Page #1
--------------------------------------------------------------------------
________________
अजमेरनिवासी रायबहादुर सेठ सौभाग्यमलजी ढढाकी तरफसे भेट.
PAK
Ros
मान:
श्रीन्यायतीर्थप्रकरणम् ।
कर्ता
न्यायविशारद-न्यायतीर्थमुनिराज
श्रीन्यायविजयमहाराजः।
- मुद्रणं च मुंबई-निर्णयसागरयन्त्रे ।
वीरसंवत् २४३९
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
श्रीविजयधर्मसूरिगुरुभ्यो नमः ।
न्यायविशारद-न्यायतीर्थमुनिराजश्रीन्यायविजय
महाराजविरचितं
७),930040G3000G30630GX0G30620000G3000000000000000209609009
श्रीन्यायतीर्थप्रकरणम् ।
0 09009VODA
मुम्बइपुय्यों
निर्णयसागरमुद्रणालये मुद्रितम् ।
वीरसंवत् २४३९.-सन १९१३.
Page #4
--------------------------------------------------------------------------
________________
Published by "Seth Sobhagmull Duddha Ajmiar."
Printed by R, Y, Shedge at the "N. S, Press" No, 23, Kolbhat Lane, Bombay.
Page #5
--------------------------------------------------------------------------
________________
GFS45504
Rai Bahadur SETH SOBHAG MULL DUDDHA, Banker & Honorary Magistrate, Ajmir.
Page #6
--------------------------------------------------------------------------
Page #7
--------------------------------------------------------------------------
________________
॥ श्रीः॥
ढढावंशोत्पत्तिः।
प्राचीनकालमें भट्टारक श्रीधनेश्वरसूरीजीने श्रीशत्रुजयरास सम्बत ४७३ में कियाथा उन्होंने सोलंखी राजा गोविंदचन्दको सम्बत ४७७ में प्रतिबोध देकर जाति ओसवालयाने श्रीपतिगोत्र स्थापित किया गोविंदचन्दजीसे इग्यारवी पीढी झाजणसीजी हुए जिहोंने सम्बत ६०५ में संघ कढाकर श्रीशचंजययात्रा की । झाजणसीजीसे बीसवी पीढी बिमलसीजी हुए, इन्होंने एक लाख मण तेल संग्रह किया और तिलौरा कहलाए भट्टारक श्रीमहेन्द्रसूरीजी गच्छनायक थे उन्होंने सम्बत १००१ में नाडोल फरड फलोधी नागोर वाडमेर अजमेर जिनमंदिर करवाकर प्रतिष्ठा करवाई । इनके वंसमें सेठ भांडाजी हुए और धातुसंग्रह किया सेठ भांडाजीने जैसलमेर सिद्धपुर पट्टण जालौर भीनमालमें शास्त्रसंग्रह कराके पुस्तकभंडार किया । इनके पुत्र धर्मसीजीने शाह पद हांसिल किया। शत्रुजय गिरनार आबू बनारस आदि प्रसाद कराया सोनाके कलस चढाये चौरासी यात्रा की संघहस्ते पेटीभर मोहरेंकी बांटी मोतियोंकी माल सोनहरी कल्पसूत्र दिए तीन करोड मोहरें खर्चकर भंडार स्थापित किये और बहुतसे कमठाणे बणाये सम्बत १२५६ में देवी प्रसन्न होकर सिद्धपुर पट्टणमें आम्बके वृक्षतले खजाना बतलाया। धर्मसीजीसे नवमी पीढी सम्बत १५०५ में कुमारपालजी हुए उन्होंने सिद्धपुर पट्टण छोड सिंधदेसमें वास किया। सम्बत १५२५ में भट्टारक श्रीमनोहरसूरीजी लंकागच्छनायककी पदरावणी की। कुमारपालजीसे तीसरी पीढी बाढजी हुए । वे डीलमें राते मातेथे सो सम्बत १६१५ में सिन्धदेसकी भाषामें द्रढा कहलाये। उसवक्तसे ढड्डा नख प्रचलित हुवा । बाढाजीके पुत्र आसोजी। आसोजीके पुत्र बछुजी। बछुजीके पुत्र जगुजी। जगुजीके पुत्र
Page #8
--------------------------------------------------------------------------
________________
मूलजी । और मूलजीके पुत्र सच्यादासजी हुए। इनके पुत्र सारंगजीसे सारंगाणी ढड्डा कहलाये सम्बत १६९५ में जैसलमेरसे उठकर फलोधीमें वास किया। सारंगजीके दो पुत्र रुघनाथमलजी और नेतसीजी हुए । सारंगजी गुजराती लंकागच्छके नायक भागचन्दजीके उपदेशसे सम्बत १७१७ में लूंकागच्छके अनुयायी हुए । नेतसीजीके ६ पुत्र खेतसीजी बुधमानजी अभयराजजी हेम जजी खीवरॉजजी बछर्राजजी हुये। (१) खेतसीजीके ४ पुत्र रतनंसीजी तिलोकसीजी बिमलैंसीजी करमसीजी। (२) तिलोकसीजीने हुलकरको मदद दी । और जो द्रव्य उसको लूटमें
मिला उसका चौथा हिस्सा तिलोकसीजीको मिला । तिलोकसीजीके
चार पुत्र पदमसीजी धरमसीजी अमरसीजी टीकमसीजी । (१) पदमसीजीके तीन पुत्र राजसीजी गुमानसीजी ज्ञानसीजी उपनाम
तेजसीजी । (२) ज्ञानसीजीके पुत्र सदासुखजी उपनाम नैणसीजी ।
सदासुखजीके पुत्र उदयमलजी।
उदयमलजीके पुत्र राय बहादुर सोभागमलजी उपनाम चिमनसीजी संबत १९२७ मे खोले आये जिनका चित्र इस किताबमें मोजूद है।
सोभागमलजीके पुत्र कुंवर कल्याणमलजी संबत १९६१ में खोले आया इति ।
ले० कुंवर कल्याणमल्लजी ढवा.
Page #9
--------------------------------------------------------------------------
________________
अर्हम् प्रस्तावना।
इह च प्रसिद्धपि विस्तृते महति महीयसि वा भूयसि जैनतर्कप्रबन्धे न्यायविद्यामुखालोकनमारिप्सूनां बालबुद्धीनां व्युत्पत्तिसिद्धेस्तेभ्योऽसम्भवात्तदनुरूपो लघीयानपि सझेपतोऽल्पेतरजैनन्यायवार्तापरिचयाधानेन रत्नाकरयात्रोत्सवप्रभावकावतारिकासमारोहप्रौढिमाभ्यर्पणात् वरीयानेका प्रबन्धोऽवश्यं युज्यते रचयितुमिति मनसिकृत्य मया विहितायामप्येतत्पूर्व धर्माचार्यरचितप्रमाणपरिभाषासूत्रेषु न्यायालङ्कारनाम्यां टीकायां किञ्चिद् विस्तरतः प्रमेयप्रतिपादनपटिना तत्र बालानां दुष्प्रवेशत्वाभिसन्धेः इदं न्यायतीर्थनाम प्रकरणं पुनः समारचि । अत्र च प्रकरणे सप्त सोपाना नियोजिताः सन्ति । तत्राचे प्रमाणसामान्यस्वरूपविषयफलादि प्रादीदृशम् । द्वितीये प्रत्यक्षपरोक्षलक्षणप्रमाणभेदद्वयं निर्दिश्य प्रत्यक्षप्रमाणं सावान्तरभेदनिरूपणं प्राचीकटम् । तृतीये चागमवर्ज सर्वपरोक्षप्रमाणप्रकारान् स्मरणादीन् सपरीक्षालेशं प्रत्यपीपदम् । चतुर्थे आगमप्रमाणं सप्तभङ्गी चाचीकथम् । पञ्चमे तु प्रमाणतद्विशेषाद्याभासानचिकीर्तम् । षष्ठे च नयस्वरूपं न्यरुरूपम् । सप्तमे पुनर्वादमवीविदम् । ।
एवं च सोपानसप्तकात्मकमेतत्तीर्थमुपासीनेन भाग्यवता___ "सौकर्येण प्रवेशस्य न्यायविद्याऽमृताशये ।
मोहतर्षापहारेणाऽऽसाधते स्वास्थ्यसम्पदा ॥१॥" इत्यत्र कः किमाह ? । एतदेवात्र निवेदनमुचितं जानानः सन्दर्भएव मुद्रणे वा सम्भवन्तीमशुद्धिं परिशोधयितुं चार्थयमानो
विरमति.. - ग्रन्थकारः।
Page #10
--------------------------------------------------------------------------
Page #11
--------------------------------------------------------------------------
________________
महम् ।
श्रीविजयधर्म सूरिंगु नमो.
