________________
खण्ड:-२ दृष्टान्तसमुच्चयः
__ २५९
पौरुष्यादिपदेनाद्धाप्रत्याख्यानेऽपि निश्चितम् । यामादिकं कालमानमेव यस्मादुदीर्यते ।।८१।। अथ तत्रापि पदं तन्नो वाच्यमिति चेत्तदा । भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि ! ।।८२।। न च साधोर्भवेन्नाद्धाप्रत्याख्यानमिति त्वया । वक्तव्यमपसिद्धान्तदोषापत्तिर्यतो भवेत् ।।८३।। सिद्धान्ते हि जिनैरद्धाप्रख्याख्यानं तपस्विनाम् । कर्तव्यत्वेन कथितं, दशद्याऽनागतादिकम् ।।८४ ।। वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते क्वचित् । मुनेरन्यभवेऽवद्यसेवाश यन्न विद्यते ।।८५।। अन्यच्चापरिमाणत्वं, प्रत्याख्यानस्य यत्पुरा । त्वया प्रोक्तं तदपि नो, युक्तं युक्तिविरोधतः ।।८६।। क्रियमाणेऽपरिणामप्रत्याख्याने हि जायते । अनागताद्धा सर्वापि, प्रत्याख्यानस्य गोचरः ।।८७।। तदा चायुःक्षयाद्देवभवं गतवतो यतेः । सावद्यसेवनेऽवश्यं, व्रतभङ्ग प्रसज्यते ! ।।८८।। अथ यावच्छक्ति यस्मात्, प्रत्याख्यानं विधीयते । तस्मादपरिमाणत्वमिति चेदभिधीयते ।।८९।। तर्हि शक्तिमितं प्रत्याख्यानमङ्गीकृतं स्वयम् । तथा चापरिमाणत्वस्वीकारस्तस्य नोचितः ।।१०।। किञ्चाशंसावशान्नैव, यावज्जीवेति पठ्यते । व्रतभङ्गभयात्किन्तु, यावज्जीवेति पठ्यते ।।९१।। आशंसारहितत्वेन, तत्सावधिकमप्यहो । प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ।।१२।। इत्यादिवन्ध्यवचनं, न यदा स्वीचकार सः । तदा सर्वेऽपि मुनयस्तमेवं प्रोचिरे मुहुः ।।१३।। महात्मनित्थमेवेदं, वन्ध्यवाक्यमुरीकुरु । एवमेवैतदुक्तं श्रीआर्यरक्षितसूरिभिः ।।९४ ।। अन्येऽपि स्थविरा अन्यगच्छीया ये बहुश्रुताः । तेऽपि पृष्टा जगुः प्रत्याख्यानं सावधिकं ध्रुवम् ।।९५ ।। तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् । आग्रहो ह्यङ्गिनां प्रायोऽसाध्यः स्यात्क्षयरोगवत् ।।९६ ।। तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन । तीर्थङ्करैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् ।।९७ ।। ततः साध्वादिकः सर्वसङ्घः प्रष्टुं जिनेश्वरम् । उद्दिश्य शासनसुरी, कायोत्सर्गं विनिर्ममे ।।९८ ।।
सुरी साऽप्याऽऽययौ ब्रूत, किं करोमीति वादिनी ? ।
सङ्घ स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् ।।१९।। किं गोष्ठामाहिलमुनिरुदीरयति सूनृतम् । सङ्घो दुर्बलिकापुष्पमित्रादिः सकलोऽथवा ? ।।१०० ।। ततो देव्यवदद्दत्त, कायोत्सर्गबलं मम । यथाऽनेकसुराकीणे, मार्गे स्यां गन्तुमीश्वरी ।।१।। सङ्घनाऽथ कृते कायोत्सर्गे शासनदेवता । गत्वा विदेहे सङ्घोक्तयुक्त्याऽप्राक्षीज्जगत्प्रभुम् ।।२।। शशंस शम्भुशक्रोऽथ, सङ्घोऽसौ वक्ति सूनृतम् । माहिलस्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः ।।३।। तदाकाऽऽगता देवी, सङ्घमेवमवोचत । कायोत्सर्गं पारयित्वा, भाषितं शृणुताऽर्हतः ।।४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org