Book Title: Aagam 45 Anuyogdwaar Haaribhadriyaa Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४५)
प्रत
सूत्रांक
[६५-६७ ]
गाथा
||..||
दीप
अनुक्रम [७४-७७]
श्रीअनु० हारि वृत्ती
॥ २८ ॥
“अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्तिः)
मूलं [६५-६७ ] / गाथा [ ७...]
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [ ४५], चूलिकासूत्र -[२] "अनुयोगद्वार" मूलं एवं हरिभद्रसूरिजी - रचिता वृत्तिः:
विकरणमथवा कर्णस्कन्धवर्द्धनादिक्रियेति, अन्य शाखगान्धर्वनृत्यादिकला सम्पादनमपि द्रव्योपक्रमं व्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वाच्छास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, किंत्वात्मद्रव्य संस्कारविवक्षाऽपेक्षया शरीरवर्णादिकरणवत्स्यादपीति, एवं चतुष्पदानामपि हस्त्यश्वादीनां शिक्षागुणविशेषकरणं, एवमपदानां अप्याघ्रादीनां वृक्षविशेषाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमिति, एतत्फलानां वा गतीप्रक्षेपकाद्रव पळालादिस्थगनादिनेति, आह-य: स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्बार्द्धक्यादि तत्र परिकर्म्मणि द्रव्योपकमता युक्ता, वर्णकरणकलादिसंपादनस्य तु कालान्तरेऽपि विवक्षित हेतु जालमन्तरेणानुपपत्तेः कथं परिकमैणि द्रव्योपक्रम इति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्धं कथं ?, वर्णस्य तावन्नामकम्मैविपाकित्वात्स्वयमीप भावात् फलादीनां क्षायोपशमिकत्वात्तस्य च कालान्तरे स्वयमपि संभवात् विभ्रमविलासादीनां च युवावस्थायां दर्शनात् तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एबोपकम्यत इति । आह-परिकम्मैवस्तुनाशोपक्रमयोरभेद एंव उभयत्र पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापचावपि विशेषेण प्राणिनां प्रत्यभिज्ञानदर्शनात् वस्तुनाशोपक्रम[संपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनाद्विशेषसिद्धिरिति अथवैकत्र नाशस्यैव विवचितत्वाददोष:, ' से किं तं अचित्तदव्योवकमे ' त्यादि (६५-४६ ) निगमनं, निगदसिद्धमेव, नवरं खण्डादीनां गुडादीनामित्यत्रानलसंयोगादिना माधुर्यगुणविशेषकरणं विनाशश्व, भिश्रद्रव्योपक्रमस्तु स्थासकादिविभूषिताश्वादिविषय एवेति विवज्ञातश्च कारकयोजना द्रष्टव्या द्रव्यस्य द्रव्येन द्रव्याद् द्रव्ये वोपक्रमो द्रव्योपक्रम इति । ' से किं तमित्यादि, (६७-४८) क्षेत्रस्योपक्रमः क्षेत्रोपक्रम इति, आह-क्षेत्रममूर्त्त नित्यं च अतस्तस्य कथं करणविनाशाविति १ अत्रोच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारत: खल्वदोषः, तथा चाह-तारथ्यात्तदूव्यपदेशो युक्त एव, मखाः क्रोशन्तीति यथा, तथा चाह सूत्रकार:- जमिण ' भित्यादि, यद्वलकुलिकादिभिः क्षेत्राण्यु
~32~
द्रव्योपक्रमः
॥ २८ ॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133