न्यायविशारद-न्यायतीर्थमुनिराज श्रीन्यायविजयमहाराजविरचितम् ।
श्रीन्यायतीर्थप्रकरणम् ।
प्रणिपत्यार्हतीं वाचं धर्माचार्यपदानि च ।
श्रीन्यायतीर्थो यतते न्यायतीर्थचिकीर्षया ॥ १ ॥
सम्यग्ज्ञानं प्रमाणम् । अत्र सम्यक्त्वं यथार्थत्वम्, अर्थाव्यभिचारित्वमितियावत् । एतेन संशयादयः प्रमाणत्वेन परिहृता भवन्ति । संशयो ह्येकत्र वस्तुनि विरुद्धनानाकोटिपरिस्पर्शी प्रत्ययः, तथाहि दूरतो ऽन्धकारादिदोषवशात् स्थाणुपुरुषसाधारणोर्ध्वतादिधर्मदर्शने तत्तदसाधारणस्कन्धकोटरादिशिरःपाण्यादिधर्मापरिज्ञाने भवति खलु 'स्थाणुर्वा पुरुषो वा' इत्येवं भूयसी संशयव्यवस्था ।
एवमेकस्मिन् वस्तुनि विपरीत एवाऽध्यवसायो विपर्ययोऽन्यथाख्याति-भ्रमाद्यपरपर्यायः । विपरीतत्वं चाध्यवसाये सद्भूतविपरीतविषयावगाहित्वेन विज्ञेयम् । यथा शुक्तिशकले रजतमेतत् इति धीः । किमित्युले खिज्ञानं पुनरनध्यवसायः, तथाहि - पथि प्रयातः पुंसस्तु - णस्पर्शादिगोचरमन्यत्रासक्तचेतस्त्वात् एवंजातीयमेवनामकमिदं वस्तु इत्यादिविशेषानुल्लेखि किमपि स्पृष्टमिति किमित्युल्लेखेन समुद्भवत् ज्ञानमनवधारणात्मकत्वादनध्यवसायः प्रोच्यते । अयमेव च बौद्धैः प्रमाणत्वेनाभिमतं निर्विकल्पज्ञानम्, तस्यापि विशेषोल्लेखराहित्यात् । अयं चानध्यवसायो नाना कोट्य नवगाह
न्याय ० १
Page #12
--------------------------------------------------------------------------
________________
न्यायतीर्थप्रकरणम् । नात् न संशयः, नवा विपरीतैककोटिनिष्टङ्कनरूपत्वाभावात् विपर्यय इति ताभ्यामतिरिक्तएव । एते च संशयादयः परोक्षयोग्यविषया अपि भवन्ति, तथाहि-कुत्रचित् विपिनप्रदेशे शृङ्गमात्रोपदर्शनात् 'किं गौरयं भवेद् गवयो वा' ? इति संशयज्ञानम् । एवं हेत्वाभासादिसमुद्भवज्ञानानि परोक्षप्रमाणयोग्यविषयविपर्ययरूपाण्येव । अनध्यवसायः पुनः परोक्षविषये कस्यचिदपरिचितगोजातीयस्य जनस्य कचन वनप्रदेशे सास्नामात्रावलोकनात् पिण्डमात्रमनुमाय को नु खल्विह प्रदेशे प्राणी स्यादिति । एते च त्रयः संशयादयः समारोपसञ्ज्ञया सज्ञेयाः, अतस्मिन् तदध्यवसायो हि समारोपः प्रोक्तः । अनध्यवसायस्य च तल्लक्षणासङ्गत्या समारोपत्वं यद्यपि नार्हति भवितुम्, तथापि औपचारिकं तद् वेदितव्यम् । तन्निमित्तन्तु यथार्थापरिच्छेदकत्वं विज्ञेयम् । एवं च संशयादिज्ञानपरिहारार्थ सम्यक्पदनिवेशः । ज्ञानपदेनाचेतनस्येन्द्रियसन्निकर्षादेः प्रामाण्यव्यवच्छेदः । नहि सन्निकर्षादिः प्रमाणम् , स्वार्थव्यवसितौ तस्यार्थान्तरस्येव साधकतमत्वाभावात् । नचायमसिद्धो हेतुः, सन्निकर्षादेर्घटादेरिवाचेतनत्वेन स्वनिश्चये करणत्वविरहात् । अतएवार्थनिर्णयकरणत्वमपि कुतः१, नहि नाम स्वनिश्चितावकरणस्य घटादेरिवार्थनिगीतौ साधकतमत्वमर्हति भवितुम्, स्वप्रकाशे प्रगल्भस्यैव हि प्रदीपस्येव परप्रकाशनप्रभुतोपपन्नचरी । अपिच प्रमाणप्रभवा प्रमितिरज्ञाननिवृत्तिरूपा, तदुत्पादे च करणीभवता तावदज्ञानविरोधिनैव भवनीयम्, नचाक्षसन्निकर्षादिकमज्ञानविरोधि, अचेतनत्वात् तसादज्ञानविरोधिनश्चेतनधर्मस्यैवोचितः करणत्वाभ्युपगमः । लोकेपि ध्वान्तसङ्घातविघाताय तद्विरोधिभावं दध्राणं प्रकाशमेवोपासीना भवन्ति चेतखिनः, न पुनर्घटादि, तदविरोधित्वात् । एतेन खप्रकाशत्वं ज्ञानस्य सामर्थ्यात् नियूदं भवति, घटमहं वेमि इत्यादौ कर्तृकर्मवत् ज्ञप्तेरप्यवभासनात् ज्ञानस्य स्वसंवेदनत्वसिद्धेः, ज्ञानं प्रकाशमानमेवार्थ प्रकाशयति प्रकाशकत्वात् प्रदीपवत्
Page #13
--------------------------------------------------------------------------
________________
प्रथमः सोपानः। इत्याद्यनुमानसिद्धेश्च । एवं च स्वपरव्यवसायस्वभावं ज्ञानं प्रमाणमिति निगर्वः । एतदेव हि प्रमाणस्वरूपं यत्स्वपरव्यवसायस्वभावः। खस्य व्यवसायः पुनः स्वाभिमुख्येन प्रकाशनम् बाह्यस्येव तदाभिमुख्येन, घटमहमात्मना वेनि । कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्वानस्तदपि तत्प्रकारं नाभिमन्येत मिहिरालोकवत् इति । उक्ते च प्रमाणखरूपे प्रामाण्यं नानुक्तं भवति, तथाच प्रमेयाव्यभिचारित्वरूपं प्रामाण्यं स्वप्रमेयापेक्षया सर्वज्ञानवृत्ति बोध्यम्, स्वस्मिन् व्यभिचारासम्भवात् । बहिरर्थापेक्षया तु किश्चित् प्रमाणं किञ्चित्तदाभासमिति । प्रामाण्यविपरीतं चाप्रामाण्यम्, इमे उभे अपि उत्पत्तौ परतः, ज्ञानकारणगतगुणदोषापेक्षयोत्पादुके इत्यर्थः । निर्णये तु स्वतः, अभ्यासदशायाम् । अन्यत्र परतः, अनभ्यासदशायां संवादकबाधकज्ञानमपेक्ष्य तनिश्चयात् । एतेन स्वत एवोत्पत्तिं ज्ञप्तिं च प्रामाण्यस्याप्रामाण्यस्य च परत एवाभिमेनाना जैमिनीया निरस्ताः । नहि ज्ञानसामान्यसामग्रीमात्रजन्यत्वलक्षणं स्वतस्त्वमुत्पत्ती सम्भवति प्रामाण्यस्य । संशयादावपि तथात्वेन तत्समवतारात् । अयमर्थः-ज्ञानसामान्यसामग्रीसाम्येपि संशयादिज्ञानमप्रमाणम् , इतरच प्रमाणमिति विभागे किमपि निबन्धनमवश्यमुपासीत, ततो यथा संशयादावप्रामाण्ये दोषादिकमभ्युपगम्यते, तथा प्रामाण्येपि तत्प्रत्यनीकं कारणं गुणरूपमवश्यवक्तव्यम् । इतरथा प्रमाणाप्रमाणविभागासिद्धेः । परतः प्रामाण्यमप्रामाण्यं तु स्वत इत्येवमपि पुनर्विपर्ययेण वादिनं वादिनं को रुन्धीत ? न्याय्यं चैतत्, नहि पटसामान्यसामग्रीमानं रक्तपटे हेतुः, तद्वद् ज्ञानसामान्यसामग्रीमानं प्रमाणज्ञाने कथं हेतुभावेन न्याय्याभ्युपगमम् ? इति । एवं निर्णयोऽपि प्रामाण्यस्य अभ्यासदशायां स्वतएव विज्ञेयः । तथाहि अभ्यस्ते विषये जलमेतदिति ज्ञानोदये ज्ञानस्वरूपनिर्णयसमयएव तद्गतं प्रामाण्यमपि निर्णीतं भवति । ज्ञानस्वरूपनिर्णयश्च खेनैवेति तद्गतप्रामाण्यनिर्णयोपि ततएवेत्यर्थः । अपरथोत्तरक्षणे निःशङ्कप्र
Page #14
--------------------------------------------------------------------------
________________
न्यायतीर्थप्रकरणम् । त्ययोगात् । अनभ्यस्तविषये तु जलज्ञाने जाते जलज्ञानं मम जातमिति ज्ञप्तावपि ज्ञानस्वरूपस्य तत्प्रामाण्यावधारणमन्यत एव भवति, अन्यथोत्तरकाले सन्देहानुपपत्तेः । भवति च सन्देहः जलज्ञानं मम जातं तत्कि जलमाहोस्वित् मरीचिका ? इति । ततः कमलपरिमलशिशिरमन्दवायुप्रचारप्रभृतिभिरवधारयति यत् प्राक्तनं जलज्ञानं प्रमाणम् कमलपरिमलाद्यन्यथानुपपत्तेरिति । परत्र च स्वतएव प्रामाण्यावधारणात् नानवस्थादौस्थ्यावस्था । अनुमाने तु सर्वत्रापि सर्वथापि निरस्तसमस्तव्यभिचारारेके स्वतएव प्रामाण्यनिश्चयः, अव्यभिचारिलिङ्गसमुद्भवात, नहि लिङ्गाकारं ज्ञानं लिङ्गं विना, नच लिङ्गं लिङ्गिनमृते इतिदिक।
अस्यच प्रमाणस्य विषयः सामान्यविशेषायनेकान्तात्मकं वस्तु, अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूपपरिणत्यार्थक्रियासामर्थ्यघटनाच्च । एतेन सामान्यविशेषादिधर्मान् धर्मिणः पृथग्भावेनाभ्युपजगन्वांसो यौगा अपास्ताः । कथञ्चित् वस्तुनः सामान्याद्यात्मकत्वात् । एकान्तभेदे विशेष्यविशेषणभावानुपपत्तेः। करभरासभयोरिव धर्मधर्मिव्यपदेशाभावानुषक्तेश्च । धर्माणामपि च पृथक्पदार्थान्तरत्वकल्पने एकत्रैवार्थे पदार्थानन्त्यप्रसङ्गः, अनन्तधर्मकत्वात् वस्तुनः । अत्यन्ताभेदोपि धर्मधर्मिणोरन्यतरस्यासत्त्वप्रसङ्गेन निराकृतएव । एवं च परस्परसापेक्षसामान्यविशेषाद्यात्माऽर्थः प्रमाणस्य विषयो वेदितव्यः। एवं सर्वमेव वस्तु वद्रव्यक्षेत्रकालभावैः सत् , परद्रव्यक्षेत्रकालभावैश्वासत् वेदितव्यम् । सत्त्वमात्राभ्युपगमे पररूपेणापि सत्त्वानुषङ्गः । असत्त्वमात्रदर्शने च शून्यवादापातः । एवं नित्यानित्यत्वादयोपि सर्ववस्तुस्वभावाः प्रमाणसिद्धा ज्ञेयाः ।
तत्र सामान्यं द्विधा तिर्यगूर्ध्वताभेदात् । तत्र प्रतिव्यक्ति समान: परिणामस्तिर्यक्सामान्यम्, शबलशावलेयादिपिण्डेषु गोत्वं यथा ।
Page #15
