________________
२०६
आतुरप्रत्याख्यानप्रकीर्णकम्
तस्याश्चात्याग्रहाद्राजा मेने हारादियाचनम् । स्त्रीग्रहः खलु मत्कोटग्रहादपि विशिष्यते ।।६।। अन्यस्मिंश्च दिने हल्लविहल्लौ पृथिवीपतिः । ययाचे त्यक्तसौभ्रात्रस्तद्धारादिचतुष्टयम् ।।७।। प्रमाणमादेश इति प्रतिपद्य गृहं गतौ । आ(अ)मंत्रयेतां तावित्थं बुद्धिमन्तावुभावरपि ।।८।। न शोभनोऽस्याभिप्रायः किमेनन प्रयोजनम् । प्रयावोऽन्यत्र कुत्रापि श्रियः सर्वत्र दोष्मताम् ।।९।। इति निश्चित्य तौ सान्तः पुरौ सेचनकद्विपम् । हारादीन्यप्युपादाय वैशाल्यां निशि जग्मतुः ।।१०।। मातामहश्चेटकस्तौ परिरभ्य समागतौ । स्नेहेन प्रतिपत्त्या च ददर्श युवराजवत् ।।११।। वैशाल्यां च गतौ ज्ञात्वा तौ प्रतारितधूर्तवत् । हस्तविन्यस्तचिबुकश्चिन्तयामास कूणिकः ।।१२।। न मे हस्त्यादिरत्नानि न च तौ भ्रातरावपि । जातोऽहमुभयभ्रष्टः स्त्रीप्रधानतया खलु ।।१३।। भवतु व्यसने प्राप्तेऽमुष्मिंस्तौ नाऽऽनयामि चेत् । पराभवसहिष्णोर्मे वणिजश्च किमन्तरम् ।।१४।। अनुशिष्य ततो दूतं वैशाल्यामुपचेटकम् । प्रेषीद् भ्रात्रोर्मार्गणाय रत्नान्यादाय जग्मुषोः ।।१५।। दूतोऽपि पुर्यां वैशाल्यां गत्वा चेटकपर्षदि । प्रणम्य चेटकं स्थाने चाऽऽसित्वोचे ससौष्ठवः ।।१६।। इह नंष्ट्वा समायातौ रत्नैः सह गजादिभिः । कुमारौ हल्लविहल्लौ कूणिकस्य समर्पय ।।१७।। अनर्पयन्निमौ राज्यभ्रंशमासादयिष्यसि । कीलिकार्थे देवकुलं न भ्रंशयितुमर्हसि ।।१८।। चेटकोऽवोचदन्योऽपि नाप्येत शरणागतः । दौहित्रौ किं पुनरिमौ विश्वस्तौ पुत्रवत्प्रियौ ।।१९।। दूतोऽब्रवीच्छरण्यस्त्वं न ह्यर्पयसि चेदिमौ । तद्रत्नान्यनयोर्हत्वा राजन्मत्स्वामिनेऽर्पय ।।२०।। चेटकः स्माह धर्मोऽयं समानो राजरंकयोः । अन्यस्य वित्तं न ह्यन्यो दातुमीशीत जातुचित् ।।२१।। न प्रसह्य न वा साम्नाऽनयोर्गृह्णमि किंचन । धर्मपात्रं हि दौहित्रौ दानाहों मे विशेषतः ।।२२।। दूतोऽप्यागत्य चंपायां तां गिरं चेटकोदिताम् । आख्यत् स्वस्वामिनः क्रोधवह्निवात्यामनाकुल: ।।२३।। कूणिकोऽपि हि तत्कालं जयभंभामवीवदत् । सिंहा इव पराक्षेपं न सहन्ते महौजसः ।।२४ ।। सैन्यान्यनन्यसामान्यतेजसस्तस्य भूपतेः । सद्यः सर्वाभिसारेण सज्जीभूयावतस्थिरे ।।२५।। कालादयः कुमाराश्च दशापि हि महाबलाः । पुरो बभूवुः संना सर्वसन्नहनेन ते ।।२६।। सहस्राणि त्रीणि गजास्तावन्तो वाजिनोऽपि हि । तावन्तश्च रथाः कोट्यस्तिस्रोऽपि च पदातयः ।।२७ ।। तेषां दशानां प्रत्येकं कुमाराणामिदं बलम् । एतावत्कूणिकस्यापि प्रभुत्वं त्वतिरिच्यते ।।२८ ।।
(युग्मम्) सैन्येनैतावता गच्छंश्चंपेशश्चेटकं प्रति । तिरयामास धरणिं तरणिं च रजोभरैः ।।२९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org