Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 300
________________ खण्ड:-२ दृष्टान्तसमुच्चयः __ २५९ पौरुष्यादिपदेनाद्धाप्रत्याख्यानेऽपि निश्चितम् । यामादिकं कालमानमेव यस्मादुदीर्यते ।।८१।। अथ तत्रापि पदं तन्नो वाच्यमिति चेत्तदा । भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि ! ।।८२।। न च साधोर्भवेन्नाद्धाप्रत्याख्यानमिति त्वया । वक्तव्यमपसिद्धान्तदोषापत्तिर्यतो भवेत् ।।८३।। सिद्धान्ते हि जिनैरद्धाप्रख्याख्यानं तपस्विनाम् । कर्तव्यत्वेन कथितं, दशद्याऽनागतादिकम् ।।८४ ।। वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते क्वचित् । मुनेरन्यभवेऽवद्यसेवाश यन्न विद्यते ।।८५।। अन्यच्चापरिमाणत्वं, प्रत्याख्यानस्य यत्पुरा । त्वया प्रोक्तं तदपि नो, युक्तं युक्तिविरोधतः ।।८६।। क्रियमाणेऽपरिणामप्रत्याख्याने हि जायते । अनागताद्धा सर्वापि, प्रत्याख्यानस्य गोचरः ।।८७।। तदा चायुःक्षयाद्देवभवं गतवतो यतेः । सावद्यसेवनेऽवश्यं, व्रतभङ्ग प्रसज्यते ! ।।८८।। अथ यावच्छक्ति यस्मात्, प्रत्याख्यानं विधीयते । तस्मादपरिमाणत्वमिति चेदभिधीयते ।।८९।। तर्हि शक्तिमितं प्रत्याख्यानमङ्गीकृतं स्वयम् । तथा चापरिमाणत्वस्वीकारस्तस्य नोचितः ।।१०।। किञ्चाशंसावशान्नैव, यावज्जीवेति पठ्यते । व्रतभङ्गभयात्किन्तु, यावज्जीवेति पठ्यते ।।९१।। आशंसारहितत्वेन, तत्सावधिकमप्यहो । प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ।।१२।। इत्यादिवन्ध्यवचनं, न यदा स्वीचकार सः । तदा सर्वेऽपि मुनयस्तमेवं प्रोचिरे मुहुः ।।१३।। महात्मनित्थमेवेदं, वन्ध्यवाक्यमुरीकुरु । एवमेवैतदुक्तं श्रीआर्यरक्षितसूरिभिः ।।९४ ।। अन्येऽपि स्थविरा अन्यगच्छीया ये बहुश्रुताः । तेऽपि पृष्टा जगुः प्रत्याख्यानं सावधिकं ध्रुवम् ।।९५ ।। तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् । आग्रहो ह्यङ्गिनां प्रायोऽसाध्यः स्यात्क्षयरोगवत् ।।९६ ।। तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन । तीर्थङ्करैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् ।।९७ ।। ततः साध्वादिकः सर्वसङ्घः प्रष्टुं जिनेश्वरम् । उद्दिश्य शासनसुरी, कायोत्सर्गं विनिर्ममे ।।९८ ।। सुरी साऽप्याऽऽययौ ब्रूत, किं करोमीति वादिनी ? । सङ्घ स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् ।।१९।। किं गोष्ठामाहिलमुनिरुदीरयति सूनृतम् । सङ्घो दुर्बलिकापुष्पमित्रादिः सकलोऽथवा ? ।।१०० ।। ततो देव्यवदद्दत्त, कायोत्सर्गबलं मम । यथाऽनेकसुराकीणे, मार्गे स्यां गन्तुमीश्वरी ।।१।। सङ्घनाऽथ कृते कायोत्सर्गे शासनदेवता । गत्वा विदेहे सङ्घोक्तयुक्त्याऽप्राक्षीज्जगत्प्रभुम् ।।२।। शशंस शम्भुशक्रोऽथ, सङ्घोऽसौ वक्ति सूनृतम् । माहिलस्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः ।।३।। तदाकाऽऽगता देवी, सङ्घमेवमवोचत । कायोत्सर्गं पारयित्वा, भाषितं शृणुताऽर्हतः ।।४।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400