--------------------------------------------------------------------------
________________
प्रथमः सोपानः ।
पूर्वापरपरिणाम साधारणं द्रव्यमूर्ध्वता सामान्यम्, कटककङ्कणाद्यनुगामिकाञ्चनवत् । विशेषोपि द्विरूपः गुणः पर्यायश्च । गुणः सहभाधर्म:, यथात्मनि विज्ञानव्यक्तिशक्त्यादिः । पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिरिति ।
सर्वप्रमाणानां फलमज्ञाननिवृत्तिः । पारम्पर्येण तु वक्ष्यमाणलक्षणस्य केवलज्ञानरूपप्रमाणस्योपेक्षा सर्वत्र माध्यस्थ्यं फलम् ।
शेषप्रमाणानां पुनः परम्परं हानोपादानोपेक्षाधीः । तयोश्च प्रमाणफलयोः कथञ्चिद्भेदः कथञ्चिदभेदश्च ज्ञेयः । अन्यथा प्रमाणफलत्वानुपपत्तेः । नच प्रमाणाद् भिन्नेनोपादानबुद्ध्यादिना व्यवहितफलेनानेकान्त इति वाच्यम्, उपादानबुद्ध्यादेरेकप्रमातृतादात्म्येन प्रमाणात् कथञ्चनाभेदस्यापि सिद्धेः । प्रमाणत्वेन परिणेमुषएव आत्मनः फलरूपेण परिणामप्रतीतेः । यः प्रमिमीते सएवोपादत्ते जहात्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभूते, इतरथा इमे प्रमाणफले सौवे एते पुनः परकीये इत्येवं स्वपरयोः प्रमाणफलव्यवस्थाविप्लवापत्तेरिति नोपादानबुद्ध्यादौ व्यवहितेपि फले प्रमाणतोऽभेदस्यापि सिद्धेस्तेन प्रकृतहेतोर्व्यभिचारकलङ्कः ।
नाप्यज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन व्यभि चारः, तस्यापि ततः कथञ्चन भेदोपपत्तेः । साध्यसाधनरूपेण प्रमाणफलयोर्व्यवस्थानात् ।
किञ्च प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद् भेदो द्रष्टव्यः, कर्तुः क्रियायाश्च साध्यसाधकरूपेणोपलम्भात् । कर्त्ता हि साधकः स्वतत्रत्वात् । क्रिया च साध्या कर्त्तृनिर्वर्त्त्यत्वात् । नच क्रिया क्रियावतः सकाशादत्यन्तं भिन्नैवाभिन्नैव वा प्रतिनियतक्रियाक्रियावंद्भावभङ्गप्रसङ्गादिति ।
इति श्रीन्यायतीर्थप्रकरणे प्रमाणसामान्यस्वरूपोपवर्णनात्मकः प्रथमः सोपानः ॥ १ ॥
Page #16
--------------------------------------------------------------------------
________________
अहम् । उक्तलक्षणं प्रमाणं द्विविधम् । प्रत्यक्षपरोक्षभेदात् । तत्र स्पष्टं प्रत्यक्षम् । स्पष्टत्वं पुनरनुमानाद्याधिक्येन विशेषप्रकाशनम् , प्रमाणान्तरानपेक्षत्वं वा । तद् द्विधा पारमार्थिकं सांव्यवहारिकंच। तत्रेन्द्रियादिनरपेक्ष्येणात्ममात्रापेक्षोत्पत्तिकं पारमार्थिकं प्रत्यक्षम् । तदपि द्विभेदम् ,विकलं सकलंचेति । तत्रावधिमनःपर्यायौ विकलम् , असम्पूर्णविषयत्वात् । सकललोकालोकावभासस्वभावं पुनः केवलज्ञानं सकलम् । एतच्चावरणाष्टकप्रक्षयादुदेति । आवरणं पुनः कर्मैव, तस्य च विरोधिना सम्यग्दर्शनादिना प्रध्वंसात् केवलसिद्धिः । सूक्ष्मान्तरितदरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवत् इत्यनुमानात् तत्सिद्धिः। अपिचाकाशादौ परिमाणातिशयेनेव प्रज्ञाया अतिशयेनाप्यवश्यं कचित् भाव्यं विश्रान्तिमता । यत्र च निरतिशयप्रज्ञासिद्धिः, सएव सर्वज्ञः । यत्तु सम्मतिटीकायां केवलज्ञानस्य प्रकृष्टभावनाजन्यत्वोक्तिस्तदभ्युपगमवादेन द्रष्टव्यम् । सच सर्वज्ञोऽर्हन्नेव निर्दोषत्वात् । नचेदमसिद्धम्, प्रमाणाविरोधिवाक्त्वेन तत्सिद्धेः । नचेदमनुपपन्नम्, तदभिमतानेकान्ततत्त्वस्य प्रमाणेनाबाधात् । नचायमीश्वरो जगत्सष्टिव्यवसायी, कृतकृत्यत्वात् । निष्प्रयोजनप्रवृत्तेः प्रेक्षाणामनुपपत्तेः । प्रतिक्षणं विपरिणममानमपि जगद् द्रव्यार्थतोऽन्यायेव । नच कवलभोजिनः कैवल्यानुपपत्तिरिति प्रेर्यम् । कवलाहारस्य कैवल्येनाविरोधात् । औदारिकशरीरवतोऽवश्यं क्षुत्सम्भवात्, निष्ठितार्थस्य च क्लेशपरीषहप्रयोजनाभावात् , निर्मोहत्वेनैव गमनादिक्रियावत् भुक्तिक्रियायाः केवलिनोभावात, अपरथा चतुस्त्रिंशदतिशयानुपपत्तेस्तीर्थपतीनां दुर्वारत्वाच्च । इत्थं च सत्यपि केवलज्ञाने औदारिकशरीरवतो वेदनीयादिसामग्रीसम्भवकवलाहारे न कश्चिद्वाधः । एतच्च केवलज्ञानं पुरुषवत् स्त्रियोपि सामग्रीसमवधाने सम्भवत् नासम्भवं ज्ञेयम् नच सामग्रीसमधानमेवासम्भवम् , पुरुषवत् तस्या अपि सम्भ
Page #17
--------------------------------------------------------------------------
________________
द्वितीयः सोपानः। वात् । नच हीनबलत्वेनामूषां न तत्सम्भवः,हीनबलत्वासिद्धः काश्चनैवंविधा अपि हि स्त्रियः श्रूयन्ते दृश्यन्ते च, याः पुरुषपरिषच्चेतश्चमत्कारचञ्चचातुर्यसत्त्वादिमहागुणाः । एवं च सबलपुरुषवत् सबलस्त्रीणामपि निर्बलस्त्रीवत् च निर्बलपुरुषाणामप्युपलम्भात् कोऽयं नाम न्यायः? पुरुषाएव मुक्तियोग्या न नार्यः इति । अवधिज्ञानं स्वावरणक्षयोपशमसमुत्थं रूपिद्रव्यगोचरं भवति । तच्च द्विधा भवप्रत्ययं गुणप्रत्ययं च । तत्राचं सुरनारकाणाम् चरमं च नरतिरश्चामिति । संयमविशुद्धिनिबन्धनात् निजावरणक्षयोपशमात् समुद्भूतं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् । ऋजुविपुलमतिभेदाच द्वधा । तत्र भेदद्वये विशुद्धप्रतिपाताभ्यां विशेषः । ऋजुमतितो हि विशुद्धतरं विपुलमतिज्ञानम् । ऋजुमतिज्ञानं प्रतिपतत्यपि भूयः, विपुलमतिस्तु न जात्वेवम् । विशुद्धिक्षेत्रस्वामिविषयकृतश्चावधिमन:पर्याययोर्भेदः इति । armndahud.
इन्द्रियानिन्द्रियनिमित्तमवग्रहहावायधारणाभिश्चतुर्विधं सांव्यवहारिकम् । इदं च परमार्थतः परोक्षम्, इन्द्रियादिनिमित्तत्वात् अनुमानवत् । संव्यवहारतस्तु प्रत्यक्षमभिधीयते । तत्र स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि पश्चेन्द्रियाणि । मनोऽन्तःकरणमनिन्द्रियं नोइन्द्रियमित्यनर्थान्तरम् । तच सर्वार्थग्रहणं भवति । पञ्चानां तु क्रमेण स्पर्शरसगन्धवर्णशब्दा अर्थाः। तद्ग्रहणत्वं तेषां लक्षणम् । तत्र चक्षुर्मनसी अप्राप्यकारिणी, शेषाणि प्राप्यकारीणि । तथाहि-चक्षुस्तावद् गत्वा नार्थेनाभिसम्बध्यते, इन्द्रियत्वात् स्पर्शनादिवत् । नाप्यर्थस्य तद्देशागमनं वाच्यम्, प्रत्यक्षविरोधात् । तथाचाप्राप्यकारित्वमेव न्यायसहम् । स्यादेतत् नायना रश्मयो नयनात् निर्गत्यार्थ गृह्णन्ति तथाच को दोषः ?; नैवम् , रश्मीनामसिद्धेः । ननु बिडालादिचक्षुषो रश्मयः प्रत्यक्षतः प्रतीयन्ते इति चेत् न, यदि हि नाम तत्र प्रतीयन्तेऽन्यत्र किमायातम् ?; अन्यथा हेनि पीतत्वप्रतीतौ पटादौ सुवर्णत्वसिद्धिप्रसङ्गः, प्रत्यक्षबाधोभयत्रापि ।
Page #18
--------------------------------------------------------------------------
________________
न्यायतीर्थप्रकरणम् ।
किश्च मार्जारादिचक्षुषोर्भासुररूपदर्शनादन्यत्रापि नेत्रे तैजसत्वप्रसाधनायां गवादिलोचनयोः कालिम्नः नरनारीनेत्रयोर्धवलिनश्वोपलब्धेरविशेषेण पार्थिवत्वमाप्यत्वं वा साध्यताम् । यदिच स्पर्श - नादौ प्राप्यकारित्वदर्शनात् चक्षुषि तत्प्रसाध्येत तर्हि हस्तादीनां प्राप्तानामेवान्याकर्षकत्वोपलम्भात् अयस्कान्तादीनामपि तथा लोहाकर्षकत्वं किन साध्येत ? प्रमाणविरोधोऽन्यत्रापि । कथञ्च प्राप्तार्थप्रकाशत्वे चक्षुषा स्फटिकाद्यन्तरितार्थग्रहणम् अप्राप्यकारित्वेपि कुड्यादिव्यवहितार्थोपलम्भः कथं न ? इति चेत् ? योग्यताविरहादेवेति ब्रूमः । अमुमेव चोपासितुं भवन्तोप्यर्हन्त्येव । अन्यथा रश्मयो लोकान्तं कुतो न गच्छन्ति । इतिप्रश्ने किमुत्तरमन्वेषेरन् । तथाच चक्षुरप्राप्तार्थप्रकाशकम्, अत्यासन्नार्थप्रकाशकत्वात्, यन्नैवं तन्नैवं यथा श्रवणादीति प्रयोगसिद्धेः सिद्धिश्चक्षुषोऽप्राप्यकारितयेति ।
