________________
आतुरप्रत्याख्यानप्रकीर्णकम्
ततस्ते पितरोऽवोचन् हे वत्सौ गच्छतं युवाम् । युवाभ्यां ननु जीवद्भयां जीवन्ति यदवोऽखिलाः ।।८१।। कृतेन पौरुषायत्तं युवाभ्यां कृतमेव हि । बलीयसी पुनरियं दुर्लघ्या भवितव्यता ।।८२ ।। दीक्षा श्रीनेमिपादान्तेऽस्मकाभिर्भाग्यवर्जितैः । नोपात्तानुभविष्यामः फलमद्य स्वकर्मणाम् ।।८३।। इत्युक्तेऽपि यदा रामकृष्णौ नागच्छतां तदा । वसुदेवो देवकी च रोहिणी चैवमूचिरे ॥ ८४ ॥ । अतः परं नः शरणं श्रीनेमिस्त्रिजगद्गुरुः । वयं चतुर्विधाहारप्रत्याख्यानमकृष्महि ।। ८५ ।। अर्हतः सिद्धसाधूंश्च धर्मं चार्हदुदीरितम् । अतः परं प्रपन्नाः स्मः शरणं शरणेच्छवः ।।८६।। न वयं कस्यचित् कोऽपि नास्मदीय इति स्वयम् । विहिताराधनास्तस्थुर्नमस्कारपरायणाः ।।८७।। तेषु द्वेपायनोऽथाग्निं ववर्षानलमेघवत् । विपद्य च ययुः स्वर्गं वसुदेवादयस्त्रयः ।। ८८ ।। रामकृष्णौ बहिः पुर्या जीर्णोद्यानेऽथ जग्मतुः । दह्यमानां पुरीं तत्र स्थितौ द्वावप्यपश्यताम् ।।८९।। माणिक्यभित्तयोऽभूवंश्चूर्णसादश्मखंडवत् । गोशीर्षचन्दनस्तंभा भस्मसाञ्च पलालवत् ।।९०।। प्राकारकपिशीर्षाणि तडत्तडिति तुत्रुटुः । तलान्यपि निकेतानां फडप्फडिति पुस्फुटुः ।।९१।। ज्वालानां नान्तरं तत्राभूज्जलानामिवार्णवे । एकानलमभूत्सर्वमेकार्णवमिव क्षये ।। ९२ ।। ज्वालाहस्तैर्ननर्तेव जगर्जेवानलः स्वनैः । धूमव्याजात्पौरमत्स्येष्वानायमिव चानयत् ।।९३।। अथोचे सीरिणं कृष्णो धिग्धिक् क्लब इवाधुना । अहं तटस्थः पश्यामि दह्यमानां निजां पुरीम् ।।९४।। यथा नालं पुरीं त्रातुं तथा न द्रष्टुमुत्सहे । आर्य ब्रूहि क्व गच्छावो विरुद्धं सर्वमावयोः ।।९५।। बभाषे बलभद्रोऽपि सुहृत्सम्बन्धिबान्धवाः । अस्माकं पाण्डुतनयास्तद्यावस्तन्निकेतनम् ।।९६।। कृष्णोऽप्यूचे तदानीं ते मया निर्विषयीकृताः । कथं तद्धाम्नि यास्यावः स्वापकारेण लज्जितौ ।।९७।। ऊचे रामोऽप्युपकारं सन्तो दधति चेतसि । कदापि कुस्वप्नमिव नापकारं स्मरन्ति तु ।। ९८ ।। अनेकधा सत्कृतास्ते कृतज्ञाः पांडुसूनवः । पूजामेव करिष्यन्ति भ्रातर्विमृश मान्यथा ।। ९९ ।। इत्युक्तः सीरिणा शार्ङ्ग प्राचलत्पूर्वदक्षिणाम् । उदिदश्य पांडवपुरीं तां पांडुमथुराभिधम् ।।१०० ।। ५४. संरम्भध्याने श्री आवश्यकहारिभद्रीयवृत्तौ क्षुल्लकमुनेः प्रबन्धः ।
२७०
सागेयं णयरं, पुंडरिओ राया, कंडरिओ जुवराया, जुवरन्नो देवी जसभद्दा, तं पुंडरीओ चंकमंती दट्ठूण अज्झोववन्नो, नेच्छइ, तहेव जुवराया मारिओ, सावि सत्थेण समं पलाया, अहुणोववन्नगब्भा पत्ता य सावत्थिं, तत्थ य सावत्थीए अजियसेणो आयरिओ, कित्तिमत्ती मयहरिया, सा तीए मूले तेणेव कमेण पव्वइया जहा धारिणी तहा विभासियव्वा, नवरं तीए दारओ न छड्डिओ खुड्डगकुमारोत्ति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org