SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः २७५ किन्तु साम्यसुधास्पन्दभावितैः समयोचितैः । वाक्यैर्निर्यामयामास, तानेवं स महाशयः ! ।।३७।। "भिन्नः शरीरतो जीवो, जीवान्दिन्नश्च विग्रहः । विदन्निति वपु शेऽप्यन्तः खिद्येत कः कृती ? ।।३८ । । किञ्चाखिलो विपाकोऽयमस्ति स्वकृतकर्मणः । दुःखाय नोपसर्गस्तत्सतां कर्मजिघांसताम् ।।३९।। अवश्यं नाशिनो बाह्यस्याङ्गस्याऽस्य कृते ततः । कोपः कार्यो नान्तरङ्गध्रुवधर्मधनापहः ।।४०।।" स्कन्दकेनेति निर्याम्यमाना निर्मलमानसाः । महात्मनो विपक्षे च, मित्रे च समदृष्टयः ।।४१।। यन्त्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः । केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् ! ।।४२।। (युग्मम्) द्रुतं हतेषु तेनैवं, ह्यूनपञ्चशतर्षिषु । एकं क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽदत् ।।४३।। अनुकम्प्यमिमं बालं, पीड्यमानं निरीक्षितुम् । नाहं शक्ष्यामि नियतं, पूर्वं पीडय मां ततः ! ।।४४ ।। तच्छ्रुत्वा पालकस्तस्य, भूरि दुःखविघित्सया । गुरोः पश्यत एव द्राक्, प्राक् तं बालमपीडयत् ! ।।४५।। शुक्लध्यानसुधासारशान्तकर्महुताशनः । बालः सोऽपि महासत्त्वो, महानन्दमविन्दत ! ।।४६।। तद्वीक्ष्य स्कन्दकाचार्यः, क्रुद्धोऽन्तर्ध्यातवानिति । अनेन सपरीवारः, पापेनाऽस्मि विनाशितः ! ।।४७ ।। क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः । निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ।।४८।। अयं भूपोऽपि निग्राह्योऽस्मद्विनाशनिबन्धनम् । उपेक्षाकारिणोऽस्माकं, वध्या जानपदा अपि ! ।।४९।। तद्दुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् । तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ।।५० ।। इत्थं कृतनिदानः स, पीडितस्तेन दुर्धिया । मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः ।।५१।। पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् । कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः ! ।।५२।। इतश्च स्कन्दकमुने रजोहरणमुत्तमम् । रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ।।५३।। तद्रजोहरणं च द्राग, भवितव्यनियोगतः । पुरः पुरन्दरयशोदेव्या गृध्रो न्यपातयत् ।।५४।। तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । काम्बलं खण्डमद्राक्षीभ्रातुः प्रव्रजतोर्पितम् ।।५५ ।। चिह्नेन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् । महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ।।५६।। रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् । महर्षीणां सुराणां च नह्यवज्ञा शुभावहा ! ।।५७।। इत्युदीर्येति दध्यौ चाऽधुनाऽहं व्रतमाददे । अलं संसारवासेनाऽमुना दुःखौघदायिना ! ।।५८ ।। चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् ! ।।५९ ।। ज्ञात्वाऽथाऽवधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः । क्रोधाध्मातो देशयुक्तमधाक्षीन्मंक्षु तत्पुरम् ।।६० ।। ततोऽरण्यमभूदेशभूमौ दण्डकिभूपतेः । अद्यापि दण्डकारण्यमिति तत्प्रोच्यते बुधैः ।।६१।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy