________________
२१०
आतुरप्रत्याख्यानप्रकीर्णकम
मारयित्वा मारयित्वा निशि हल्लविहल्लयोः । क्षेमेण गच्छतोर्मंत्रिमंडली स्माऽऽह कूणिकः ।।१०४ ।। आभ्यां विद्रुतमस्माकं प्रायेण सकलं बलम् । तद् ब्रूत क इहोपायो जये हल्लविहल्लयोः ।।१०५ ।। मंत्रिणोऽप्यूचिरे तौ हि जेतुं शक्यौ न केनचित् । अधिरूढौ हि यावत्तं हस्तिनं नरहस्तिनौ ।।१०६।। तस्मात्तस्यैव करिणो वधाय प्रयतामहे । खादिरांगारसंपूणां कार्यतां पथि खातिका ।।१०७।। छादयित्वा च वारीव दुर्लक्ष्या सा करिष्यते । तस्यां सेचनको वेगादभिधावन् पतिष्यति ।।१०८ ।। चंपेशाऽकारयदथ खादिरांगारपूरिताम् । खातिकामुपरिच्छन्नां तदागमनवम॑नि ।।१०९।। अथ हल्लविहल्लावप्यवस्कन्दकृते निशि । निरीयतुः सेचनकाधिरूढौ जितकाशिनौ ।।११० ।। अंगारखातिकोपान्तमेत्य सेचनकोऽपि हि । तां विभंगेन विज्ञाय तस्थौ यातममानयन् ।।१११।। ततो हल्लविहल्लाभ्यामिति निर्भर्त्सतः करी । पशुरस्यकृतज्ञोऽसि कातरो यदभू रणात् ।।११२।। विदेशगमनं बन्धुत्यागश्च त्वत्कृते कृतः । अस्मिन्दुर्व्यसने क्षिप्तस्त्वत्कृते चार्यचेटकः ।।११३ ।। वरं श्वा पोषितः श्रेयान् भक्तः स्वामिनि यः सदा । न तु त्वं प्राणवाल्लभ्याद्योऽस्मत्कार्यमुपेक्षसे ।।११४ ।। इति निर्भर्त्सतो हस्ती कुमारौ निजपृष्ठतः । वेगादुत्तारयामास भक्तंमन्यो बलादपि ।।११५ ।। स्वयं तु तस्मिन्नंगारगर्ते झम्पां ददौ करी । सद्यो विपद्य चाद्यायामुत्पेदे नरकावनौ ।।११६ ।। कुमारौ दध्यतुधिग्धिगावाभ्यां किमनुष्ठितम् । पशुत्वमावयोळक्तं न तु सेचनकः पशुः ।।११७ ।। आर्यपादा यस्य कृते क्षिप्ता दुर्व्यसने चिरम् । तं स्वयं निधनं नीत्वा जीवावोऽद्यापि दुर्धियौ ।।११८ । । आर्यसैन्यस्य महतो नाशप्रतिभुवाविव । अकृष्वहि वृथा नाशं नीतो बन्धुरबन्धुताम् ।।११९ । । तन्नाऽद्य जीवितुं युक्तं जीवावश्चेदतः परम् । शिष्यीभूयार्हतो वीरस्वामिनः खलु नान्यथा ।।१२० ।। तदा शासनदेव्या तौ भावश्रमणतां गतौ । नीतौ श्रीवीरपादान्ते परिवव्रजतुर्द्वतम् ।।१२१ ।।
[श्रीत्रिषष्टिशलाका० पर्व-१० श्लोक-१९० तः ३१०] २९. नियुद्धध्याने श्रीउपदेशप्रासादे बाहुबलिभरतयोः प्रबन्धः ।
श्रीऋषभदेवपुत्रः षष्टिवर्षसहस्रैः षट्खण्डां पृथ्वी साधयित्वा भरतोऽयोध्यायामाजगाम । तत्र द्वादशाब्दिके चक्रिराज्याभिषेके वर्तमाने स भूप आगतानागतान् जनानवलोकयन् तत्र निजानुजाननायातान् विज्ञाय स्वबान्धवान् प्रति प्रत्येकं दूतान् प्रेषितवान् । ते गत्वा तानेवमाहुः-“भो भरतबान्धवाः ! यूयं तं भूपं भजध्वं" । ततस्तैरुक्तं-“वयमपि नाभेयसूनवः भरतोऽपि पितुः सूनुः किमस्मत्तः सर्वेभ्योऽधिको योऽस्माकं सेवां वाञ्छति । भो दूताः ! यूयं स्वस्थाने यात, वयं तातं
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org