________________
२०८
आतुरप्रत्याख्यानप्रकीर्णकम्
प्रभावं चेटकस्याऽमुं मया हा धिगजानता । मयैव निधनं नीता देवाभा भ्रातरो दश ।।५५ ।। बभूव या गतिस्तेषां भविष्यति ममापि सा । युज्यते नापसर्तुं च दृष्टभ्रातृवधस्य मे ।।५६।। तद्देवतां समाराध्य तत्प्रभावाज्जयाम्यरिम् । दिव्यप्रभावो दिव्येन प्रभावेण हि बाध्यते ।।५७ ।। उपायमिति निश्चित्य कृत्वा च हृदि देवताम् । तस्थावष्टमभक्तेन राजा श्रेणिकनन्दनः ।।५८ ।। पूर्वजन्मसंगतेन नुन्नौ तत्तपसापि च । शक्रश्च चमरेन्द्रश्च तत्कालं तमुपेयतुः ।।५९।। ऊचाते तौ च देवेन्द्रासुरेन्द्रौ भोः किमिच्छसि ? । सोऽप्यूचे यदि तुष्टौ स्थश्चेटकस्तनिहन्यताम् ।।६० ।। शक्रो भूयोऽप्यभाषिष्टाऽपरं किमपि याच्यताम् । साधर्मिकश्चेटको मे तं निहन्मि न जातुचित् ।।६१।। तथापि देहरक्षां ते करिष्यामि महीपते ! । यथा न जीयसे तेन सोऽब्रवीदेवमस्त्विति ।।६२।। चमरेन्द्रोऽप्यथ महाशिलाकंटकमाहवम् । अन्यं च रथमुशलं जैत्रं कर्तुममन्यत ।।६३।।। आद्ये शिलासन्निभः स्यात् पतितः कर्करोऽपि हि । कंटकोऽपि च जायेत महाशस्त्राधिकः खलु ।।६४ ।। द्वितीये रथमुशले भ्राम्यती भ्रमिकं विना । परितः पिष्यते ताभ्यां वैरिसैन्यं रणोत्थितम् ।।६५।। सुरेन्द्रश्चासुरेन्द्रश्च नरेन्द्रश्चापि कूणिकः । ततस्त्रयो युयुधिरे सह चेटकसेनया ।।६६।। पौत्रोऽथ नागरथिनो द्वादशव्रतपालकः । सम्यग्दृष्टिः षष्टभोजी सदा भवविरक्तधीः ।।६७ ।। राजाभियोगतः षष्टभक्तान्तेऽपि कृताष्टमः । श्रीचेटकक्षितीशेन स्वयमत्यर्थमर्थितः ।।६८।। संग्रामे रथमुशले दुःसहे तादृशेऽपि हि । प्राविशद्वरुणो नाम सेनानीः सत्यसंगरः ।।६९।।
(त्रिभिर्विशेषकम्) स चंपापतिसेनान्यं रणहेतोः समाक्षिपन् । प्रससार महासारो रथेनाऽसह्यरंहसा ।।७० ।। तौ संमुखीभूतस्थौ डुढौकाते रणेच्छया । वैरायमाणौ भूमिष्ठभानुस्वर्भानुभीषणौ ।।७१।। चंपापतेश्चमूनाथो वरुणं रणमार्गणम् । प्रहर प्रहरेत्युच्चैाजहार पुरः स्थितम् ।।७२।। वरुणः स्माह हे दोष्मन् ! श्रावकस्यास्ति मे व्रतम् । अनिघ्नते न प्रहारं करवै वैरिणेऽपि हि ।।७३।। साधु साधु महासत्त्वेत्युक्त्वा चंपेशसैन्यपः । मुमोच बाणं वरुणो विविधे तेन मर्मणि ।।७४ ।। ततः कूणिकसेनान्यं वरुणोऽरुणलोचनः । एकेनैव प्रहारेण निनाय यमसद्मनि ।।७५ ।। गाढप्रहारविधुरो निःसृत्य वरुणो रणात् । तृणसंस्तरमासूत्र्य निषद्येदमचिन्तयत् ।।७६।। सर्वात्मना शरीरेण स्वामिकार्यमनुष्ठितम् । इदानीमन्तकालो मे स्वार्थस्यावसरः खलु ।।७७ ।। अर्हद्भट्टारकाः सर्वे सिद्धाः सर्वे च साधवः । केवल्युपज्ञो धर्मश्च भूयासुः शरणं मम ।।७८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org