SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् " एवं कर्मापि जीवेन, स्पृष्टं बद्धं पुनर्न तत् । यस्तु तन्मन्यते बद्धं, तस्य न स्याद्भवक्षयः ।। ५६ ।। एतावदेव गुरुभिः प्रोक्तं नः पाठनक्षणे । एष सूरिस्तु तत्तत्त्वं नैव जानाति किञ्चन ।। ५७ ।। जाताशङ्कस्ततो गत्वा, वन्ध्य; सूरीन्द्रसन्निधौ । निवेद्य माहिलवचः, किं तथ्यमिति पृष्टवान् ? ।।५८।। सूरयः प्रोचुरुक्तं हि, प्राग्मया तथ्यमेव ते । माहिलस्य तु गीर्नैव, युक्ता युक्तिविरोधतः ।। ५९ ।। जीवो हि स्वावगाहिभिव्याप्त एवाम्बरे स्थितम् । गृह्णाति कर्मदलिकं, जातु न त्वन्यदेशगम् ।।६० ।। तथा च वह्न्न्यःपिण्डवदैक्यं जीवकर्मणोः । स्यान्न तु स्पृष्टमात्रत्वं, देहकञ्चुकवत्तयोः । । ६१ ।। अथात्मान्यप्रदेशस्थं, कर्मादायानुवेष्टयेत् । यद्यात्मानं तदा तस्य, घटते कञ्चुकोपमा ।।६२।। किन्तु स्यादपसिद्धान्तस्तदा सूत्रविरोधतः । सूत्रे ह्यन्यप्रदेशस्थकर्मादानं निषिध्यते ।। ६३ ।। किञ्च कञ्चुकवत्कर्म, चेद्बहिः स्थितमात्मनि । वेदनापि तदा कर्मनिमित्तान्तः कथं भवेत् ? ।। ६४ ।। अथ संचारिभावात्स्यात्कर्म मध्येपि संस्थितम् । इत्यन्तर्वेदनापि स्यादिति चेत्तेन मन्यते ।।६५।। तर्हि कञ्चककल्पत्वं, कर्मणो व्याहतं स्फुटम् । कञ्चुको हि बहिः स्पृष्ट, एव स्यान्न तु मध्यगः ।।६६।। तदा च युगपन्न स्याद्द्बहिर्मध्ये च वेदना । कर्मणो बहिरन्तर्वा, सम्बन्धाद्वेदना कृतः ।। ६७ ।। संचारित्वाच्च तत्कर्म, न गच्छति भवान्तरे । जीवेन सह देहस्थनिःश्वासादिसमीरवत् ।।६८।। सर्वैर्जीवप्रदेशैस्तन्निबद्धं कर्म मन्यताम् । रागादिबन्धहेतूनां, सद्भावात्सकलात्मनि ।। ६९ ।। न चाविभागसम्बन्धात्पार्थक्यं जीवकर्मणोः । नैव भावीति विज्ञेयं, तद्वाक्याकर्णनात्त्वया ।। ७० ।। यतोऽविभागसम्बन्धवतोरप्यश्महेमयोः । पृथग्भावो जायमानः, प्रत्यक्षेण निरीक्ष्यते ।। ७१ ।। इत्यादिभिः सूरिवाक्यैर्वन्ध्यो निःशङ्कतां गतः । माहिलायाऽवदत्तानि द्रुतं गत्वा तदन्तिके ।। ७२ ।। तथापि स शठश्चित्तान्नात्याक्षीत्तं कदाग्रहम् । क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ।। ७३ ।। अन्यदा नवमं पूर्वं, प्रत्याख्यानाभिधं पठन् । वन्ध्यसाधुर्मुनेः प्रत्याख्यानमेवमवर्णयत् ।।७४।। यावज्जीवं सर्वमेव, प्राणिप्राणातिपातनम् । त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् ।।७५।। इत्याद्याकर्ण्य तं गोष्ठामाहिल: प्रोचिवानिति । परिमाणयुतं प्रत्याख्यानं साधोर्न युज्यते ।।७६।। यावज्जीवमिति प्रोक्ते, कालमानमुरीकृतम् । तथा चाग्रे हनिष्यामीत्याशंसादूषणं भवेत् ।। ७७ ।। तस्मादपरिमाणेन, प्रत्याख्याम्यखिलं वधम् । त्रिविधं त्रिविधेनेति वाच्यं स्वीकुर्वता व्रतम् ।।७८।। एवं वदन्तं तं वन्ध्योऽभ्यधादिति महामतिः । आशंसा किं कालमानाज्जायते वाञ्छ्याऽथवा ? ।।७९।। आद्ये पक्षे मुनेरद्धाप्रत्याख्यानं वितन्वतः । पौरुष्यादिपदोच्चारेऽप्याशंसा स्यादनाहता ! ।। ८० ।। २५८ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy