Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 293
________________ २५२ आतुरप्रत्याख्यानप्रकीर्णकम् इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशिं तस्योपरि ननर्त च ।।६।। सूची क्षिप्ता तत्र राशौ पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो सूच्या विद्धा राशिश्च न क्षतः ।।७।। ततः स ऊचे तुष्टोऽस्मि दुष्करणामुना तव । याचस्व यन्ममायत्तं ददामि तदहं ध्रुवम् ।।८।। सोवाच किं मयाकारि दुष्करं येन रञ्जितः । इदमप्यधिकं नास्मात्किमभ्यासेन दुष्करम् ।।९।। किं चाम्रलुम्बीछेदोऽयं नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चक्रे तत्तु दुष्करम् ।।१०।। अभुक्त द्वादशाब्दानि भोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्सोऽखण्डितव्रतः ।।११।। दुग्धं नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां दुष्यते चेतः स्थूलभद्रमुनिं विना ।।१२।। दिनमेकमपि स्थातुं कोऽलं स्त्रीसन्निधौ तथा । चतुर्मासी यथातिष्ठत्स्थूलभद्रोऽक्षतव्रतः ।।१३।। आहारः षड्रसश्चित्रशालावासोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लौहतनोरपि ।।१४।। विलीयन्ते धातुमयाः पार्श्वे वढेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलभद्रमहामुनिः ।।१५।। स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुद्रैव मुखे वर्णयितुं परम् ।।१६।। रथिकोऽप्यथ पप्रच्छ य एव वर्ण्यते त्वया । को नाम स्थूलभद्रोऽयं महासत्त्वशिरोमणिः ।।१७।। साप्यूचे शकटालस्य नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् ।।१८।। तच्छ्रुत्वा सोऽपि सम्भ्रान्त इत्युवाच कृताञ्चलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ।।१९।। संविग्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्धिर्मोहनिद्रामपास्य सः ।।२०।। प्रतिबुद्धं च तं बुद्ध्वा साख्यन्निजमभिग्रहम् । तच्छ्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् ।।२१।। बोधितोऽहं त्वया भद्रे ! स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् ।।२२।। कल्याणमस्तु ते भद्रे ! पालय स्वमभिग्रहम् । उक्त्वैवं सद्गुरोः पार्श्वे गत्वा दीक्षां स आददे ।।२३।। भगवान्स्थूलभद्रोऽपि तीक्ष्णं व्रतमपालयत् । द्वादशाब्दप्रमाणश्च दुष्काल: समभूत्तदा ।।२४।। [परिशिष्ट पर्व १७० तः १९३ श्लोकाः] ४८. परनिन्दाध्याने श्रीउपदेशमालापुष्पमालायां कूरगडुवृत्तम् । गच्छम्मि सरवरम्मि व कत्थइ पउमव्व पत्तसिरिनिलओ । आसि खमओ गुणड्ढो मासं मासेण सो खमइ ।।१।। अन्नाम्मि व पारणए भिक्खायरियाइ खुड्डगेण समं । वच्चंतो कहवि पमायओ य मंडुक्कियं हणइ ।।२।। तो खुडुएण कहियं महरिसि ! तुब्भेहिं चंपिया एसा । मंडुक्कियाओ तत्थ य वासारत्तोत्ति बहुयाओ ।।३।। गच्छ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400