एवं मनोप्यप्राप्यकारि, विषयकृतानुग्रहोपघाताभावात् । विपययात्तु स्पर्शनादीन्द्रियचतुष्टयं प्राप्यकारीति । अत्र स्पर्शने - न्द्रियेणैकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः, स्पर्शनरसनेन्द्रियाः कृमिशङ्खशुक्तिकाजलौकःप्रभृतयत्रसाः, स्पर्शनरसनप्राणैस्त्रीन्द्रियाः पेचिकाकुन्थुशतपदीपिपीलिकाप्रमुखाः, स्पर्शनरसनघ्राणनेत्रैश्चतुरिन्द्रियाः भ्रमरमक्षिकादंशमशकादयः, स्पर्शनरसनम्राणनेत्र श्रोत्रैः पञ्चेन्द्रियाः मत्स्योरगपक्षिचतुष्पदास्तिर्यग्योनिजाः सर्वे च नारकमानुषदेवा इति । एतानि चेन्द्रियाणि द्विविधानि द्रव्यभावभेदात् । तत्र द्रव्येन्द्रियं विशिष्टबाह्याभ्यन्तरसंस्थानविशेषशालिनः पुद्गलाः । तथाहि श्रोत्रादिषु यः कर्णशष्कुल्यादिप्रभृतिर्बाह्यः पुद्गलानां प्रचयः, यश्चाभ्यन्तरः कदम्बगोल काद्याकारः, स सर्वोsप्रधानेन्द्रियत्वात् द्रव्येन्द्रियमुच्यते । अप्राधान्यंच व्यापारवत्यपि तस्मिन् सन्निहितेपि चालोकप्रभृतिसहकारिनिकुरम्बे भावेन्द्रियव्यतिरेकेण स्पर्शाद्युपलब्धेरभावात् । भावेन्द्रियमपि द्वेधा ।
Page #19
--------------------------------------------------------------------------
________________
द्वितीयः सोपानः। लब्धिरुपयोगश्च । तत्र ज्ञानावरणकर्मक्षयोपशमो लब्धिः । सा ह्यात्मनः स्वार्थसंवित्तौ योग्यतामादधती भावेन्द्रियतां प्राप्नोति । नहि तत्रायोग्यस्य तदुत्पत्तिर्गगनवदिति स्वार्थसंविद्योग्यतैव लब्धीन्द्रियम् । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम्, नह्यव्यापृत आत्मा स्पर्शादिप्रकाशकः, सुषुप्तादीनामपि प्रकाशकत्वप्रसक्तेरिति द्विविधमेतत् प्रधानेन्द्रियत्वात् भावेन्द्रियमुच्यते ।
साङ्ख्यास्तु वचनादानविहरणोत्सर्गानन्दग्रहणानि वाक्पाणिपादपायूपस्थलक्षणान्यन्यान्यपीन्द्रियाणि प्राहुः, नैतत् साधु, ज्ञानहेतूनामेवेन्द्रियत्वेनाधिकारात् । चेष्टाविशेषनिमित्तत्वेनेन्द्रियत्वकल्पने चेष्टाविशेषाणामनियतत्वेनेन्द्रियाणां प्रतिनियतसङ्ख्याव्यवस्थानुपपत्तेः। ये तु अर्थालोकावपि चक्षुझेने कारणत्वेनाहुः । नामी सुभाषितारः । ज्ञानसाक्षात्कारणीभवितुं तयोरनर्हत्वात् । मरुमरीचिकादौ जलाभावेपि जलज्ञानस्य वृषदंशादीनामालोकविरहेपि च सूचिभेद्यतमश्चयप्रदेशस्थवस्तुबोधस्य दर्शनात् । नातो ज्ञानस्यार्थालोकापेक्षानियमः। अनियतं च साधकतमं कुतः । नच प्रकाशनीयादादात्मलाभ एव ज्ञानस्य प्रकाशकत्वं न्याय्यम् । प्रकाशनीयादर्थादात्मानमलेभानस्यापि प्रदीपस्य प्रकाशकत्वसिद्धेः । जनकस्यैव च ग्राह्यत्वाङ्गीकारे कुतः स्मृतिः प्रमाणं स्यात् ? तस्या अर्थजन्यत्वाभावात् । जनकानि चेन्द्रियाणि कथं ग्राह्याणि न स्युः? कुतश्च खसंवेदनस्य ग्राहकत्वमुपपादकं स्यात् ? तस्य हि स्वरूपमेव ग्राह्यम्, नच तेन तदुत्पादः, स्वात्मनि क्रियाविरोधात् । तस्मात् स्वसामग्रीप्रभवयोः घटप्रदीपयोरिवार्थज्ञानयोः प्रकाश्यप्रकाशकभावोपपत्तेः न ज्ञानकारणमर्थः । अर्थाजन्यत्वेपि च ज्ञानस्य प्रतिनियतकर्मव्यवस्थाऽऽवरणक्षयोपशमलक्षणया योग्यतयैव सूपपादा । तदुत्पत्तावपि च योग्यतावश्यमेष्टव्या, अन्यथाऽशेषार्थसानिध्येपि कुतश्चनैवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतो विभागः ? । तदाकारता तु तावदाकारसङ्क्रान्त्यानुपपन्ना, अर्थस्य निराकारत्वप्र
न्याय०२
Page #20
--------------------------------------------------------------------------
________________
१०
न्यायतीर्थप्रकरणम् ।
सङ्गात्, ज्ञानस्य साकारत्वापत्तेश्च । अर्थेन च र्मूर्तेनामूर्त्तस्य ज्ञानस्य कीeat साशीत्यर्थविशेषग्रहणपरिणाम एव सोपेयेति । अथ सांव्यवहारिकप्रत्यक्षप्रकार भूतावग्रहादिचतुष्के अवग्रहस्तावत् इन्द्रियार्थयोगे सत्तामात्रालोचनानन्तरमवान्तरजातिविशिष्टार्थग्रहणं द्रष्टव्यः । अवगृहीतार्थविशेषाकाङ्क्षणमीहा । ईहितविशेषनिर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणा । संशयपूर्वकत्वात् ईहायाः संशयाद्भेदः । दर्शनादीनां कथञ्चनाभेदेपि परिणामविशेषात् व्यपदेशभेदः । क्रमेणाप्युत्पादुकानाममीषां कचित् क्रमानुपलक्षणमाशुत्पादात उत्पलपत्रशतव्यतिभेदक्रमवदिति ॥
इति श्रीन्यायतीर्थप्रकरणे प्रत्यक्षस्वरूपनिरूपणात्मको द्वितीयः सोपानः ॥ २॥
Page #21
--------------------------------------------------------------------------
________________
अहम् । उक्तं प्रत्यक्षम् । अथ परोक्षं वक्ष्यामः । अस्पष्टं परोक्षम् । उक्तलक्षणस्पष्टत्वविरहितं सम्यग्ज्ञानं परोक्षमित्यर्थः । तस्य पश्च प्रकाराः । स्मरणम्, प्रत्यभिज्ञानम्, तर्कः, अनुमानम्, आगमश्चेति । तत्र वासनोद्बोधोद्भवमनुभूतार्थविषयं तदित्याकारं स्मरणम् । यथा तत्तीर्थकरबिम्बमिति । नचेदमप्रमाणम्, अप्रामाण्यप्रसाधकन्यायाभावात् । प्रमाणान्तरसाधारणाविसंवादित्वस्यात्रापि चकासनात् । विसंवादित्वेनाप्रामाण्ये तथाभूतस्याध्यक्षादेरपि तत्प्रसङ्गः। अभूद् वृष्टिः, उदेष्यति शकटम् इत्याद्यतीतानागतविषयानुमानदर्शनात् अनर्थजत्वमप्यप्रामाण्यहेतुतयोपन्यासाना भ्रान्ता एव । अप्रामाण्यं च स्मृतेरभिमेनानानां सकलानुमानोच्छेदलक्षणोऽभिशापो दुर्निवारः, तया व्यारविषयीकारे तदुत्थानासम्भवात् “लिङ्गग्रहणसम्बन्धस्मरणपूर्वकमनुमानम्" इति हि सर्वपार्षदम् । अनुभूतार्थविषयत्वमात्रेणामुष्य प्रामाण्यानभ्युपगमे तु अनुमानाधिगतकृशानुगोचरप्रत्यक्षमपि कुतः प्रमाणं स्यात, असत्यतीतेऽर्थे प्रवर्त्तमानत्वात्तदप्रामाण्ये प्रत्यक्षस्थापि तत्प्रसङ्गः। तदर्थस्यापि तत्कालेऽसत्त्वात् । निराकृष्महि चार्थजन्मादि ज्ञानस्य प्रागेवेति । अनुभवसरणसम्भूतं तिर्यगूर्ध्वत्वसामान्यादिविषयं संकलनात्मकं सम्यग्ज्ञानं प्रत्यभिज्ञानम् । यथा स एवायं घटा, गोसदृशो गवयः, गोविलक्षणो महिषः, इदमसादल्पं महत्दूरमासन्नं वेत्यादि । सादृश्यविषयमुपमानं प्रमाणमातस्थाना वैलक्षण्यादिविषयं प्रमाणान्तरं कथं न कक्षीकुर्युः । एवं च विलीयेत प्रमाणनियमव्यवस्था। ननु तदिति स्मरणम्, इदमिति प्रत्यक्षम्, इति द्वे एव ज्ञाने, न ताभ्यामन्यत् प्रत्यभिज्ञानाख्यं प्रमाणमस्तीति तन, उक्तज्ञानयुगलेन प्रत्यभिज्ञानविषयस्याशक्यग्रहणत्वात् । पूर्वोपराकारैकधुरीणं हि द्रव्यं प्रत्यभिज्ञानविषयः। न खलु सरणमेवातीत
Page #22
--------------------------------------------------------------------------
________________
__ न्यायतीर्थप्रकरणम् । वर्तमानविवर्त्तवर्ति द्रव्यमलं सङ्कलयितुम्, तस्यातीतविवर्त्तमात्रगोचरत्वात् । नापि दर्शनम्, तस्य वर्तमानमात्रपर्यायविषयत्वात् । तस्मात् अतीतवर्तमानकालसङ्कलितैक्यसादृश्यादिविषयावलम्बनत्वेनानुभौतिकं संवेदनं प्रत्यभिज्ञानपदार्थोवश्यमेषितव्यम् । विषयभेदे प्रमाणभेदनियमात् । यत्तु प्रत्यक्षमेवेदमित्याहुः, तन्न, प्रत्यक्षस्य सन्निहितवार्त्तमानिकार्थविषयत्वात् । स्मरणसहकृतमिन्द्रियं तदेकत्वविषयं प्रत्यक्षमुपजनयतीत्यप्यसाधु, प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् , इतरथा पर्वते चित्रभानुप्रत्ययस्यापि व्याप्तिस्मरणादिसापेक्षमनसैवोपपन्नत्वेऽनुमानमात्रोच्छेदापत्तेः । अपिच सम्भवत्यपि सहकारिसहस्रसमवधाने न सम्भवत्यविषये प्रवृत्तिः, अविषयश्चेन्द्रियाणां पूर्वोत्तरावस्थाव्याप्येकत्वादि, नातः स्मरणसाहाय्येपि तादृशं ज्ञानमुत्पादयितुं शक्युरिन्द्रियाणि । अञ्जनादिसाहायकेपि चक्षुर्व्यवहितमपि रूपमेव गृह्णाति नतु स्वाविषयं गन्धादीति विषयविशेषद्वारेण प्रमाणविशेषव्यवस्थापनात् उक्तलक्षणैकत्वादिविषयग्रहोपयिकं प्रमाणान्तरमवश्यमेषितव्यम् तदेव च प्रत्यभिज्ञानमिति ।
व्याप्तिज्ञानं तर्कः । तत्र साध्यसाधनयोर्गम्यगमकभावप्रयोजको व्यभिचारगन्धमसासहिः सम्बन्धविशेषोऽविनाभावो व्याप्तिरिष्यते । एतत्प्रभावमहिम्ना च धूमध्वजं गमयितुमधीष्टे धूमः । तस्याश्चान्यथानुपपत्तिरूपाया व्याप्तेः प्रमितौ साधकतमं ज्ञानं तर्कः इति ऊह इति चोच्यते। अयं च तर्कः सकलदेशकालोपसंहारेण व्याप्तिं विषयीकरोति, यथा यावान् कश्चित् धूमः स सर्वः सत्येवाग्नौ भवति, तसिन्नसत्यसौ न भवत्येवेति । प्रत्यक्षय सन्निहित एव देशे सम्बन्धप्रकाशनात् न व्याप्तिगमकत्वम्, सर्वोपसंहारवती हि व्याप्तिः। प्रत्यक्षपृष्टभाविविकल्पेनाप्यशक्य एव व्याप्तिग्रहः, निर्विकल्पेन व्याप्तेहीतुमशक्यत्वात् । निर्विकल्पगृहीतार्थविषयो हि विकल्पः । निर्विकल्पविषयानपेक्षोऽर्थान्तरगोचरो विकल्प इति चेत् ? तीसौ प्रमाणम् ? ओमिति चेत् ? प्रत्यक्षानुमानातिरिक्तप्रमाणाभ्युपगमप्रसङ्गः। अप
