________________
खण्डः - २ दृष्टान्तसमुच्चयः
चेटकोऽप्यमितैः सैन्येः कूणिकायाभ्यषेणयत् । राजभिर्बद्धमुकुटैरष्टादशभिरावृतः ।। ३० ।। द्विपात्रीणि सहस्राणि तावन्तश्च तुरंगमाः । तावन्तश्च स्थास्तिस्रः कोटयश्च पदातयः । । ३१ । । अष्टादशानां प्रत्येकं राज्ञां बलमदोऽभवत् । तत्तुल्यसंख्यं नृपतेश्चेटकस्याऽप्यभूद्बलम् ।।३२।। स्वदेशसीम्नि गत्वाऽस्थाच्चेटकः सेनया तया । दुर्भेदं सागरव्यूहं रचयामास चोच्चकैः ।। ३३ ।। चंपाधिपोऽपि तत्रागाच्चम्वा प्रागुक्तसंख्यया । चक्रे च गरुडव्यूहमभेद्यं परसेनया ।। ३४ । । रणतूराणि घोराणि सैन्ययोरुभयोरपि । रोदः कुक्षिभरिध्वानान्यताड्यन्त सहस्रशः ।।३५।। कीर्तिस्तंभैरिवोत्तब्धैः खेटीधवलितैः खरैः । संशप्तकाश्च संचेरुर्द्वयोरपि हि सैन्ययोः ।। ३६।। कूर्णिकस्य बले कालः कुमारो बलनायकः । आदावपि प्रववृते योद्धुं चेटकसेनया ।। ३७ ।। युयुधे सादिना सादी निषादी च निषादिना । रथी च रथिना पत्तिः पत्तिना च बलद्वये ।। ३८ ।। स्तंबेरमैस्तुरंगैश्च कुन्तघातनिपातितैः । अजायत तदा शैलगंडशैलवतीव भूः ।। ३९ ।। स्थैर्भग्नैर्हतैर्वीरैः समरे रुधिराऽऽपगाः । सान्तरीपा इव साऽऽम्भोमानुषा इव चाऽऽबभुः ।।४०।। स्फुरद्भिरसिभिर्वीरकुञ्जराणां रणाजिरे । असिपत्रवनमिव प्रादुर्भूतमदृश्यत ।।४१।। असिच्छिन्नैरुच्छलद्भिर्वीराणां पाणिपंकजैः । कौणपाः पूरयामासुरवतंसकुतूहलम् ।।४२।। स्वान् रुंडानपि युद्धायाऽऽदिशन्त इव हुंकृतैः । पेतुर्भटानां मूर्धानः खड्गधाराभिराहताः ।।४३।। इत्थं च सागरव्यूहं कालः पोत इवांबुधिम् । अवगाह्य ययौ पारमिव चेटकसन्निधिम् ।।४४ ।। कालं कालमिवाकालेऽप्यायान्तं प्रेक्ष्य चेटकः । चिन्तयामास केनापि नैष वज्रमिवाऽस्खलि ।। ४५ ।। अभ्यापतन्तं तदिमं रणसागरमन्दरम् । क्षणादपि निगृह्णामि दैवतेन पतत्रिणा ।। ४६ ।। इति दिव्येषुणा वैरिप्राणसर्वस्वदस्युना । प्रहृत्य चेटकः कालं प्रापयामास पंचताम् ।।४७।। तदा चास्तमुपेयाय भास्वान् कालकुमारवत् । शुचेव चंपेशबलं तमसा जग्रसे जगत् ।।४८ ।। युद्धं विसृज्य चंपेशबलं जाग्रदवास्थित । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः ।।४९।। चेटकस्य पुनः सैन्ये वीरा वीरजयन्तिकाम् । कुर्वन्तो जयवादित्रवादनेनात्यगुर्निशाम् ।। ५० ।। चंपानाथेनाभिषिक्तं सेनानीत्वेऽपरेऽहनि । महाकालं कालमिव मारयामास चेटकः । । ५१ ।। अष्टौ सेनापतीनन्यानपि श्रेणिकनन्दनान् । एकैकमहन्येकैकस्मिन् पूर्ववच्चेटकोऽवधीत् ।।५२।। भ्रातृष्वात्मसमानेषु कालादिषु दशस्वपि । चेटकेन हतेष्वेवं चंपापतिरचिन्तयत् ।। ५३ ।। देवतायाः प्रसादेन जेतैकेनापि पत्त्रिणा । न ह्यायचेटको जय्यो मर्त्यैः कोटिमितैरपि ।। ५४ ।।
Jain Education International 2010_02
२०७
For Private & Personal Use Only
www.jainelibrary.org