________________
२५२
आतुरप्रत्याख्यानप्रकीर्णकम्
इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशिं तस्योपरि ननर्त च ।।६।। सूची क्षिप्ता तत्र राशौ पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो सूच्या विद्धा राशिश्च न क्षतः ।।७।। ततः स ऊचे तुष्टोऽस्मि दुष्करणामुना तव । याचस्व यन्ममायत्तं ददामि तदहं ध्रुवम् ।।८।। सोवाच किं मयाकारि दुष्करं येन रञ्जितः । इदमप्यधिकं नास्मात्किमभ्यासेन दुष्करम् ।।९।। किं चाम्रलुम्बीछेदोऽयं नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चक्रे तत्तु दुष्करम् ।।१०।। अभुक्त द्वादशाब्दानि भोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्सोऽखण्डितव्रतः ।।११।। दुग्धं नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां दुष्यते चेतः स्थूलभद्रमुनिं विना ।।१२।। दिनमेकमपि स्थातुं कोऽलं स्त्रीसन्निधौ तथा । चतुर्मासी यथातिष्ठत्स्थूलभद्रोऽक्षतव्रतः ।।१३।।
आहारः षड्रसश्चित्रशालावासोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लौहतनोरपि ।।१४।। विलीयन्ते धातुमयाः पार्श्वे वढेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलभद्रमहामुनिः ।।१५।। स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुद्रैव मुखे वर्णयितुं परम् ।।१६।। रथिकोऽप्यथ पप्रच्छ य एव वर्ण्यते त्वया । को नाम स्थूलभद्रोऽयं महासत्त्वशिरोमणिः ।।१७।। साप्यूचे शकटालस्य नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् ।।१८।। तच्छ्रुत्वा सोऽपि सम्भ्रान्त इत्युवाच कृताञ्चलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ।।१९।। संविग्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्धिर्मोहनिद्रामपास्य सः ।।२०।। प्रतिबुद्धं च तं बुद्ध्वा साख्यन्निजमभिग्रहम् । तच्छ्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् ।।२१।। बोधितोऽहं त्वया भद्रे ! स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् ।।२२।। कल्याणमस्तु ते भद्रे ! पालय स्वमभिग्रहम् । उक्त्वैवं सद्गुरोः पार्श्वे गत्वा दीक्षां स आददे ।।२३।। भगवान्स्थूलभद्रोऽपि तीक्ष्णं व्रतमपालयत् । द्वादशाब्दप्रमाणश्च दुष्काल: समभूत्तदा ।।२४।।
[परिशिष्ट पर्व १७० तः १९३ श्लोकाः] ४८. परनिन्दाध्याने श्रीउपदेशमालापुष्पमालायां कूरगडुवृत्तम् ।
गच्छम्मि सरवरम्मि व कत्थइ पउमव्व पत्तसिरिनिलओ ।
आसि खमओ गुणड्ढो मासं मासेण सो खमइ ।।१।। अन्नाम्मि व पारणए भिक्खायरियाइ खुड्डगेण समं । वच्चंतो कहवि पमायओ य मंडुक्कियं हणइ ।।२।। तो खुडुएण कहियं महरिसि ! तुब्भेहिं चंपिया एसा । मंडुक्कियाओ तत्थ य वासारत्तोत्ति बहुयाओ ।।३।।
गच्छ
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org