Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 248
________________ खण्डः - २ दृष्टान्तसमुच्चयः चेटकोऽप्यमितैः सैन्येः कूणिकायाभ्यषेणयत् । राजभिर्बद्धमुकुटैरष्टादशभिरावृतः ।। ३० ।। द्विपात्रीणि सहस्राणि तावन्तश्च तुरंगमाः । तावन्तश्च स्थास्तिस्रः कोटयश्च पदातयः । । ३१ । । अष्टादशानां प्रत्येकं राज्ञां बलमदोऽभवत् । तत्तुल्यसंख्यं नृपतेश्चेटकस्याऽप्यभूद्बलम् ।।३२।। स्वदेशसीम्नि गत्वाऽस्थाच्चेटकः सेनया तया । दुर्भेदं सागरव्यूहं रचयामास चोच्चकैः ।। ३३ ।। चंपाधिपोऽपि तत्रागाच्चम्वा प्रागुक्तसंख्यया । चक्रे च गरुडव्यूहमभेद्यं परसेनया ।। ३४ । । रणतूराणि घोराणि सैन्ययोरुभयोरपि । रोदः कुक्षिभरिध्वानान्यताड्यन्त सहस्रशः ।।३५।। कीर्तिस्तंभैरिवोत्तब्धैः खेटीधवलितैः खरैः । संशप्तकाश्च संचेरुर्द्वयोरपि हि सैन्ययोः ।। ३६।। कूर्णिकस्य बले कालः कुमारो बलनायकः । आदावपि प्रववृते योद्धुं चेटकसेनया ।। ३७ ।। युयुधे सादिना सादी निषादी च निषादिना । रथी च रथिना पत्तिः पत्तिना च बलद्वये ।। ३८ ।। स्तंबेरमैस्तुरंगैश्च कुन्तघातनिपातितैः । अजायत तदा शैलगंडशैलवतीव भूः ।। ३९ ।। स्थैर्भग्नैर्हतैर्वीरैः समरे रुधिराऽऽपगाः । सान्तरीपा इव साऽऽम्भोमानुषा इव चाऽऽबभुः ।।४०।। स्फुरद्भिरसिभिर्वीरकुञ्जराणां रणाजिरे । असिपत्रवनमिव प्रादुर्भूतमदृश्यत ।।४१।। असिच्छिन्नैरुच्छलद्भिर्वीराणां पाणिपंकजैः । कौणपाः पूरयामासुरवतंसकुतूहलम् ।।४२।। स्वान् रुंडानपि युद्धायाऽऽदिशन्त इव हुंकृतैः । पेतुर्भटानां मूर्धानः खड्गधाराभिराहताः ।।४३।। इत्थं च सागरव्यूहं कालः पोत इवांबुधिम् । अवगाह्य ययौ पारमिव चेटकसन्निधिम् ।।४४ ।। कालं कालमिवाकालेऽप्यायान्तं प्रेक्ष्य चेटकः । चिन्तयामास केनापि नैष वज्रमिवाऽस्खलि ।। ४५ ।। अभ्यापतन्तं तदिमं रणसागरमन्दरम् । क्षणादपि निगृह्णामि दैवतेन पतत्रिणा ।। ४६ ।। इति दिव्येषुणा वैरिप्राणसर्वस्वदस्युना । प्रहृत्य चेटकः कालं प्रापयामास पंचताम् ।।४७।। तदा चास्तमुपेयाय भास्वान् कालकुमारवत् । शुचेव चंपेशबलं तमसा जग्रसे जगत् ।।४८ ।। युद्धं विसृज्य चंपेशबलं जाग्रदवास्थित । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः ।।४९।। चेटकस्य पुनः सैन्ये वीरा वीरजयन्तिकाम् । कुर्वन्तो जयवादित्रवादनेनात्यगुर्निशाम् ।। ५० ।। चंपानाथेनाभिषिक्तं सेनानीत्वेऽपरेऽहनि । महाकालं कालमिव मारयामास चेटकः । । ५१ ।। अष्टौ सेनापतीनन्यानपि श्रेणिकनन्दनान् । एकैकमहन्येकैकस्मिन् पूर्ववच्चेटकोऽवधीत् ।।५२।। भ्रातृष्वात्मसमानेषु कालादिषु दशस्वपि । चेटकेन हतेष्वेवं चंपापतिरचिन्तयत् ।। ५३ ।। देवतायाः प्रसादेन जेतैकेनापि पत्त्रिणा । न ह्यायचेटको जय्यो मर्त्यैः कोटिमितैरपि ।। ५४ ।। Jain Education International 2010_02 २०७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400