SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः २१३ यथाक्रमं हीयमानोऽभूत् । तेन विलक्षं चक्रिणं भूप: स्माह-“हे भ्रातः ! मा विषीद, मया काकतालीयन्यायेन यदि जितं तर्हि किं जातं ? इदानी सज्जो भव मुष्टियुद्धाय" इति भूपेनोत्साहितः प्रोच्चैर्भुजास्फोटं कृत्वोत्प्लुत्यान्योऽन्यमाश्लिष्य भुजाभ्यां पीडयन्तौ जगर्जतुः । ततो भूपश्चक्रिणं करेण गृहीत्वा लीलया कन्दुकवदुञ्चैराकाशे उदलालयत् । क्षणाददृश्योऽभूत् । तेन सैन्यद्वयेऽपि हाहारवः प्रसृतः । भूपश्चिन्तया दध्यौ-“यावदार्योऽयं भूमौ पतित्वा न विशीर्यते तावदन्तरिक्षादेव गृह्णामि” इति विचिन्त्य तल्पाकारौ करौ कृत्वोर्ध्वदृष्टिस्तस्थौ । चिरेण स आययौ । बलिना बाहू प्रसार्य धृतः । ततः क्रोधाध्मातश्चक्री तन्मूर्ध्नि मुष्टिघातेन तममूर्छयत् । भूपोऽपि चिरेण प्राप्तचैतन्यश्चक्रिणं हृदि मुष्टिघातं कृत्वा मूर्छा गमितवान् । क्षणाल्लब्धसंज्ञश्चक्री रोषारुणो दण्डेन भूपमूर्ध्यताडयत्, तेन मुकुटः शतखण्डः कृतः । क्षणं नेत्रे निमील्य भूपो लोहमयदण्डेन चक्रिसन्नाहं शकलीचकार । ततश्चक्री दण्डघातेन भूपं जानुप्रमाणं भूमौ मग्नीचकार । ततो निर्गत्यायसदण्डेन भूपेन निहतश्चक्री आकण्ठं भूमौ मग्नः । क्षणाच्चैतन्यं प्राप्य निर्गतो दध्यो-“भूपैश्चक्री न जीयते" इतीयं शाश्वती स्थितिरस्ति, अनेनाहं पञ्चभिर्युद्धैर्जितः तर्हि मयि चक्रित्वं न हि" इति ध्यायतस्तस्य पाणौ चक्ररत्नमुपागतम् । तदा चक्री भूपं स्माह-“अद्यापि तव किञ्चिन्न नष्टं, ममाज्ञां मन्यस्व, नो चेदनेन चक्रेण यमातिथिर्भविष्यसि" । भूपः स्माह-"वाक्याडम्बरं वृथा किं वहसि ? साम्प्रतमस्यापि बलं दर्शय" इत्यादि निर्भसिंतश्चक्री कोपाञ्चक्रं मुमोच, तत्तं प्रदक्षिणीकृत्य पुनश्चक्रिकरे ययौ । यतः सामान्येऽपि चक्रिगोत्रे चक्रं न प्रभवति, तर्हि तथाविधे चरमशरीरिणि कोऽवकाशस्तस्य ? । अथ बाहुबली मुष्टिमुत्पाट्य “चक्रं वा यक्षसहस्रं वा तदधिपं वाऽद्य चूर्णयामि" इति विचिन्त्य चक्रिणं प्रत्यधावत । पुनर्दध्यौ-“अनेनावश्यं वधो भावी ततो मां विश्वे षट्खण्डनाथहन्तारं वदिष्यन्ति जनाः, अतो धिग्मयाऽहङ्कत्याऽनेकपापान्यर्जितानि। धन्यास्ते ममानुजा यैः पूर्वमेव तातपादसमीपे दीक्षा गृहीता, धिग्मामद्यापि पापरतं" इति ध्यात्वा तेनैव मुष्टिना स्वमूर्ध्नि लोचं चकार । ततः “साधु साधु" इति वदन्तो देवास्तस्योपरि पुष्पवृष्टिं चक्रुः ।। २९. नियुद्धध्याने श्रीआवश्यकहारिभद्रीयवृत्तौ अट्टनमल्लकथा । उज्जेणित्ति णयरी, तीए जियसत्तूरण्णो अट्टणो मल्लो अतीव बलवं, सोपारए पट्टणे पुहइवई राया सिंहगिरी नाम मल्लवल्लहो, पतिवरिसमट्टणजओहामिएण अणेण मच्छियमल्ले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुल्लकूवियाए गामे फलिहमल्ले कएत्ति । एवमक्षरगमनिकाऽन्यासामपि स्वबुद्ध्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथाप्रतिबद्धकथानकमपि विनेयजनहितायोच्यतेउज्जेणीणयरीए जियसत्तू राया, तस्स अट्टणो मल्लो सव्वरज्जेसु अजेओ, इओ य समुद्दतीरे सोपारयं णयरं, तत्थ सीहगिरी राया, सो य मल्लाणं जो जिणइ तस्स बहुं दव्वं देह, सो य अट्टणो तत्थ गंतूण Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy