Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 315
________________ २७४ आतुरप्रत्याख्यानप्रकीर्णकम् अन्येयुः सुव्रतार्हन्तं, स्कन्दकः पृष्टवानिति । व्रजाम्यहं स्वसुदेशमादेशः स्याद्यदि प्रभोः ।।१३।। जगौ जगत्प्रभुस्तत्रोत्पत्स्यते मारणान्तिकः । सर्वेषामुपसर्गो वस्तच्छ्रुत्वा स्कन्दकोऽवदत् ।।१४ ।। आराधनासाधको हि, नोपसर्गस्तपस्विनाम् । दुःखायते महानन्दमहानन्दाभिलाषिणाम् ! ।।१५।। ततो ब्रूहि प्रभो ! तस्मिन्नपसर्ग उपस्थिते । आराधका भविष्यामो, वयं यद्वा विराधकाः ? ।।१६।। स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति । स्कन्दकस्तन्निशम्येति, व्यमृशद्धृशमुत्सुकः ।।१७।। आराधका इयन्तः स्युर्विहारे यत्र साधवः । नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ।।१८।। क्रमाद्गत्वा कुम्भकारकृते स सपरिच्छदः । उद्याने समवासार्षीत्तमश्रौषीच्च पालकः ।।१९।। ततः प्राग्वैरशुद्ध्यर्थमुद्याने तत्र पालकः । प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ।।२०।। इति दण्डकिराज्ञे चाऽषडक्षीणमुवाच सः । जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ।।२१।। अयं स्वयं महावीर्यश्चण्डदोर्दण्डविक्रमैः । साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः ।।२२।। उद्याने गोपितैः शस्त्रप्रकरैरतिदारुणैः । त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! ।।२३।। (युग्मम्) प्रत्ययश्चेन्न ते स्वामिन्नस्मिन्मद्वचने भवेत् । तदा तद्गोपितास्त्राणि, गत्वोद्यानं विलोकय ! ।।२४।। एवं व्युद्ग्राहितस्तेन तदुद्यानं गतो नृपः । स्थानेषु पालकोक्तेषु, नानास्त्राणि निरक्षत ! ।।२५।। दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् । अकार्यं विद्यते किञ्चिन्नाऽविमृश्य विधायिनाम् ।।२६।। पापस्य पालकस्यैव, तान्निबद्ध्यार्पयन्नृपः । यत्तुभ्यं रोचते तत्त्वमेषां कुर्या इति ब्रुवन् ! ।।२७।। मूषकानिव मार्जारस्तान प्राप्य मुदितोऽथ सः । संयतान् संयतान्मल्पीडायन्त्रान्तिकेऽनयत् ।।२८ ।। इति प्रोचे च रे ! यूयमिष्टं स्मरत दैवतम् । इदानीं पीडयिष्यामि, यन्त्रेणानेन वोऽखिलान् ।।२९।। ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः । जीविताशा मृत्युभीतिविप्रमुक्ता मनस्विनः ।।३०।। गृहीतालोचना सम्यक्, मैत्रीभावमुपागताः । पर्यन्ताराधनां सर्वे, विदधुर्विधिपूर्वकम् ! ।।३१।। (युग्मम्) मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा । द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्विभिः ।।३२।। इत्यादि वदतोत्साह्यमानाः स्कन्दकसूरिणा ।। अभवंस्ते विशेषेण, स्वदेहेऽपि गतस्पृहाः ! ।।३३।। (युग्मम्) क्रूराशयः क्रूरकर्मा, क्रूरगीः पालकस्ततः । एकैकं श्रमणं यन्त्रे, क्षेपं क्षेपमपीडयत् ।।३४ ।। पीड्यमानान् विनेयान् स्वान्, वीक्ष्यान्तर्दह्यतामयम् । इति स स्कन्दकं यन्त्रपार्श्वे बद्धमधारयत् ।।३५ ।। पीड्यमानानगाराङ्गोच्छलच्छोणितबिन्दुभिः । समन्ताम्रियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः ! ।।३६ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400