SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः २६९ तथैव घोषणां कृष्णः पुनः पुर्यामकारयत् । विशेषतो धर्मनिष्ठो लोकः सर्वो बभूव च ।।५६।। मृत्वा द्वैपायनोऽप्यग्निकुमारेषूदपद्यत । सस्मार पूर्ववैरं च द्वारकामाजगाम च ।।५७ ।। चतुर्थषष्ठाष्टमादिरतं तत्राखिलं जनम् । देवपूजाप्रसक्तं चापश्यद्वैपायनोऽसुरः ।।५८।। धर्मप्रभावतस्तत्रोपसर्ग कर्तुमक्षमः । छिद्राण्यन्वेषयन् सोऽस्थाद्वर्षाण्येकादशोग्रधीः ।।५९।। प्राप्तेऽब्दे द्वादशे लोको दध्यौ यत्तपसामुना । भ्रष्टो द्वैपायनो नष्टो जितश्चेति रमामहे ।।६० ।। रन्तुं प्रवृत्तास्ते स्वैरं मद्यपा मांसखादिनः । लेभेऽवकाशं छिद्रज्ञस्तदा द्वैपायनोऽपि हि ।।६१।। उत्पाता विविधाश्चैवं कल्पान्तोत्पातसन्निभाः । प्रादुरासन् द्वारकायामन्तकद्वारदर्शिनः ।।६२।। निपेतुरुल्का निर्घाताश्चाभवन् भूरकम्पत । ग्रहाश्च मुमुचुणूंमं धूमकेतुविडम्बकम् ।।६३।। अङ्गारवृष्टिं विदधे सच्छिद्रं रविमंडलम् । अकस्मादुपरागश्च चन्द्रमार्तंडयोरभूत् ।।६४।। अट्टहासं लेप्यमयाश्चक्रुर्वेश्मसु पुत्रकाः । उद्भूका जहसुश्चापि चित्रालिखितदेवताः ।।६५।। पुर्यन्तः श्वापदाश्चेरुः स च द्वैपायनासुरः । शाकिनीभूतवेतालादिभिः परिवृतोऽभ्रमत् ।।६६।। स्वप्नेष्वपश्यन् पौराः स्वं रक्ताम्बरविलेपनम् । पङ्कमग्नं कृष्यमाणं दक्षिणाभिमुखं तथा ।।६७।। प्रणेशुः सीरचक्रादिरत्नानि बलकृष्णयोः । ततो विचक्रे संवर्तं वातं द्वैपायनासुरः ।।६८।। स सर्वतोऽप्याजहार पुर्यां काष्ठतृणादिकम् । जनान् प्रणश्यतो दिग्भ्योऽप्यानीय न्यक्षिपत्पुरे ।।६९।। दिग्भ्योऽष्टाभ्योऽपि वातेन तेनोन्मूलितशाखिना । अपूर्यत समग्रापि दारुभिरका पुरी ।।७०।। षष्टिं बाह्याः कुलकोटी सप्ततिं तु मध्यगाः । संपिंड्य द्वारकापुर्यां सोऽसुरोऽग्निमदीपयत् ।।७१।। धगग्धगिति जज्वाल क्षयानल इवानलः । नीरन्धैधूमसन्तानैर्विश्वमप्यन्धकारयन् ।।७२।। पदमप्यक्षमा गन्तुं मिथो निगडिता इव । सबालवृद्धास्ते पौराः पीडीभूयावतस्थिरे ।।७३ ।। वसुदेवं देवकी च रोहिणी च रथे हरिः । आरोपयत् सरामोऽथ तानाक्रष्टुं प्रदीपनात् ।।७४।। न चेलुस्तुरगास्तत्र न चेलुर्वृषभा अपि । सुरेण स्तंभितास्तेन वार्तिकेणेव पन्नगाः ।।७५ ।। ततः स्वयं बलोपेन्द्रौ तमाचकृषतू रथम् । भग्नमक्षयुगं सद्यस्तऽत्तडिति कांडवत् ।।७६ ।। तथापि तौ स्वसामर्थ्यात्तं द्वारे निन्यतू रथम् । पाहि हा राम हा कृष्णेत्याक्रन्दैर्दीनमानसौ ।।७७ ।। अथ द्वारं कपाटाभ्यां झटित्येवासुरः प्यधात् । रामः पाणिप्रहारेणाभांक्षीत्तौ मृत्कपालवत् ।।७८ ।। भुवा ग्रस्त इव रथस्तथपि निरगान्न हि । सोऽपि देवोऽवदद्रामकृष्णौ किं मोह एष वाम् ।।७९।। अहो पुरापि युवयोराख्यातं यावां विना । न मोक्षः कस्यचिदिह विक्रीतं हि तपो मया ।।८०।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy