Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 311
________________ आतुरप्रत्याख्यानप्रकीर्णकम् ततस्ते पितरोऽवोचन् हे वत्सौ गच्छतं युवाम् । युवाभ्यां ननु जीवद्भयां जीवन्ति यदवोऽखिलाः ।।८१।। कृतेन पौरुषायत्तं युवाभ्यां कृतमेव हि । बलीयसी पुनरियं दुर्लघ्या भवितव्यता ।।८२ ।। दीक्षा श्रीनेमिपादान्तेऽस्मकाभिर्भाग्यवर्जितैः । नोपात्तानुभविष्यामः फलमद्य स्वकर्मणाम् ।।८३।। इत्युक्तेऽपि यदा रामकृष्णौ नागच्छतां तदा । वसुदेवो देवकी च रोहिणी चैवमूचिरे ॥ ८४ ॥ । अतः परं नः शरणं श्रीनेमिस्त्रिजगद्गुरुः । वयं चतुर्विधाहारप्रत्याख्यानमकृष्महि ।। ८५ ।। अर्हतः सिद्धसाधूंश्च धर्मं चार्हदुदीरितम् । अतः परं प्रपन्नाः स्मः शरणं शरणेच्छवः ।।८६।। न वयं कस्यचित् कोऽपि नास्मदीय इति स्वयम् । विहिताराधनास्तस्थुर्नमस्कारपरायणाः ।।८७।। तेषु द्वेपायनोऽथाग्निं ववर्षानलमेघवत् । विपद्य च ययुः स्वर्गं वसुदेवादयस्त्रयः ।। ८८ ।। रामकृष्णौ बहिः पुर्या जीर्णोद्यानेऽथ जग्मतुः । दह्यमानां पुरीं तत्र स्थितौ द्वावप्यपश्यताम् ।।८९।। माणिक्यभित्तयोऽभूवंश्चूर्णसादश्मखंडवत् । गोशीर्षचन्दनस्तंभा भस्मसाञ्च पलालवत् ।।९०।। प्राकारकपिशीर्षाणि तडत्तडिति तुत्रुटुः । तलान्यपि निकेतानां फडप्फडिति पुस्फुटुः ।।९१।। ज्वालानां नान्तरं तत्राभूज्जलानामिवार्णवे । एकानलमभूत्सर्वमेकार्णवमिव क्षये ।। ९२ ।। ज्वालाहस्तैर्ननर्तेव जगर्जेवानलः स्वनैः । धूमव्याजात्पौरमत्स्येष्वानायमिव चानयत् ।।९३।। अथोचे सीरिणं कृष्णो धिग्धिक् क्लब इवाधुना । अहं तटस्थः पश्यामि दह्यमानां निजां पुरीम् ।।९४।। यथा नालं पुरीं त्रातुं तथा न द्रष्टुमुत्सहे । आर्य ब्रूहि क्व गच्छावो विरुद्धं सर्वमावयोः ।।९५।। बभाषे बलभद्रोऽपि सुहृत्सम्बन्धिबान्धवाः । अस्माकं पाण्डुतनयास्तद्यावस्तन्निकेतनम् ।।९६।। कृष्णोऽप्यूचे तदानीं ते मया निर्विषयीकृताः । कथं तद्धाम्नि यास्यावः स्वापकारेण लज्जितौ ।।९७।। ऊचे रामोऽप्युपकारं सन्तो दधति चेतसि । कदापि कुस्वप्नमिव नापकारं स्मरन्ति तु ।। ९८ ।। अनेकधा सत्कृतास्ते कृतज्ञाः पांडुसूनवः । पूजामेव करिष्यन्ति भ्रातर्विमृश मान्यथा ।। ९९ ।। इत्युक्तः सीरिणा शार्ङ्ग प्राचलत्पूर्वदक्षिणाम् । उदिदश्य पांडवपुरीं तां पांडुमथुराभिधम् ।।१०० ।। ५४. संरम्भध्याने श्री आवश्यकहारिभद्रीयवृत्तौ क्षुल्लकमुनेः प्रबन्धः । २७० सागेयं णयरं, पुंडरिओ राया, कंडरिओ जुवराया, जुवरन्नो देवी जसभद्दा, तं पुंडरीओ चंकमंती दट्ठूण अज्झोववन्नो, नेच्छइ, तहेव जुवराया मारिओ, सावि सत्थेण समं पलाया, अहुणोववन्नगब्भा पत्ता य सावत्थिं, तत्थ य सावत्थीए अजियसेणो आयरिओ, कित्तिमत्ती मयहरिया, सा तीए मूले तेणेव कमेण पव्वइया जहा धारिणी तहा विभासियव्वा, नवरं तीए दारओ न छड्डिओ खुड्डगकुमारोत्ति Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400