपि कस्यचित् । ममकारमकार्षं यं तमपि व्युत्सृजाम्यहम् ।।८० ।। कानि कानि न मूढोऽहं पापस्थानान्यसेविषि । तन्मिथ्या दुष्कृतं मेऽस्तु गतरागस्य संप्रति ।।८१ ।। देवत्वनृत्वतिर्यक्त्वनारकत्वेषु यन्मया । कृतं दुष्कर्म तद्गहें श्रीवीरोऽर्हन् गतिर्मम ।।८२।। एवमाराधनां कृत्वा प्रत्याचख्यौ चतुर्विधम् । आहारमथ दध्यौ च नमस्कारं समाहितः ।।८३।। तदा च वरुणस्यैकः सुहृन्मिथ्यादृगाहवात् । बहिर्भूत्वोपवरुणमागत्यैवमवोचत ।।८४ ।। वयस्य ! तव सौहार्दक्रीतोऽहमपि संप्रति । त्वदासेवितमध्यानं प्रपन्नोऽस्म्यविदन्नपि ।।८५ ।। नमस्कारपरावर्ती धर्मध्यानपरायणः । समाधिमरणं प्राप्य सौधर्मे वरुणो ययौ ।।८६।। तद्विमानेऽरुणाभाख्ये चतुःपल्योपमप्रमम् । पूरयित्वायुरुत्पद्य विदेहेषु स सेत्स्यति ।।८७ ।। अज्ञानसेवितेनापि वरुणस्य तु वर्त्मना । विपद्य तत्सुहृद्भूयो मनुष्यः सुकुलेऽभवत् ।।८८।। विदेहेषु मनुष्यत्वं पुनरासाद्य सत्कुले । मुक्तिमार्ग समाराध्य स मोक्षपदमाप्स्यति ।।८९ ।। हते च वरुणेऽभूवंश्चेटकस्य चमूभटाः । युद्धाय द्विगुणोत्साहाः काण्डस्पृष्टवराहवत् ।।९० ।। गणराजसनाथैस्तैश्चेटकस्य चमूभटैः । अकुट्टि कूणिकचमूर्दशद्भिरधरं रुषा ।।९१।। कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमधावत ।।९२।। सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः । दिशो दिशि परबलं पद्मखंडमिवाक्षिपत् ।।१३।। कूणिकं दुर्जयं ज्ञात्वा चेटकोऽथात्यमर्षणः । तं दिव्यं मार्गणं शौर्यधनो धनुषि सन्दधे ।।९४ ।। इतश्च वज्रकवचं कूणिकस्य पुरो हरिः । व्यधत्त चमरेन्द्रस्तु पृष्ठे सन्नाहमायसम् ।।९५ ।। चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्मणा स्खलितोऽन्तरा ।।९६।। अमोघस्यापि बाणस्य तस्य मोघत्वदर्शनात् । चमूभटाश्चेटकस्य पुण्यक्षयममंसत ।।९७।। द्वितीयं नाऽमुचद्बाणं सत्यसन्धस्तु चेटकः । अपसृत्य द्वितीयस्मिन् दिने तद्वदयुध्यत ।।१८।। तथैव मोघबाणोऽभूद् द्वितीयेऽप्यह्नि चेटकः । एवं दिने दिने युद्धमतिघोरमभूत्तयोः ।।९९।। लक्षाशीत्याऽधिका कोटिर्भटानां पक्षयोर्द्वयोः । विपेदे या सोदपादि तिर्यक्षु नरकेषु च ।।१०० ।। नंष्ट्वा स्वस्वपुरं यात्सु गणराजेषु चेटकः । प्रणश्य प्राविशत् पुर्यां कूणिकोऽपि रुरोध ताम् ।।१०१।। तदा सेचनकारूढौ चंपेशस्याखिलं बलम् । वीरौ हल्लविहल्लौ तौ रात्रावभिबभूवतुः ।।१०२।। न प्रहर्तुं नवा धर्तुं स हस्ती स्वप्नहस्तिवत् । केनाप्यशाकि चंपेशाशिबिरे सौप्तिकागतः ।।१०३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org