Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
खण्ड:-२ दृष्टान्तसमुच्चयः
२७५
किन्तु साम्यसुधास्पन्दभावितैः समयोचितैः । वाक्यैर्निर्यामयामास, तानेवं स महाशयः ! ।।३७।। "भिन्नः शरीरतो जीवो, जीवान्दिन्नश्च विग्रहः । विदन्निति वपु शेऽप्यन्तः खिद्येत कः कृती ? ।।३८ । । किञ्चाखिलो विपाकोऽयमस्ति स्वकृतकर्मणः । दुःखाय नोपसर्गस्तत्सतां कर्मजिघांसताम् ।।३९।। अवश्यं नाशिनो बाह्यस्याङ्गस्याऽस्य कृते ततः । कोपः कार्यो नान्तरङ्गध्रुवधर्मधनापहः ।।४०।।" स्कन्दकेनेति निर्याम्यमाना निर्मलमानसाः । महात्मनो विपक्षे च, मित्रे च समदृष्टयः ।।४१।।
यन्त्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः ।
केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् ! ।।४२।। (युग्मम्) द्रुतं हतेषु तेनैवं, ह्यूनपञ्चशतर्षिषु । एकं क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽदत् ।।४३।। अनुकम्प्यमिमं बालं, पीड्यमानं निरीक्षितुम् । नाहं शक्ष्यामि नियतं, पूर्वं पीडय मां ततः ! ।।४४ ।। तच्छ्रुत्वा पालकस्तस्य, भूरि दुःखविघित्सया । गुरोः पश्यत एव द्राक्, प्राक् तं बालमपीडयत् ! ।।४५।। शुक्लध्यानसुधासारशान्तकर्महुताशनः । बालः सोऽपि महासत्त्वो, महानन्दमविन्दत ! ।।४६।। तद्वीक्ष्य स्कन्दकाचार्यः, क्रुद्धोऽन्तर्ध्यातवानिति । अनेन सपरीवारः, पापेनाऽस्मि विनाशितः ! ।।४७ ।। क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः । निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ।।४८।। अयं भूपोऽपि निग्राह्योऽस्मद्विनाशनिबन्धनम् । उपेक्षाकारिणोऽस्माकं, वध्या जानपदा अपि ! ।।४९।। तद्दुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् । तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ।।५० ।। इत्थं कृतनिदानः स, पीडितस्तेन दुर्धिया । मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः ।।५१।। पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् । कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः ! ।।५२।। इतश्च स्कन्दकमुने रजोहरणमुत्तमम् । रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ।।५३।। तद्रजोहरणं च द्राग, भवितव्यनियोगतः । पुरः पुरन्दरयशोदेव्या गृध्रो न्यपातयत् ।।५४।। तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । काम्बलं खण्डमद्राक्षीभ्रातुः प्रव्रजतोर्पितम् ।।५५ ।। चिह्नेन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् । महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ।।५६।। रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् । महर्षीणां सुराणां च नह्यवज्ञा शुभावहा ! ।।५७।। इत्युदीर्येति दध्यौ चाऽधुनाऽहं व्रतमाददे । अलं संसारवासेनाऽमुना दुःखौघदायिना ! ।।५८ ।। चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् ! ।।५९ ।। ज्ञात्वाऽथाऽवधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः । क्रोधाध्मातो देशयुक्तमधाक्षीन्मंक्षु तत्पुरम् ।।६० ।। ततोऽरण्यमभूदेशभूमौ दण्डकिभूपतेः । अद्यापि दण्डकारण्यमिति तत्प्रोच्यते बुधैः ।।६१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400