________________
२१२
आतुरप्रत्याख्यानप्रकीर्णकम्
सेनापतिमस्रनिर्जित्याकाशगत्या चक्रिगजसेनां व्यगाहत, कन्दुकानिव गजानुल्लाल्य पुनर्भूमौ पततो मुष्ट्या जघान । चक्री तमजय्यं वीक्ष्य चक्रं मुमोच । तद्वीक्ष्य भीतो नष्टः मेरुकन्दरसागरादिषु यत्र यत्र याति तत्र तत्र चक्रं पूर्वार्जितकर्मवत्पृष्ठं न मुञ्चति, तदा विद्यया वज्रपञ्जरं निर्माय तत्र प्रविष्टः । __तदा चक्रसुराः प्राहुः-“रे रे रङ्क ! किं पौरूषं विडम्बयसि ?" । ततः षण्मासान्ते जातामों बहिनिःसृतः, तावञ्चक्रं, तच्छिरश्छित्वा चक्रिहस्तेऽतिष्ठत् । एवं युध्यमानयोर्द्धादशवर्षाणि व्यतीयुः । एकदा चक्रिज्येष्ठात्मजः सूर्ययशा बाहुबलिसैन्ये दावाग्निरिव प्रससार, क्षणात् पितृव्याभ्यणे आगतः । तं बली प्राह-"वत्स ! त्वं लघुरसि, यदेवं मम सेनां विगाहसे तेनाहं हृष्टोऽस्मि, त्वया पुत्रेणास्माकं वंशः समुद्योतितः, परं त्रैलोक्येऽपि स कश्चिन्नास्ति यो मम क्रोधं सहते, तस्मान्मम दृष्टिं त्यक्त्वा दूरतो योहि" ।
स प्राह-"तात ! अद्य त्वया विना को मम सङ्ग्रामाभिलाषं पूरयति ?" इत्युक्त्वा धनुष्टङ्कारवं चकार । तदा सुराः संभूय परस्परसुभटयुद्धं निषिध्य द्वयोर्बन्ध्वोः शिक्षामिति प्राह:-“भो युगादीशपुत्रौ ! तातेनेदं विश्वं पालितं अधुना युवां किं संहर्तुं प्रवृत्तौ ? एतन्न युज्यते युवयोः । बलपरीक्षार्थमुभाभ्यामेवास्मदादिष्टैर्दष्टि १ वाग् २ मुष्टि ३ बाहु ४ दण्डास्त्र ५ लक्षणैः पञ्चभिर्युद्धेर्योद्धव्यं" । इति सुरवाक्ये द्वाभ्यामपि प्रतिपन्ने सुरनराः साक्षीभूय तस्थुः । तदा चक्रिसैनिका दध्युः-"अनेन सह द्वन्द्वयुद्धे शक्रस्यापि जयप्राप्तौ संदेहस्तर्हि अस्मत्स्वामी कथं जयं प्राप्स्यति ?" इति ध्यायतो भटान् वीक्ष्य चक्री स्वबलदर्शनायैकं महाकूपं कारयित्वा तस्योपकण्ठे स्थित्वा स्वस्य वामभुजं महालोहशृङ्खलाभिर्बद्ध्वा सर्वसैनिकान् प्राह-“यूयं सर्वेऽपि संभूय शृङ्खलाकर्षणेन मां गर्तायां क्षिपत" । तैः सर्वैः कर्षितोऽपि मनाग् न चचाल । यतश्चक्रिणं भरतोत्पन्नसर्वनरनारीगजाश्वादयः संभूयाकर्षणं कर्तुं तिलमात्रमपि न क्षमाः तर्हि सेनाभिः किं भवेत् ? । ततश्चक्री हृदयलेपकरणमिषेण स्वहस्तमाचकर्ष, तेन ते सर्वेऽपि शृङ्खलालग्ना लतालग्नाः पक्षिण इव लम्बन्ते स्म । इति पराक्रमं वीक्ष्य हृष्टाः साक्षिण इव दूरे तस्थुः ।
ततश्चक्रिभूपौ प्राग्दृष्टियुद्धार्थं संमुखं स्थितौ अनिमेषदृष्ट्याऽवलोकयतः स्म । ताम्रलोचनौ भयंकरावभूतां । ततो बाहुबलिमुखं भीषणाक्षं विलोकयतश्चक्रिणो लोचने बाष्पाकुले वेगात्प्रमिलिते । तत्सैन्यं सर्वं न्यग्मुखं जातं । ततो लज्जितं चक्रिणं स प्राह- "भ्रातः ! किमुद्विग्नोऽसि ? कुरु वाग्युद्धं मया सह" । इति तेनोक्तश्चक्री महाघोरं सिंहनादं चकार, तेन जातं बधिरं स्कन्धावारमण्डलम् । ततः सामर्षो बाहुबली सिंहनादं चकार तेन सैनिकाः सर्वेऽपि मूर्छिता इव बभूवुः । पुनरपि चक्री भूपश्च सिंहनादं दुःसहं चक्रतुः । तदा चक्रिणो ध्वनिः पूर्वाह्नच्छायेव दुर्जनसौहृदमिव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org