________________
६०६
भगवतीसूत्रे तीस भत्ताई अणसणयाए छेदेइ, छेदित्ता तस्स ठाणस्स अणालोइयपडिकंते कालमासे कालं किच्चा लंतए, कप्पे तेरस सागरोवमट्टिइएसु देवकिब्बिसिएसु देवेसु देवकिविसियत्ताए उववन्ने ॥ सू० १४ ॥ __ छाया-ततः खलु जमालिः अनगारः अन्यदा कदाचित् तस्मात् रोगातकात विप्रमुक्तो हृष्टतुष्टो जातः, अरोगः, बलिकशरीरः, श्रावस्त्य नगर्याः कोष्ठकात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य पूर्वानुपूर्व्या चरन् ग्रामानुग्राम द्रवन् यत्रैव चम्पानगरी यत्रैव पूर्णभद्रं चैत्यम् , यत्रैव श्रमणो भगवान महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते स्थित्वा श्रमणं भगवन्तं महावीरम् एवम् अबआदीत्-यथा खलु देवानुप्रियाणां बहवोऽन्ते वासिनः श्रमणा निग्रन्थाः छद्मस्था भूत्वा छद्मस्थापक्रणेन अपक्रान्ता, नो खलु अहं तथा छद्मस्थोभूत्वा छद्मस्थापक्रमणेन अपक्रान्तः अहं खलु उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली भूत्वा केवल्यपक्रमणेन अपक्रान्तः । ततः खलु भगवान् गौतमो जमालिम् अनगारम् एवम् अवादीत्-नो खलु जमाले ! केवलिनो ज्ञानं वा, दर्शनं वा, शेले वा, स्तम्भे वा, स्तूपे वा आयते वा, निवार्यते पा यदि खलु त्वं जमाले ! उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली भृत्वा केवल्यपक्रमणेन अपक्रान्त स्तदा खलु इमे द्वे व्याकरणे व्याकुरु-शश्वतो लोको जमाले ! अशाश्वतो लोको जमाले ! शाश्वतो जीवो जमाले ! अशाश्वतो जीवो जमाले ! ततः खलु स जमालिः अनगारो भगरता गौतमेन एवमुक्तः सन् शङ्कितः काङ्. तितो विचिकित्सितः, भेदसमापनः कलुषसमापन्नो जातश्चापि असीत् , नो शक्नोति भगवतो गौतमस्य किश्चिदपि प्रश्नोत्तरमाख्यातुम् , तूष्मीकः संतिष्ठते ! जमाले ! इति श्रमणो भगवान महावीरो जमालिम् अनगारस् एवम् अवादीत्सन्ति खलु जमाले ! मम बहवोऽन्तेवासिनः श्रमणा निम्रन्थाः छद्मस्थाः, ये खलु प्रभवः इदं व्याकरणं व्याकर्तुम् , यथा खलु अहं नो चैव खलु एतत्प्रका. रां भाषां भाषितुम् यथा खलु त्वम् , शाश्वतो लोको जमाले ! यत् न कदापि न आसीत् , न कदापि न भवति, न कदापि न भविष्यति, भूतश्च, भवति च, भविष्यति च, ध्रुवो नित्यः, शाश्वतः अक्षयः: अव्ययः अवस्थितः, नित्यः। अशाश्वतो लोको जमाले ! यतः अवसर्पिणी भूत्वा उत्सर्पिणी भवति, उत्सर्पिणी भूत्वा अवसर्पिणी भवति । शाश्वतो जीवो जमाले ! यत्न कदापि न आसीत् , यावत् नित्यः अशाश्वतो जीवो जमाले ! यः खलु नैरयिको भूत्वा तिर्यग्योनिका भवति, तिर्यग्योनिको भूत्वा मनुष्यो भवति, मनुष्यो भूत्वा देवो भवति । ततः
श्री. भगवती सूत्र : ८