Page #23
--------------------------------------------------------------------------
________________
तृतीयः सोपानः। माणात्तु ततो व्याप्तिग्रहश्रद्धा षण्डात्तनयदोहद एवेति । तथा तर्कः प्रमाणं प्रमाणविषयपरिशोधकत्वात्, अनुमानादिवत् । यस्तु नैवं नासावेवम् ? यथा मिथ्याज्ञानं प्रमेयोवार्थः । तथा तर्कः प्रमाणं प्रमाणानुग्राहकत्वात् यथा प्रवचनानुग्राहि प्रत्यक्षादीति सिद्धस्तर्कः प्रमाणमिति । वाच्यवाचकभावावगमेपि तकस्यैव प्रभुता तस्यैव सकलशब्दार्थगोचरत्वात् इति । Ahme - साधनात् साध्यविज्ञानमनुमानम् । तद् द्वेधा स्वार्थ परार्थ च । तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् । यथागृहीतधूमस्य स्मृतप्रतिबन्धस्य 'पर्वतो वह्निमान्' इति ज्ञानम् । अत्र हेतुग्रहणसम्बन्धस्मरणयोः समुदितयोरेव कारणत्वं ज्ञेयम्, अपरथा विस्मृताप्रतिपन्नप्रतिबन्धस्यागृहीतसाधनस्य च कस्यचिदनुमानोदयापत्तेः । निश्चितान्यथानुपपत्त्येकलक्षणं साधनम्, नतु त्रिलक्षणकं पञ्चलक्षणकं वा । तथाहि-बौद्धास्तावत् त्रिलक्षणं साधनमाहुः पक्षधर्मत्वम् , सपक्षे सत्त्वम् , विपक्षात् व्यावृत्तिरिति, पक्षधमत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्ष एव सत्त्वाभावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसत्त्वनियमाभावे चानैकान्तिकत्वव्यासेधस्यासम्भवेनानुमितिव्यवस्थानुपपत्तेरिति । तदेतदसारम् । पक्षधर्मत्वाभावपि 'शकटमुदेष्यति कृत्तिकोदयात् 'उपरि सविता भूमेरालोकवत्त्वात्' 'अस्ति नभश्चन्द्रः' पाथश्चन्द्रादित्याद्यनुमानोपलब्धेः। पक्षधर्मत्वाभावे प्रासाद एष धवलः काकस्य कालिम्न इत्यादेरपि गमकत्वप्रसङ्ग इति न वक्तव्यम्, अविनाभावस्यैव गमकत्वेनाभिप्रेतत्वात् । न चात्राविनाभाव उद्भासते, नहि धवलिम्येव प्रासादस्य श्यामिका काकीयोपपत्तिमतीत्यस्ति नियमः । नचाविनाभावी कश्चन विरुद्धो वा व्यभिचारी वाऽसिद्धो वा कापि कदापि दृष्टचरः, तथाचाहेतुव्यावृत्तं सकलहेत्वनुगतं निर्णीताविनाभावमेवैकं लक्षणं साधनस्य युक्तमुत्पश्यामः । एवमुक्तरूपत्रयी, अबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पाश्चरूप्यमपि नैयायिकाभिमतमपहस्तितं
Page #24
--------------------------------------------------------------------------
________________
१४
न्यायतीर्थप्रकरणम् । भवति । स श्यामः तत्पुत्रत्वादित्यादावपि तदर्शनात् तथाहितत्पदार्थगर्भस्थमैत्रपुत्रे हेतुसद्भावः, सपक्षेष्वपि श्यामत्वेन संप्रतिपनेषु दृश्यमानेषु पञ्चसु मैत्रपुत्रेषु मैत्रपुत्रत्वसद्भावः, अश्यामेभ्यस्तदन्येभ्यो मैत्रपुत्रत्वव्यावर्त्तनात् विपक्षाद् व्यावृत्तिरप्यस्ति, विषयबाधाविरहात् अबाधितविषयत्वमप्यस्ति, प्रतिकूलसमबलप्रमाणाभावात् असत्प्रतिपक्षत्वमप्यस्ति, न पुनरयं हेतुभावेन कस्याप्यभ्युपगमविषयः । अथ नात्र विपक्षाद् व्यावृत्तिनिश्चिताऽस्ति, नहि श्यामत्वासत्वे तत्पुत्रत्वेनावश्यनिवर्त्तनीयमित्यत्रास्ति प्रमाणमिति चेत् ? हन्त ? ताम्मेवान्यथानुपपत्तिमुपासीनोऽभूः । अनौपाधिकसम्बन्धस्य व्याप्तित्वमूचिवांसो यौगा अपि प्रकृते शाकाद्याहारपरिणामरूपोपाध्युद्भावनेन तत्पुत्रत्वे विपक्षासत्त्वसम्भवाभावमावेदयन्तः परमार्थतो निश्चितान्यथानुपपत्तिमेव प्रत्यपत्सत । उपाधिश्च साध्येन समव्याप्तिकः साधनाव्यापक उच्यते । न चात्रानौपाधिकसम्बन्धे सति किश्चिदवशिष्यते यदपोहाय शेषलक्षणोत्कीर्तनं कीर्तये स्यात् । एवं सपक्षसत्त्वमप्यनौपयिकमेव, सत्त्वादेरपि गमकत्वापत्तेः । केवलान्वयि-केवलव्यतिरेकि-अन्वयव्यतिरेकि चेति त्रिधा साधनं लेपिवांसः कणभक्षान्तिषदः अन्वयव्यतिरेकिण्येव पाश्चरूप्यमुपयन्ति न पुनः शेषयोः, केवलान्वयिनि विपक्षासत्त्वासत्त्वात्, केवलव्यतिरेकिणि च सपक्षसत्त्वासम्भवात् चातूरूप्यमेव । कुतश्चातः सर्वहेत्वनुषक्तं लक्षणं निर्दिष्टं स्यात् । अबाधितविषयत्वमपि अविनाभावित्वव्यापकमेव, अविनाभाविस्थले बाधितविषयत्वानवकाशात् । एवमसत्प्रतिपक्षत्वकल्पनमप्यनुचितमेव । उक्तेनैव सिद्धेः। उक्तं हि
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥१॥ अन्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः । नान्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः ॥२॥ इति ॥
Page #25
--------------------------------------------------------------------------
________________
१५
तृतीयः सोपानः। तदेतत् साधनं द्विविधम् । उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् । तत्रोपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनम् अनुपलब्धिश्च । तत्र विधिः सदंशः, निषेधोऽसदंशः । स च चतुर्धा प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावश्चेति । तत्र यनिवृत्तावेव कार्यसमुत्पादः सोऽस्य प्रागभावः, यथा मृत्पिण्डनिवृत्तावेव समुद्भवतो घटस्य मृत्पिण्डः । यदुत्पादे कार्यस्य नियमेन विपादः सोऽस्य प्रध्वंसाभावः, यथा कपालकदम्बकोत्पादे नियमतो विपाददशामायातः कुम्भस्य कपालकदम्बकम् । स्वरूपान्तरात् स्वरूपव्यवच्छेदोऽन्योन्याभावः, यथा पटवभावात् घटस्वभावव्यावृत्तिः। कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः, यथा चेतनाचेतनयोरिति । अथोपलब्धिर्द्विविधा अविरुद्धोपलब्धिविरुद्धोपलब्धिश्च । तत्राविरुद्धोपलब्धिर्विधिसिद्धौ पोढा । साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वोत्तरसहचराणामुपलब्धिः । ननु प्रसिद्धेपि कार्यकारणभावे कार्यमेव कारणस्य गमकम्, तस्यैव तेनाविनाभावात् न पुनः कारणं कार्यस्य,तदभावात् इति चेन, कार्याविनाभावित्वेन निर्णीतस्यानुमानकालप्राप्तस्य छत्रादेविशिष्कारणस्य छायादिकार्यानुमापकत्वेन सुप्रसिद्धेः । न च पूर्वोत्तरकालवर्तिनोस्तादात्म्यम्, तदुत्पत्तिा । कालव्यवधाने तदनुपलम्भात्। प्रयोगश्च यद्यकाले अनन्तरं वा नास्ति, न तस्य तेन तादात्म्यं तदुत्पत्तिवा । यथा भाविशङ्खचक्रवर्तिकालेऽसतो रावणादेः । नास्ति च शकटोदयादिकालेऽनन्तरं वा कृत्तिकोदयादीति । तादात्म्यं च समसमयस्यैव कृतकत्वानित्यत्वादेः प्रतिपन्नम् । अग्निधूमादेश्वान्योन्यमव्यवहितस्यैव तदुत्पत्तिः, न पुनर्व्यवहितकालस्य, अतिप्रसक्तेः। एवं सहचारिणोरपि, परस्परस्वरूपपरिहारेणावस्थानात् सहोत्पादाचेति । तत्र व्याप्यो हेतुः शब्दः परिणामी कृतकत्वात् । वृक्षोऽयं शिंशपात्वात् । स्वभावाहेतुरप्ययमेव वेदितव्यः । पर्वतो वह्निमान् धूमात् इति कार्यहेतुः । कारणं यथा-भाविनी वृष्टिः विशिष्टमेघस्य
Page #26
--------------------------------------------------------------------------
