Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 617
________________ ६०६ भगवतीसूत्रे तीस भत्ताई अणसणयाए छेदेइ, छेदित्ता तस्स ठाणस्स अणालोइयपडिकंते कालमासे कालं किच्चा लंतए, कप्पे तेरस सागरोवमट्टिइएसु देवकिब्बिसिएसु देवेसु देवकिविसियत्ताए उववन्ने ॥ सू० १४ ॥ __ छाया-ततः खलु जमालिः अनगारः अन्यदा कदाचित् तस्मात् रोगातकात विप्रमुक्तो हृष्टतुष्टो जातः, अरोगः, बलिकशरीरः, श्रावस्त्य नगर्याः कोष्ठकात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य पूर्वानुपूर्व्या चरन् ग्रामानुग्राम द्रवन् यत्रैव चम्पानगरी यत्रैव पूर्णभद्रं चैत्यम् , यत्रैव श्रमणो भगवान महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते स्थित्वा श्रमणं भगवन्तं महावीरम् एवम् अबआदीत्-यथा खलु देवानुप्रियाणां बहवोऽन्ते वासिनः श्रमणा निग्रन्थाः छद्मस्था भूत्वा छद्मस्थापक्रणेन अपक्रान्ता, नो खलु अहं तथा छद्मस्थोभूत्वा छद्मस्थापक्रमणेन अपक्रान्तः अहं खलु उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली भूत्वा केवल्यपक्रमणेन अपक्रान्तः । ततः खलु भगवान् गौतमो जमालिम् अनगारम् एवम् अवादीत्-नो खलु जमाले ! केवलिनो ज्ञानं वा, दर्शनं वा, शेले वा, स्तम्भे वा, स्तूपे वा आयते वा, निवार्यते पा यदि खलु त्वं जमाले ! उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली भृत्वा केवल्यपक्रमणेन अपक्रान्त स्तदा खलु इमे द्वे व्याकरणे व्याकुरु-शश्वतो लोको जमाले ! अशाश्वतो लोको जमाले ! शाश्वतो जीवो जमाले ! अशाश्वतो जीवो जमाले ! ततः खलु स जमालिः अनगारो भगरता गौतमेन एवमुक्तः सन् शङ्कितः काङ्. तितो विचिकित्सितः, भेदसमापनः कलुषसमापन्नो जातश्चापि असीत् , नो शक्नोति भगवतो गौतमस्य किश्चिदपि प्रश्नोत्तरमाख्यातुम् , तूष्मीकः संतिष्ठते ! जमाले ! इति श्रमणो भगवान महावीरो जमालिम् अनगारस् एवम् अवादीत्सन्ति खलु जमाले ! मम बहवोऽन्तेवासिनः श्रमणा निम्रन्थाः छद्मस्थाः, ये खलु प्रभवः इदं व्याकरणं व्याकर्तुम् , यथा खलु अहं नो चैव खलु एतत्प्रका. रां भाषां भाषितुम् यथा खलु त्वम् , शाश्वतो लोको जमाले ! यत् न कदापि न आसीत् , न कदापि न भवति, न कदापि न भविष्यति, भूतश्च, भवति च, भविष्यति च, ध्रुवो नित्यः, शाश्वतः अक्षयः: अव्ययः अवस्थितः, नित्यः। अशाश्वतो लोको जमाले ! यतः अवसर्पिणी भूत्वा उत्सर्पिणी भवति, उत्सर्पिणी भूत्वा अवसर्पिणी भवति । शाश्वतो जीवो जमाले ! यत्न कदापि न आसीत् , यावत् नित्यः अशाश्वतो जीवो जमाले ! यः खलु नैरयिको भूत्वा तिर्यग्योनिका भवति, तिर्यग्योनिको भूत्वा मनुष्यो भवति, मनुष्यो भूत्वा देवो भवति । ततः श्री. भगवती सूत्र : ८

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685