________________
२६०
आतुरप्रत्याख्यानप्रकीर्णकम्
सङ्घः सत्यो माहिलस्तु, निह्नवोऽनृतभाषकः । तयेत्युक्तेऽवदद्गोष्ठामाहिलोऽतिकदाग्रही ! ।।५।।
असौ वराकी स्वल्पर्धीस्तत्र गन्तुं क्व शक्नुयात् ? ।
तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! ।।६।। ततस्तं पुष्पमित्राख्यसूरयोऽप्येवमूचिरे । सम्यक् श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे ! ।।७।।
तथापि तत्तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घबाह्यम् ।
व्युद्ग्राहयन् सोऽपि जनाननेकान्, बभ्राम भूमौ गतबोधिरत्नः ! ।।१०८।। ५०. परिग्रहध्याने श्रीउपदेशप्रासादकथितस्य चारुदत्तस्य दृष्टान्तः ।
चम्पायां भानुश्रेष्ठी वसति, तस्य पुत्रश्चारुदत्तः, स यौवनेऽनुरूपकन्यां परिणायितः, क्रमाद्विषयविरक्तः स्त्रियं नेच्छति, पश्चाञ्चारुदत्तश्चातुर्यं शिक्षितुं गणिकागृहे मुक्तः, शनैः शनैस्तदासक्तो जातो गृहमपि तत्याज, द्वादशवर्षान्ते पित्रा स्वायुः प्रान्ते आकार्य पुत्रस्योक्तं-“आजन्म त्वया मत्कथितं न कृतं, अतः परमेत्कुरु, सङ्कटेऽयं नमस्कारः स्मर्त्तव्यः, ततो मातापित्रोः स्वर्गमनानन्तरं तेन सर्वस्वं निर्गमितं, पत्नी तु स्वपितुर्गृहे गता, ततः श्वशुरधनं लात्वा वाद्धौं यानारूढः श्रिये चचाल । यानं भग्नम् । पुण्यात्फलकं प्राप्य निःसृत्य मातुलगृहे ययौ । तस्माद्धनं लात्वा मार्गे गच्छतो धाट्या धनं हृतम् । ततः पृथिवीं भ्रमतस्तस्य कश्चिद्योगी मिलितः । तेनार्द्धार्द्धभागं कृत्वा मञ्चिकारूढो रसकूपिकायां मुक्तः । तेन रसेन कुम्भो भृतः, स कुम्भो मञ्चिकामाकृष्य योगिना गृहितः । ततो मञ्चिका मध्ये क्षिप्ता, तद्रसकुम्भं लात्वा स योगी नष्टः, तत्रैकस्य म्रियमाणस्य नरस्य नमस्कारो दत्तः । तत्र दिनत्रयं क्षुधितो गोधापुच्छयोगेन कष्टात्ततो निर्ययौ । अग्रे गच्छतस्तस्य मातुलपुत्रो रुद्रदत्तो मिलितः, तेन प्रोक्तं-'मेषद्वयं गृह्यते, स्वर्णद्वीपे च गम्यते' । ततो मेषद्वयं गृहीतम् । ततः समुद्रतटे गतौ । रुद्रदत्तः प्राह-“एतद्द्वयं हत्वा भस्त्रिकामध्ये गृहीतक्षुरिकाभ्यामावाभ्यां प्रविश्यते । ततो भारण्डा मांसबुध्ध्योत्पाट्य स्वर्णद्वीपे नयन्ति । तत्रस्थं हेमानेष्यते” । चारुदत्त आह-'जीववधः कथं क्रियते ?' रुद्रदत्तेन शीघ्र स्वउरभ्रो हतः, यावच्च द्वितीयं हन्ति तावञ्चारुदत्तेन नमस्कारं श्रावितो मेषोऽनशनं ग्राहितः । ततो द्वावपि तयोर्भस्त्रिके प्रविष्टौ । भारण्डाभ्यामुत्पाटिते भस्त्रिके । मार्गे चारुदत्तभस्त्रिका पक्षिमुखात्सरसि पपात । ततो निर्गतः स स्थाने स्थाने भ्रमन्नेकं विद्याचरणर्षिं दृष्ट्वा प्रणम्य स्थितः । मुनिः प्राह-'अत्र मानुष्याद्यप्राप्ये स्थले त्वं कुतः समागाः ?' तेन स्वदुःखे प्रोक्ते मुनिना षष्ठं व्रतं वर्णितम् । तेन स्वीकृतम् । इतश्चैको देवोऽभ्येत्य चारुदत्तं नत्वा साधु ववन्दे । तदा वन्दनागताभ्यां विद्याभृद्भ्यां पृष्टं-'भो देव साधुं मुक्त्वा पूर्व गृहस्थः कथं वन्दितस्त्वया ?' ततो देवोऽवक्-“पूर्वं पिष्पलादर्षिर्बहुजनान् यज्ञं कारयित्वा पापशास्त्रं प्ररूप्य श्वभ्रं गतः ।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org