________________
१६ न्यायतीर्थप्रकरणम् । तथैवोपपत्तेः । पूर्वचरं यथा-शकटमुदेष्यति कृत्तिकोदयात् । उत्तरचरं यथा-प्रागुदगाद् भरणिः कृत्तिकोदयात् । सहचरं यथामातुलिङ्गं रूपवत् रसात् इति । प्रतिषेध्येन यद् विरुद्धं तत्सम्बन्धिनां व्याप्यादीनामुपलब्धिः प्रतिषेधे साध्ये पोढा । नास्त्यत्र शीतस्पर्श औष्ण्यात् इति प्रतिषेध्यविरुद्धानलस्वरूपमौष्ण्यं प्रतिषेध्यविरुद्धव्याप्यहेतुः । नास्त्यत्र शीतस्पर्शः धूमात् , नास्मिन् शरीरिणि सुखं हृदयशल्यात् इति क्रमेण प्रतिषेध्यविरुद्धस्याग्नेः दुःखस्य च कार्य कारणं च हेतुः । विरुद्धपूर्वचरं यथा-नोदेष्यति मुहूर्तान्ते शकटम् , रेवत्युदयात् , शकटोदयविरुद्धो ह्यश्विन्युदयस्तत्पूर्वचरो रेवत्युदयः । विरुद्धोत्तरचरं यथा-नोदगाद् भरणिर्मुहूर्तात् पूर्वम्, पुष्पोदयात, भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्योदयः । विरुद्धसहचरं यथा-नास्त्यत्र भित्तौ परभागाभावः, अर्वाग्भागात, परभागाभावेन हि विरुद्धस्तत्सहभावः, तत्सहचरोवाग्भाग इति । नास्त्येव सर्वथैकान्तः अनेकान्तस्योपलब्धेरितिखभावविरुद्धोपलब्धितः पुनः सप्तधापि विरुद्धोपलब्धिर्वेदितव्या । अनुपलब्धिरपि द्विधा, अविरुद्धानुपलब्धिः, विरुद्धानुपलब्धिश्च। तत्र प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वोत्तरसहचराणामनुपलब्धिः प्रतिषेधे साध्ये सप्तधा । तत्र स्वभावानुपलब्धिर्यथानास्त्यत्र भूतले घटः, उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्थानुपलब्धेः। व्यापकानुपलब्धियथा-नास्त्यत्र रसालः, वृक्षानुपलब्धेः । कायोंनुपलब्धिर्यथा-नास्त्यत्राप्रतिहतसामॉग्निः, धूमानुपलब्धेः । नास्त्यत्र धूमोऽनग्गेरिति कारणानुपलब्धिः । न भावि मुहूर्तान्ते शकटम् कृत्तिकोदयानुपलब्धेरिति पूर्वचरानुपलब्धिः । नोदगमद् भरणिर्मुहूर्ताप्राक, तत एवेत्युत्तरचरानुपलब्धिः । नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेरिति सहचरानुपलब्धिरिति ।
विधेयेन विरुद्धानां कार्यकारणस्वभावव्यापकसहचराणामनुपलब्धिः विधिप्रतिपत्तौ पञ्चधा । तत्र विरुद्धकार्यानुपलम्भो यथा
Page #27
--------------------------------------------------------------------------
________________
तृतीयः सोपानः। अस्त्यत्र देहिनि व्याधिविशेषः, निरामयचेष्टानुपलब्धेः । अत्रामयो व्याधिः, तेन विरुद्धस्तदभावः, तत्कार्या विशिष्टचेष्टा, तस्या अनुपलम्भः । विरुद्धकारणानुपलम्भो यथा अस्त्यस्य प्राणिनो दुःखमिष्टसंयोगाभावात् । अत्र दुःखविरोधिसुखकारणाभावो हेतुः । विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलब्धेः । अस्त्यत्र छाया औष्ण्याप्रतीतेरिति, अत्र विधेयच्छायाविरोधितापव्यापकौष्ण्यानुपलम्भः । अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादर्शनात्, अत्र विधेयमिथ्याज्ञानविरोधिसम्यग्ज्ञानसहचरसम्यग्दर्शनानुपलम्भो हेतुरिति । __ अबाधिताभिमतानधिगतं साध्यम् । अबाधितत्वेन वहिरनुष्ण इत्यादिप्रत्यक्षादिबाधरहितत्वम्, अभिमतत्वेन स्खसिद्धान्तविरुद्धत्वरहितत्वम् , अनधिगतत्वेनानिश्चितत्वं च लभ्यते । कथायां सन्दिग्धस्यैव साध्यस्य साधनं युक्तमिति न सम्यक्, विपर्यस्ताव्युत्पन्नयोरपि परपक्षदिदृक्षादिना कथायामुपसर्पणसम्भवेन संशयनिरासार्थमिव विपर्ययानध्यवसायव्युदासार्थमपि प्रयोगसम्भवात् । पित्रादिना विपर्यस्ताव्युत्पन्नपुत्रादेः शिक्षाप्रदानाच्च । न चेदेवं जिगीषुकथायामनुमानप्रयोग एव न स्यात् , तस्य साभिमानत्वेन विपर्यस्तत्वात् । अबाधितमिति विशेषणं वादिप्रतिवाद्युभयापेक्षया, द्वयोः प्रमाणेनाबाधितस्य कथायां साध्यत्वात् । अभिमतं तु वाद्यपेक्षयैव, वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेच्छासम्भवात् । अत्र व्याप्तिग्रहणापेक्षया साध्यं धर्म एव, इतरथा व्याप्त्यनुपपत्तेः । नहि यत्र यत्र धूमस्तत्र तत्राग्नेरिवाऽग्निमतो भूधरादेरनुवृत्तिरस्ति । आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी । इत्थं च स्वार्थानुमानस्य त्रीण्यङ्गानि साध्यं साधनं धर्मी च । तत्र साध्यं गम्यत्वेन, साधनं गमकत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन, आधारविशेषनिष्ठतया साध्यसिद्धेरनुमानप्रयोजनत्वात् । धर्ममात्रस्य तु व्याप्तिनिश्चयकाल एव सिद्धेः, यत्र यत्र धूमस्तत्र तत्रानल इति । अथवा पक्षो हेतुरित्यङ्गद्वयं तत्र, साध्यध
न्याय०३
Page #28
--------------------------------------------------------------------------
________________
न्यायतीर्थप्रकरणम् । मविशिष्टधर्मिणः पक्षत्वात् इति धर्मधर्मिभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यम् । धर्मिणः प्रसिद्धिश्च प्रमाणात् विकल्पात् उभयतो वा । तत्र पर्वतो वह्निमानित्यत्र प्रमाणप्रसिद्धो धर्मी पर्वतः। अस्ति सर्वज्ञः, नास्ति शशविषाणमित्यादिषु सर्वज्ञादि विकल्पप्रसिद्धो धर्मी । शब्दः परिणामीत्यत्र शब्द उभयप्रसिद्धो धर्मी, स हि वत्तेमानः प्रत्यक्षगम्यः, भूतो भावी च विकल्पगम्यः । स सर्वोपि धर्मीति प्रमाणविकल्पप्रसिद्धत्वम् । तत्र च प्रमाणोभयप्रसिद्धयोः धर्मिणोः साध्ये कामचारः। विकल्पप्रसिद्धे तु धर्मिणि सत्तेतरे साध्ये इति । हेतुप्रयोगात् परोक्षार्थसम्यनिर्णयः परार्थमनुमानम् । हेतुस्तूपचारात् । उपचारश्चात्र कारणे कार्यस्य, प्रतिपाद्यगतं यज्ज्ञानं तस्य कारणं हेतुवचनम् । कार्ये कारणोपचारो वा। प्रतिपादकगतं हि यदनुमानं तस्य कार्यं तद्वचनम् । साध्यस्य प्रतिनियतधर्मिसम्बन्धिताप्रसिद्धये हेतोरुपसंहारवचनमिव पक्षप्रयोगोप्यवश्यमेषितव्यः । त्रिविधं साधनमभिधायैव तत्समर्थनं कुर्वाणः को नाम नाङ्गीकुर्यात् पक्षप्रयोगम् ? । अनुमानवत् प्रत्यक्षमपि परार्थं भवति । तथाहि प्रत्यक्षपरिच्छन्नार्थाभिधायि वचनं परार्थ प्रत्यक्षम्, परप्र. त्यक्षहेतुत्वात् । यथा पश्य पुर एष कलशः इति । इदं चौपचारिक प्रत्यक्षम् । तथा वाक्यादेव तद्विषयमुदयत् प्रत्यक्षं तु तात्विकं परार्थम् । अयं च हेतुर्विधा । तथोपपत्त्यन्यथानुपपत्तिभेदात् । यथा पर्वतो वह्निमान् धृमस्यान्यथानुपपत्तेः, धूमस्य तथैवोपपतेर्वेति । अत्र च तात्पर्यसाम्यादेकतर एव हेतुप्रयोगः प्रयोक्तव्यः । एवं च पक्षसाधनप्रयोगलक्षणमवयवद्वयमेव परप्रतिपत्त्यजम्, न दृष्टान्तादिवचनम् । यत्तु सूत्रम् 'प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः' इति, तत्रोदाहरणादीनां न परप्रतिपत्तिप्रभुत्वम्, तत्र पक्षहेतुवचनयोरेव व्यापारोपलब्धेः। न च हेतोरन्यथानुपपत्तिनिर्णीतये, तोदेव तत्सिद्धेः। नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्रयोगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थानस
Page #29
--------------------------------------------------------------------------
________________
१९
तृतीयः सोपानः। मवतारो दुरुद्धरः। नाप्यविनाभावस्मृतये, प्रतिपन्न प्रतिबन्धस्य व्युत्पनमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः। अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहियाप्युद्भावनं व्यर्थम् । मत्पुत्रोऽयं बहिर्वक्ति एवंवरूपस्वरान्यथानुपपत्तेः इत्यादेर्बहिव्याश्यभावेपि गमकत्वस्य, स श्यामस्तत्तनयत्वात् इत्यत्र तद्भावेप्यगमकत्वखोपलब्धेः । पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्त
ाप्तिः, अन्यत्र तु बहिर्व्याप्तिः । यथानेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः । अनिमानेष देशः धूमात्, य एवं स एवं यथा पाकस्थानमिति । नोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्यम्, पक्षहेतुप्रयोगादेव तस्याः सद्भावात् । समर्थनमेव परपतिपत्यङ्गमास्ताम् । तदन्तरेण दृष्टान्तादिप्रयोगेपि तदसम्भवात् । मन्दमतींस्तु व्युत्पादयितुमुदाहरणोपनयनिगमनान्यपि प्रयोज्यानि । प्रतिबन्धप्रतिपत्तिप्रदेशो दृष्टान्तः । स द्वेधा साधर्म्यतो वैधयंतश्च । यत्र साधनधमसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते, स साधर्म्यदृष्टान्तः। यथा यत्र यत्र धूमः तत्र तत्राग्निः यथा महानसः । यत्र च साध्याभावे साधनस्यावश्यमभावः प्रकाश्यते, स वैधय॑दृष्टान्त:, यथाऽज्यभावे न भवत्येव धूमः यथा जलाशये । तथाभूतदृष्टान्तनिर्देश उदाहरणम् । दृष्टान्तद्वैविध्यात् उदाहरणमपि द्विधा ध्येयम् । हेतोः साध्यधर्मिण्युपसंहार उपनयः । यथा-धूमश्चात्र प्रदेशे । साध्यधर्मस्य पुनस्तत्रोपसंहारो निगमनम् । यथा तसादमिरत्र । एते पश्चापि प्रतिज्ञादयः अवयवसंज्ञयोच्यन्ते । तथाहि-पक्षप्रयोगः प्रतिज्ञा । साधनस तु हेतुः । एवमुदाहरणादि प्राग्वदिति ॥ इति श्रीन्यायतीर्थप्रकरणे स्मरणप्रत्यभिज्ञातर्कानुमानोपदेशात्मा
