________________
२६८
आतुरप्रत्याख्यानप्रकीर्णकम्
तच्चाज्ञासीच्चरैः कृष्णो दध्यौ चैवं विषादभाक् । अहो दुर्दीततामीषां कुमाराणां कुलान्तकृत् ।।३१।। ततः कृष्णः सरामोऽगात्तत्र द्वैपायनं मुनिम् । अपश्यत् कोपरक्ताक्षं महाहिमिव दृग्विषम् ।।३२।। महामात्र इव व्यालमतिमात्रभयंकरम् । त्रिदंडिनं सान्त्वयितुं तमारेभे जनार्दनः ।।३३।। क्रोध एव महाशत्रुर्यो दुःखं नेह केवलम् । प्रदत्ते किं तु सततं जन्मलक्षेषु जन्मिनः ।।३४ ।। अज्ञानैर्मद्यपानान्धैरपराद्धं ममात्मजैः । तत्सहस्व महर्षे त्वममर्षो युज्यते न ते ।।३५।। कृष्णेनेत्युच्यमानोऽपि नाशाम्यत् स त्रिदंडिकः । इत्यूचे च कृतं कृष्ण भवतः सान्त्वभाषितैः ।।३६ ।। यत्पुत्रैस्ताड्यमानेन निदानं विहितं मया । सलोकां द्वारकां दग्धुं न मोक्षोऽत्र युवां विना ।।३७ ।। कृष्णं न्यषेधद्रामोऽपि मा बान्धव मुधैव हि । परिव्राजमनुनयामुकं वारितवामकम् ।।३८ ।। वक्राज्रिनासिकाहस्ताः स्थूलोष्ठोदरनासिकाः । विलक्षणाक्षा हीनाङ्गाः शान्तिं यान्ति न जातुचित् ।।३९।। अस्मिन् खलूक्त्वा तद्भातर्न नाशो भाविवस्तुनः । सर्वज्ञभाषितं चापि सर्वथा नान्यथा भवेत् ।।४।। ततश्च शोकसन्तप्तः कृष्णः स्वसदनं ययौ । द्वैपायननिदानं च द्वारिकायां प्रकट्यभूत् ।।४।।
अघोषयद्वितीयेऽह्नि नगर्यामिति शार्ङ्गभृत् । विशेषाद्धर्मनिरतास्तिष्ठतातः परं जनाः ।।४२।। तथारेभे जनः सर्वोऽप्युपेत्य भगवानपि । श्रीनेमिः समवासार्षीत्तत्र रैवतकाचले ।।४३।। तत्र गत्वा च नत्वा च कृष्णः शुश्राव देशनाम् । जगन्मोहमहानिद्राविद्रावणरविप्रभाम् ।।४४।। प्रद्युम्नशाम्बौ निषध उल्मुकः सारणादयः । कुमाराः प्राव्रजन् केऽपि श्रुत्व तां धर्मदेशनाम् ।।४५।। रुक्मिणीजाम्बवत्याद्या बह्वयश्च यदुयोषितः । स्वामिनः पादपद्मान्ते भवोद्विग्नाः प्रवव्रजुः ।।४६।। आचख्यौ कृष्णपृष्टश्च सर्वज्ञो भगवानिदम् । द्वैपायनो द्वादशेऽब्दे धक्ष्यति द्वारिकामिमाम् ।।४७ ।। दध्यौ च कृष्णो धन्यास्ते समुद्रविजयादयः । येऽग्रेऽपि प्राव्रजन् धिङ्मां राज्यलुब्धमदीक्षितम् ।।४८ ।। ज्ञात्वा तदाशयं स्वामी प्रोचे कृष्ण कदापि हि । न शाङ्गिणः प्रव्रजन्ति निदानेन कृतार्गलाः ।।४९।। गच्छन्त्यवश्यं तेऽधस्तात्त्वं गामी वालुकाप्रभाम् । श्रुत्वेति कृष्णः सद्योऽपि नितान्तविधुरोऽभवत् ।।५० ।। भूयोऽभ्यधत्त सर्वज्ञो मा विषीद जनार्दन । तत उद्धृत्य मर्त्यस्त्वं भावी वैमानिकस्ततः ।।५१।। च्युत्वा भाव्यत्र भरते गंगाद्वारपुरेशितुः । जितशत्रोः सुतोऽहंस्त्वं द्वादशो नामतोऽममः ।।५२।। ब्रह्मलोकं बलो गामी मर्यो भावी ततश्च्युतः । ततोऽपि देवश्चुत्वा स भाव्यत्र भरते पुमान् ।।५३।। उत्सर्पिण्यां प्रसर्पन्त्यां पृथिवीश जनार्दन । तीर्थनाथस्य ते तीर्थे स मोक्षमुपयास्यति ।।५४ ।। इत्युदित्वा जगन्नाथो विहरन्नन्यतो ययौ । तं नत्वा वासुदेवोऽपि जगाम द्वारिकां पुरीम् ।।५५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org