Book Title: Aagam 45 Anuyogdwaar Haaribhadriyaa Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४५)
प्रत
सूत्रांक
[१४६
१४८]
गाथा
||११६
११८||
दीप
अनुक्रम [२९९
३१०]
श्रीअनु० हारि वृत्ती
॥११७॥
"अनुयोगद्वार"- चूलिकासूत्र - २ (मूलं + वृत्तिः)
मूलं [१४६-१४८] / गाथा [११६-११८]
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हरिभद्रसूरिजी - रचिता वृत्तिः:
वक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाऽऽख्यायेते, यथा 'आगारमावसेतो वा अरण्णा बापि पञ्चया । इमं दरिसणमावण्णा, सब्वदुक्खा विमुचती ॥ १ ॥ त्यादि, शेपसूत्रालापक योजना तु स्वधिया कार्येति, सेयं स्वसमयपरसमयवक्तव्यता ॥
इदानीं नयेर्विचारः क्रियते को नयः ? कां वक्तव्यतामिच्छति ?, तत्र नैगमव्यवहारौ त्रिविधां वक्तव्यतामिच्छतः तद्यथा- स्वसमयवतव्यतामित्यादि, तत्र सामान्यरूपो नैगमः, प्रतिभेदं सामान्यरूपमेवेच्छति स झेवं मन्यते - भिण्णाभिधेया अपि स्वसमयवक्तव्यताऽविशेषात्स्वसमयसामान्यमतिरिक्त (च्य न) वर्त्तते, व्यतिरेके स्वसमयव कव्यताऽविशेषत्वानुपपत्तेः, विशेषरूपः स नैगमो, व्यवहारस्तु प्रतिभेदं भिन्नरूपमेवे - च्छति, पदार्थानां विचित्रत्वादिति, यथाऽस्तिकायवक्तव्यता मूलगुणवश्यतेत्येवमादि, ऋजुसूत्रस्तु द्विविधां वक्तव्यतामिच्छतीत्यादि सयुक्तिक सूत्रसिद्धमेव, जय शब्दनयाः शब्दसमभिरूडएवंभूताः एकां स्वसमयवक्तव्यतामिच्छन्ति, शुद्ध नयत्वात् नास्ति परसमयवक्तव्यतेति च मन्यंते, कस्मादेतदेवं ?, यस्मात्परसमयोऽनर्थ इत्यादि तत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनाद हेतवस्त एत इति, परसनयानर्थत्वा दद्देतुत्वादित्येवमादयः, तत्र कथमनर्थ इति नास्त्येवात्मेत्यनर्थप्ररूपकत्वादस्य, आत्माभावे प्रतिषेधानुपपत्तेः उक्तंथ'जो चिंतेइ सरीरे णत्थि अहं स एष होइ जयोति । गहु जविभि असंते संसयडप्पायओ अण्णो || १ ||" अहेतु :- हेत्वाभासेन प्रवृत्तेः, यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः हेत्वाभासत्वं चास्य ज्ञानादितद्गुणोपलब्धेः उक्तं च "ज्ञानानुभवतो दृष्टस्तद्गुणात्मा कथं च न १ । गुणदर्शनरूपं च घटादिष्वपि दर्शनम् ॥१॥" असद्भावः--असद्भावाभिधानात् असद्भावाभिधानं चात्मप्रतिषेधेनोक्तत्वात् स्यादेतत्सर्वगतत्वादिधर्म्मणोऽसस्वं रूपादिस्कन्धसमुदायात्मकस्य तु सद्भाव एवेति, न, तस्य भ्रान्तिरूपत्वान्, भ्रान्तिमात्रत्वाभ्युपगमच “फेनपिण्डोपसं रूपं, वेदना बुदोपमा । मरीचिसदृशी संज्ञा, संस्काराः कदलीनिभाः || १ || मायोपमं च विज्ञानमुक्तमादित्यबन्धुने" त्यादि, अक्रियक्षणिक
~121~
वक्तव्यतायां नयविचारः
॥११७॥

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133