तृतीयः सोपानः ॥ ३॥
Page #30
--------------------------------------------------------------------------
________________
अहम् । अथागमः। आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । उपचारादातवचनं च । न च व्याप्तिग्रहबलेनार्थप्रतिपादकत्वात् धूमवदस्यानुमानेऽन्तर्भावः, कूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणैवासार्थबोधकत्वात् । यथास्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवण आप्तः । वर्णपदवाक्यात्मकं वचनम् । वर्णोऽ. कारादिः पौगलिका, न पुनराकाशगुणः, प्रत्यक्षत्वविरोधात् । पदं सङ्केतवत् । अन्योन्यापेक्षाणां पदानां समुदायो वाक्यं । स्वाभाविकसामर्थ्यसमयाभ्यां चार्थबोधं शब्दो विधत्ते । तस्स चार्थावबोधकत्वं प्रदीपवत् स्वाभाविकम् । यथार्थायथार्थत्वे पुनः पुरुपगुणदूषणे अनुसरतः । अयं च शब्दो विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुव्रजति। तथैव परिपूर्णार्थप्रापकत्वलक्षणता. विकप्रामाण्यनिर्वाहात् । कचिदेकभङ्गदर्शनेपि व्युत्पन्नधियामितरभङ्गाक्षेपध्रौव्यात् । यत्र तु घटोस्तीत्यादिलोकवाक्ये सप्तभङ्गीस्पर्शशून्यता, तत्रार्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येपि तत्त्वतो न प्रामाण्यमिति । अथ सप्तभङ्गी प्रोच्यते । एकत्र वस्तुनि एकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी । इयं च सप्तभङ्गी वस्तुनि प्रतिपर्यायं सप्तविधधर्माणां सम्भवात् सप्तविधसंशयोत्थापितसप्तविधजिज्ञासामूलसप्तविधप्रश्नानुरोधादुपपद्यते । तत्र स्थादस्त्येव घटः इति प्राधान्येन विधिकल्पनया प्रथमो भङ्गः । स्यात् कथञ्चित् खद्रव्यक्षेत्रकालभावापेक्षयेति । एवं स्थानास्त्येव घटः इति प्राधान्येन निषेधकल्पनया द्वितीयो भङ्गः । नचासत्त्वं काल्पनिकम् , सत्त्ववत्तस्य खातव्येणानुभवात् । अन्यथा विपक्षासत्वस्य तात्त्विकस्साभावेन हेतोस्वरूप्यव्याघातापत्तेः । सादस्त्येव स्मानास्त्येव घटः इति प्राधान्येन क्रमिकविधिनिषेधकल्पनया
Page #31
--------------------------------------------------------------------------
________________
चतुर्थः सोपानः। तृतीयः। स्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया तुरीयः । एकेन पदेनोभयोर्वक्तुमशक्यत्वात् । शत्शानचौ सत् इत्यादौ साङ्केतिकपदेनापि क्रमेणार्थद्वयावबोधनात् । अन्यतरत्वादिना कथश्चिदुभयबोधनेपि प्रातिखिकरूपेणैकपदादुभयबोधस्य ब्रह्मणापि दुरुपपादत्वात् । सादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः। स्थानास्त्येव सादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्थानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपविधिनिषेधकल्पनया च सप्तमः । इति सेयं सप्तभङ्गी प्रतिभङ्गं सकलादेशसभावा विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः। नयगोचरीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यात् भेदोपचारेण वा क्रमेणाभिधायकं वाक्यं विकलादेशः इति ॥ ' इति श्रीन्यायतीर्थप्रकरणे आगमप्रमाणस्वरूपप्रतिपादनात्मा
चतुर्थः सोपानः॥४॥
Page #32
--------------------------------------------------------------------------
________________
अहम् । अथ प्रमाणाभासः। येषां लक्षणं निर्दिष्टं तल्लक्षणरहितास्तद्वदाभासमानास्तदाभासा वेदितव्याः । प्रमाणसामान्यस्वरूपहीनाः ज्ञानात्मकसंशयादयः, अचेतनाः सन्निकर्षादयश्च प्रमाणाभासाः। एवमनात्मप्रकाशकं स्वमात्रावभासकं ज्ञानं निर्विकल्पकं च प्रमाणाभासं जानीत । तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः । केवलमन:पर्याययोस्तु विपर्ययः कदापि न सम्भवति, आयस समस्तावरणक्षयोद्भूतेः। अन्त्यस्य संयमविशुद्धिप्रादुर्भूतेः । अवधिज्ञानाभासं विभङ्गापरपर्यायं भवत्येव । यथा शिवाख्यराजर्षेरसङ्ख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् । अम्बुधरेषु गन्धर्वनगरज्ञानम् दुःखे सुखज्ञानं च सांव्यवहारिकप्रत्यक्षाभासम् । अननुभूतेऽर्थे तदितिज्ञानं स्मृत्याभासम् । तुल्ये पदार्थे स एवायमिति, एकसिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञाभासम् । असत्यामपि व्याप्तौ तदवभासस्तकौमासः, यथा-स श्यामो मैत्रपुत्रत्वात् इत्यत्र यावान् मैत्रपुत्रः स सर्वः श्याम इति । पक्षाभासादिभवं ज्ञानमनुमानाभासम् । तत्र बाधितानभिमताधिगतसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः । तत्र बाधितसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकखवचनादिभिः साध्यधर्मस्य बाधनाद् बहुविधः । तत्राद्यो यथा-वहिरनुष्ण इति, एषा हि प्रतिज्ञोष्णत्वग्राह्यध्यक्षेण बाधिता भवति । शब्दोऽपरिणामीति तत्परिणामित्वानुमानेन बाध्यते । जैनेन रजनीभोजनं भजनीयमिति चागमेन बाध्यते । नरशिरःकपालं शुचि, प्राण्यअत्वात् शङ्खशुक्तिवदिति लोकप्रतीत्या बाध्यते । माता मे वन्ध्या, निरन्तरमहं मौनीत्यादि स्ववाचा बाध्यते । एवं सरणादिबाधोपि विज्ञेयः । अनभिमतसाध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः । अधिगतसाध्यधर्मविशेषणो यथा आहेतान् प्रत्यवधारणवर्ज परेण प्रयुज्य
Page #33
--------------------------------------------------------------------------
________________
अन्यथा
पञ्चमः सोपानः। मानः समस्ति जीव इत्यादिः । असिद्धविरुद्धानकान्तिका हेत्वाभासाः । तत्राप्रतीयमानस्वरूपोऽसिद्धः । स्वरूपाप्रतीतिश्चाज्ञानात् सन्देहाद् विपर्ययाद वा । स द्विधा । उभयासिद्धोऽन्यतरासिद्धश्च । आद्यो यथा-परिणामी शब्दः चाक्षुषत्वात् । द्वितीयो यथा-अचेतनास्तरवः विज्ञानेन्द्रियायुर्निरोधलक्षणमरणराहित्यात् । विशेष्यासिद्धादयस्तु वाद्यसिद्धत्वेन विवक्ष्यमाणा वाद्यसिद्धाः प्रतिवाद्यसिद्धत्वेन विवक्ष्यमाणाश्च प्रतिवाद्यसिद्धा इति असिद्ध एवान्तःपातिनः । आश्रयासिद्धस्तु हेत्वाभास एव न, समस्ति समस्तवस्तुस्तोमं परिज्ञाता चन्द्रोपरागादिज्ञानान्यथानुपपत्तेः इत्यादेर्गमकत्वोपलम्भात् । अत्र ह्याश्रयो धर्मी विकल्पप्रसिद्धः, नातोऽसिद्ध आश्रयः । अन्यथा सर्वज्ञधर्मिणोऽसिद्धिरपि कथम् ? तदुपपादने हि विकल्पसिद्धिमवश्यमुपासीत । अवश्यं च प्रामाणिकोपि षटतर्कीपरितर्ककर्कशशेमुषीविशेषसङ्ख्यावद्विराजिराजपरिषदि खरविषाणमस्ति नास्ति वा? इति साक्षेपं प्रसपद्दोद्भुरकन्धरेण केनापि प्रत्याहतः किश्चिदालपेत् न पुनस्तूष्णीमेव तदानीं पुष्णीयात्, अप्रकृतं च किमपि प्रलपन् सनिकारं निस्सार्येत, प्रकृतभाषणे तु विहाय विकल्पसिद्धधर्मिणं काऽन्या गतिरास्ते ? इति चिन्तनीयम् । अप्रामाणिके वस्तुनि मूकवावदकयोः कतरः श्रेयान् इति स्वयमेव विमृशन्तु भवन्त इति चेत् ? ननु स्वोक्तस्यैव तावद् विवेचनेऽवदधीत भवान्, मूकतैव श्रेयसीति च पूत्करोति निष्प्रमाणके वस्तुनीति विकल्पसिद्धं धर्मिणं विधाय मूकताधर्म च विदधातीत्यात्मानं मा स विसरः । एवं व्यधिकरणासिद्धोपि न, जलचन्द्रकृत्तिकोदयादीनां नभश्चन्द्रशकटोदयाद्यनुमापकत्वदर्शनात् । उवाच च भट्टोपि
पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा । ।
सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥१॥ इति ।। साध्याभावव्याप्यो हेतुर्विरुद्धः, तुरङ्गोऽयं विषाणित्वात् इत्यादि ।
इति साक्षेपंल्यावद्विरामामाणिकोदने हि
साध्य
Page #34
--------------------------------------------------------------------------
