________________
खण्डः - २ दृष्टान्तसमुच्चयः
पृष्ट्वोचितं करिष्यामः ।” ततस्ते सुवर्णगिरी जिनान्तिके गत्वाऽभ्यधुः- “भोः तात ! षट्खण्डेन राज्येनातृप्तो भवद्भिर्दत्तमस्माकं राज्यं ग्रहीतुं समीहते । भगवदाज्ञया वयं सर्वेऽपि संभूय तस्य राज्यं गृह्णीमः” । स्वामिना तान्मुग्धान् प्रति धर्मदेशना दत्ता -
"
संबुज्झह किं न बुज्झह संबोहि खलु पेच्च दुलहा ।
नो हूवणमंत राइओ नो सुलहं पुणरवि जीवियं ॥ १ ॥ | "
२११
भगवद्देशनां श्रुत्वाऽष्टनवतिभरतानुजैर्व्रतं भेजे । तेषां राज्यानि भरतनृपो जग्राह । का सेनापतिर्नरदेवं नत्वैवं व्यजिज्ञपत् - "स्वामिन् ! बाहुबली भूपालस्त्वया न जितः तस्मिन्नजिते त्वया षट्खण्डं जितमप्यजितं, यतश्चक्रं शस्त्रागारे न प्रविशति ” । इति श्रुत्वा वाग्मी दूतः तक्षशिलां प्रति प्रेषितः । स्तोकप्रयाणैर्गच्छन् बहुलदेशे ग्रामे ग्रामे नगरे नगरे बहुजनमुखतो बाहुबलिनो यशः शृण्वन् तक्षशिलायां पुरि समागतः । ततः प्रतिहारेण सुवेगो दूतो बाहुबलिन आज्ञया स्वर्णवर्णाभमन्तःसभं प्रवेशितः । तं भूपं नमस्कृत्य पुरः स्थितः । बाहुबलिना बान्धवनगरादिकुशलं पृष्टं, तदुत्तरं दत्त्वा प्राह-“भो नृप ! तवाग्रजन्मा त्वन्मिलनोत्सुकस्त्वामाह्वयति । अतस्त्वमेकवारं तं नत्वा तस्याज्ञां शिरसि धृत्वाऽत्र समागच्छेः । यतो बान्धवोऽपि भरताज्ञां न मन्यते तर्ह्यस्याकिञ्चित्करः पराक्रम इति लोकापवादविध्वंसाय, अन्यथा तव राज्यसंशयो भविष्यति । यतः
I
करालगरलः सर्पः पावकः पवनोद्धुरः ।
प्रभुः प्रौढप्रतापश्च विश्वास्या न त्रयोऽप्यमी ।। १।।
निर्जरा अपि यं पर्युपासते तस्य सेवया हीनत्वं नास्ति" ।। इति श्रुत्वा भूपो बभाषे - “हे दूत ! तव भूपो मां वीक्ष्य लज्जिष्यति, यतो बाल्यावस्थायां जलकेल्यवसरे पादं धृत्वा नभसि कन्दुकवदुच्छालितस्तदपि विस्मृतं ! भो दूत ! षष्टिवर्षसहस्रेषु पापैर्भृतस्य तव भूपस्यान्यः कोऽपि प्रायश्चित्तदायको नास्ति, अहमेवास्मि । शीघ्रं समानय बलपरीक्षायै” । ततः सुवेगः सभयः प्रत्यावृत्तः स्तोकैरेव दिनैः स्वपुरमागत्य भरतान्तिकेऽनुजस्य सर्वस्वरूपं गदितवान् । “बाहुबली शक्रेणापि जेतुं न शक्यते” इति श्रुत्वा भरतः सपादकोटिस्वपुत्रान्वितः ससैन्यस्तक्षशिलां प्रति चचाल । बाहुबल्यपि सम्मुखं समागात् । तस्य ज्येष्ठपुत्रः सोमयशा नृपः स एकोऽपि लक्षत्रयहस्तिहयरथानां जेता । अस्य त्रिलक्षतनयाः । तेषु कनिष्ठोऽप्येकोऽक्षौहिणीमितां सेनां जेतुं समर्थः । अक्षौहिणीमानं तुं-२१८९० गजाः, २१८९० रथाः, ६५६१० अश्वाः, १०९३५० पदातयः इति । अथ चक्रिसैन्ये चतुरशीतिलक्षाणि निस्वानानां समकालमवादिषुः, अष्टादशलक्षदुन्दुभीनां निर्घोषाः षोडशलक्षाणि तूर्याणि । तानि श्रुत्वा सोत्साहा भटा मिथो युयुधिरे प्रत्यहम् । एकदा बाहुबलिनो भक्तोऽनिलवेगो विद्याधरश्चक्रि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org