________________
खण्ड:-२ दृष्टान्तसमुच्चयः
२७३
लघृण वि भुवणनमिज्जमाणपयपंकयं जिणं वीरं ।
धम्ममवि भुवणगुरुणो सयासओ तस्स नाऊण ।।२६।। सव्वं पि हारियं नियमईए मूढेण किह मए तइया ? । एयं तु मज्झ जायं मिच्छत्तफलं अहन्नस्स ।।२७।।
ता अज्ज वि किंपि सुहं करेमि जह होइ सुगइगमणं मे ।
इय चिंतिय छट्ठतवोऽभिग्गहमेसो सया कुणइ ।।२८।। पारइ य फासुएणं आहारेणं सजाइजोग्गेण । इय धम्मज्झाणपरस्स तस्स कालो वइक्कंतो ।।२९।। अवरम्मि अवसरे वद्धमाणसामी समोसढो तत्थ । मज्जंतो पोक्खरिणीए तीए लोओ समुल्लवइ ।।३०।। गुणसिलए उज्जाणे चलह लहुं वीरवंदणनिमित्तं । इय निसुणिऊण सो ददुरो वि संजायभत्तिभरो ।।३१।। समवसरणम्मि चलिओ समुल्ललंतो इमं विचिंतंतो । भूमिलियभालवट्ठो वीरजिणिंदं नमिस्सामि ।।३२।। तत्तो य रह-तुरंगम-गयघड-सुहडोहघडियपरिवेढो । नमणत्थं वीरजिणस्स निग्गओ सेणिओ राया ।।३३।। तस्सेगयरतुरंगमखुरेण पहओ स ददुरो मग्गे । तम्घायपीडिओ सो सरिऊण जिणेसरं वीरं ।।३४।। विहियाणसणो मरिउं जाओ ददुरवडिंसयविमाणे । सो ददुरंकदेवो तओ य सिज्झिस्सइ विदेहे ।।३५ ।। ५७. असमाधिमरणध्याने श्रीमद्भावविजयकृतश्रीउत्तराध्ययनवृत्तौ स्कन्दकाचार्यकथानकम् ।
अभून्नगर्यां श्रावस्त्यां, जितशत्रुर्महीपतिः । सधर्मचारिणी तस्य, धारिणी संज्ञिकाऽभवत् ।।१।। गौरीशयोः स्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः । पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ।।२।। तदा दण्डकि भूपोऽभूत्कुम्भकारकृते पुरे । पुरोहितस्तु तस्याऽऽसीदभव्यः पालकाभिधः ! ।।३।। तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना । पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा. ।।४।। अन्यदा सुव्रतस्वामी, भव्याम्भोजनभोध्वगः । श्रावस्त्यां समवासार्षीत्सुरासुरनमस्कृतः ।।५।। धन्यंमन्यः स्कन्दकोऽगात्तं नन्तुं परमेश्वरम् । श्रुत्वा तद्देशनां श्राद्धधर्मञ्च प्रत्यपद्यत ।।६।। पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् । केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ।।७।। स च भूपसभामध्ये, कुर्वन्निर्ग्रन्थगर्हणाम् । द्रुतं निरुत्तरीचक्रे, स्कन्दकेन महाधिया ।।८।। पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि । अपकर्तुम्पुनः किञ्चित्तस्य न प्राभवत्तदा ।।९।। कृतप्रस्तुतकृत्योऽथ, पालकः स्वास्पदं ययौ । जगाम न तु तच्चित्तात्कोपः स्कन्दकगोचरः ।।१०।। अथ श्रीसुव्रतस्वामिपादान्ते दान्तमानसः । प्राव्राजीत्स्कन्दकः साकं, मर्त्यानां पञ्चभिः शतैः ।।११।। क्रमाद्बहुश्रुते जाते, स्कन्दके सुव्रतप्रभुः । तस्मै शिष्यतया तानि, पञ्च साधुशतान्यदात् ।।१२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org