________________
२७४
आतुरप्रत्याख्यानप्रकीर्णकम्
अन्येयुः सुव्रतार्हन्तं, स्कन्दकः पृष्टवानिति । व्रजाम्यहं स्वसुदेशमादेशः स्याद्यदि प्रभोः ।।१३।। जगौ जगत्प्रभुस्तत्रोत्पत्स्यते मारणान्तिकः । सर्वेषामुपसर्गो वस्तच्छ्रुत्वा स्कन्दकोऽवदत् ।।१४ ।। आराधनासाधको हि, नोपसर्गस्तपस्विनाम् । दुःखायते महानन्दमहानन्दाभिलाषिणाम् ! ।।१५।। ततो ब्रूहि प्रभो ! तस्मिन्नपसर्ग उपस्थिते । आराधका भविष्यामो, वयं यद्वा विराधकाः ? ।।१६।। स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति । स्कन्दकस्तन्निशम्येति, व्यमृशद्धृशमुत्सुकः ।।१७।। आराधका इयन्तः स्युर्विहारे यत्र साधवः । नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ।।१८।। क्रमाद्गत्वा कुम्भकारकृते स सपरिच्छदः । उद्याने समवासार्षीत्तमश्रौषीच्च पालकः ।।१९।। ततः प्राग्वैरशुद्ध्यर्थमुद्याने तत्र पालकः । प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ।।२०।। इति दण्डकिराज्ञे चाऽषडक्षीणमुवाच सः । जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ।।२१।। अयं स्वयं महावीर्यश्चण्डदोर्दण्डविक्रमैः । साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः ।।२२।। उद्याने गोपितैः शस्त्रप्रकरैरतिदारुणैः । त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! ।।२३।। (युग्मम्) प्रत्ययश्चेन्न ते स्वामिन्नस्मिन्मद्वचने भवेत् । तदा तद्गोपितास्त्राणि, गत्वोद्यानं विलोकय ! ।।२४।। एवं व्युद्ग्राहितस्तेन तदुद्यानं गतो नृपः । स्थानेषु पालकोक्तेषु, नानास्त्राणि निरक्षत ! ।।२५।। दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् । अकार्यं विद्यते किञ्चिन्नाऽविमृश्य विधायिनाम् ।।२६।। पापस्य पालकस्यैव, तान्निबद्ध्यार्पयन्नृपः । यत्तुभ्यं रोचते तत्त्वमेषां कुर्या इति ब्रुवन् ! ।।२७।। मूषकानिव मार्जारस्तान प्राप्य मुदितोऽथ सः । संयतान् संयतान्मल्पीडायन्त्रान्तिकेऽनयत् ।।२८ ।। इति प्रोचे च रे ! यूयमिष्टं स्मरत दैवतम् । इदानीं पीडयिष्यामि, यन्त्रेणानेन वोऽखिलान् ।।२९।। ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः । जीविताशा मृत्युभीतिविप्रमुक्ता मनस्विनः ।।३०।। गृहीतालोचना सम्यक्, मैत्रीभावमुपागताः । पर्यन्ताराधनां सर्वे, विदधुर्विधिपूर्वकम् ! ।।३१।। (युग्मम्) मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा । द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्विभिः ।।३२।।
इत्यादि वदतोत्साह्यमानाः स्कन्दकसूरिणा ।।
अभवंस्ते विशेषेण, स्वदेहेऽपि गतस्पृहाः ! ।।३३।। (युग्मम्) क्रूराशयः क्रूरकर्मा, क्रूरगीः पालकस्ततः । एकैकं श्रमणं यन्त्रे, क्षेपं क्षेपमपीडयत् ।।३४ ।। पीड्यमानान् विनेयान् स्वान्, वीक्ष्यान्तर्दह्यतामयम् । इति स स्कन्दकं यन्त्रपार्श्वे बद्धमधारयत् ।।३५ ।।
पीड्यमानानगाराङ्गोच्छलच्छोणितबिन्दुभिः । समन्ताम्रियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः ! ।।३६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org