________________
न्यायतीर्थप्रकरणम्। सपक्षसत्त्वासत्त्वे पक्षविपक्षव्यापकादिस्तत्प्रपञ्चः । अन्यथाप्युपपन्नोऽनैकान्तिकः अन्यथाप्युपपन्नत्वस्य निर्णयः सन्देहो वा, उभयथाप्यनैकान्तिकत्वम् । निर्णये यथा अनित्यः शब्दः प्रमेयत्वात् इति । सन्देहे यथा न विवादापन्नः पुरुषः सर्वज्ञो भवितुमर्हति वक्तृत्वात्, वक्तृत्वं हि विपक्षे सर्वज्ञे सन्देहास्पदीभूतम् । एवं स श्यामस्तत्पुत्रत्वादित्याद्यपि । पक्षसपक्षविपक्षव्यापकादिस्तदन्तःपाती । अकिञ्चित्करकालातीतप्रकरणसमा उक्तानतिरिक्ताः । तत्र अप्रयोजको हेतुरकिश्चित्करः। स द्वेधा सिद्धसाधना, बाधितविषयश्च। तत्राद्यो यथा शब्दः श्रावणः शब्दत्वादिति । अत्र च श्रावणत्वं शब्दे सिद्धमेव । बाधितविषयस्त्वनेकधा स चोक्तप्रायः । एतौ द्वावपि क्रमतोऽधिगतसाध्यधर्मविशेषणपक्षाभासे बाधितसाध्यधर्मविशेषणपक्षाभासे चान्तःपततः । प्रत्यक्षागमबाधितधर्मधर्मिनिर्देशानन्तरप्रयुक्तो हेतुश्च कालातीतोपि पूर्वत्रान्तर्भूत एव । प्रकरणसमस्तु भवत्येव न, असिद्ध एव वान्तर्गमनीय इति ।
साधम्र्येण वैध\ण चाष्टौ दृष्टान्ताभासाः । तत्र प्रथमे साध्यसाधनोभयविकलसन्दिग्धसाध्यसाधनोभयाप्रदर्शितविपरीतान्वयाः। तत्र साध्यधर्मसाधनोभयविकला शब्देऽपौरुषेयत्वे साध्ये कमात् दुःखपरमाणुघटा दृष्टान्ताः । रागादिमानयं वक्तृत्वात् चैत्रवदिति सन्दिग्धसाध्यधर्मा । मरणधर्मायं रागाइँमैत्रवदिति सन्दिग्धसाधनधर्मा । नायं सर्वज्ञः रागादेर्मुनिविशेषवदिति सन्दिग्धोभयधर्मा । अनित्यः शब्दः कृतकत्वात् इत्यप्रदर्शितान्वयः । तत्रैव यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः । चरमेऽसिद्धसाध्यसाधनोभयसन्दिग्धसाध्यसाधनोभयाप्रदर्शितविपरीतव्यतिरेकाः । तत्रामूर्तत्वेन शब्दनित्यत्वे साध्ये परमाणुकर्माकाशाः क्रमेणासिद्धसाध्यसाधनोभयव्यतिरेकाः रागी वचनाद्रथ्यापुरुषवदिति सन्दिग्धसाध्यव्यतिरेकः । मरणधर्मायं रागात् रथ्यापुरुषवत् इति सन्दिग्धसाधनव्यतिरेकः । किश्चिज्ज्ञोयं रागात् रथ्यापुरुषवदिति सन्दिग्धोभय
Page #35
--------------------------------------------------------------------------
________________
२५
णामी शब्दः शब्द इति कृतकथामी कुम्भ इति
पञ्चमः सोपानः। व्यतिरेकः । अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः । तत्रैव यदकृतकं तन्नित्यं यथा खमिति विपरीतव्यतिरेक इति। स्खलक्षणातिक्रमेणोपनयनिगमनवचने तदाभासौ । यथा परिणामी शब्दः कृतकत्वात् यः कृतकः स परिणामी यथा घट इत्यत्र परिणामी च शब्द इति कृतकश्च घट इति च । तत्रैव प्रयोगे तसात् कृतकः शब्द इति तस्मात् परिणामी कुम्भ इति च । अनाप्तवचनप्रभवं ज्ञानमागमाभासम् यथा कूलङ्कषायाः कूले सन्ति मोदकराशयः धावत बालाः । प्रत्यक्षमेवैकं प्रमाणमित्यादि सङ्ख्यानं प्रमाणस्य सङ्ख्याभासम् , प्रमाणसङ्ख्याभ्युपगमश्च परेषाम्
चार्वाको हि समक्षमेकमनुमायुग बौद्धवैशेषिको साङ्ख्यः शाब्दयुतं द्वयं तदुपमायुक् चाक्षपादत्रयम् । सार्थापत्तिचतुष्टयं वदति तत् मानं प्रभाकृत्पुन
भट्टः सर्वमभावयुक् जिनमतेऽध्यक्षं परोक्षं द्वयम् ॥१॥ इत्यतोऽवसेयः। सामान्यमेव विशेष एव तद् द्वयं वा स्वतत्रमित्यादिः प्रमाणस्य विषयाभासः। अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं फलाभासमिति ॥ इति श्रीन्यायतीर्थप्रकरणे प्रमाणाद्याभासखरूपनिवेदनात्मा
पञ्चमः सोपानः ॥५॥
न्याय. ४
Page #36
--------------------------------------------------------------------------
________________
अहम् । उक्तं प्रमाणम् । अथ नयावसरः । प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नयाः । प्रमाणैकदेशत्वाच्चैषां प्रमाणाझेदः । यथा खलु समुद्रैकदेशो न समुद्रः, नाप्यसमुद्रः, तथा नया अपि न प्रमाणम्, नाप्यप्रमाणम् । ते च द्वेधा द्रव्यार्थिकपर्यायार्थिकभेदात् । तत्र प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकः । प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकः । तत्र द्रव्यार्थिकस्त्रेधा नैगम-सङ्ग्रह-व्यवहारभेदात् पर्यायार्थिकश्चतुर्धा, ऋजुसूत्र-शब्द-समभिरूलै-वम्भूतभेदात् । तत्र धर्मधर्मिणोर्धर्मयोधर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः । यथा क्षणमेकं सुखी विषयासक्तो जीवः इति धर्मधर्मिणोः । सचैतन्यमात्मनीतिधर्मयोः। वस्तु पर्यायवद् द्रव्यमिति च धर्मिणोः। धर्मद्वयादीनामैकान्तिकपार्थक्याभिप्रायो नैगमाभासो दुर्भेगमः इत्यर्थः । यथाऽऽत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः । नैयायिक-वैशेषिकदर्शनं चेदम् । सामान्यमात्रग्राही परामर्शः सङ्ग्रहः । स च परोऽपरश्च । तत्राद्यो:शेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्वानः। यथा विश्वमेकं सदविशेषात् इति । सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणः परसङ्ग्रहाभासः । यथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् । एतच्चाद्वैतवादिसाङ्ख्यदर्शनम् । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्यमानस्तविशेषेषु गजनिमीलिकामवलम्बमानोऽपरसङ्ग्रहः यथा धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाविशेषात् इत्यादिः। द्रव्यत्वादि प्रतिजानानस्तद्विशेषानिढुवानस्तदाभासः यथा द्रव्यत्वमेव तत्त्वम् , ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः । सङ्ग्रहेण गोचरीकृतार्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः । यथा
Page #37
--------------------------------------------------------------------------
________________
षष्ठः सोपानः।
२७ यत् सत् तद् द्रव्यं पर्यायो वेत्यादिः । यः पुनरपारमार्थिकद्रव्यपर्यायप्रविभागमभिप्रेति स तदाभासः । यथा चार्वाकमतम् । ऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्रयन्नध्यवसायऋजुमूत्रः । यथा सुखविवर्तः सम्प्रत्यस्तीत्यादिः । सर्वथा द्रव्यापलापी ऋजुसूत्राभासः । यथा ताथागतमतम् । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः। कालादयश्चात्र काल-कारकलिङ्ग-सङ्ख्या-पुरुषो-पसर्गाः। द्रव्यरूपतया पुनरभेदमस्योपेक्षते । यथा-कालभेदे बभूव-भविष्यति-भवति सुमेरुरिति । करोतिक्रियते कुम्भ इति कारकभेदे । तटस्तटीतटमिति लिङ्गभेदे । दारा:कलत्रमिति सङ्ख्याभेदे । एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे । सन्तिष्ठतेऽवतिष्ठते इत्युपसर्गभेदे । कालादिभेदेन ध्वनेरर्थभेदमेव समर्थयमानः शब्दाभासः । यथा बभूव भविष्यति भवति सुमेरुरित्यादयो ध्वनयो भिन्नकालाः भिन्नमेवार्थमाचक्षते भिन्नकालशब्दत्वात्, तादृसिद्धान्यशब्दवदित्यादिः पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । शब्दनयो हि पर्यायभेदेप्यर्थाभेदं स्वीकुरुते, समभिरूढस्तु पर्यायभेदे भिन्नानानभिमनुते अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते । यथा-इन्दनादिन्द्रः, शकनाच्छकः, पूर्दारणात्पुरन्दर इत्यादिषु । पर्यायध्वनीनामर्थनानात्वमेवाङ्गीकुर्वाणः समभिरूढाभासः। यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नार्थी एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदिति । शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतः। समभिरूढः खलु सत्यामसत्यां चन्दनादिक्रियायां वासवादेरथस्येन्द्रादिव्यपदेशमभिसन्धत्ते क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात् । पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् , तथारूढेः सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिणतमेवार्थ तत्क्रियाकाले
Page #38
--------------------------------------------------------------------------
________________
२८
न्यायतीर्थप्रकरणम् । इन्द्रादिव्यपदेशभाजमङ्गीकरोति। न हि कश्चिदक्रियाशब्दोऽस्यास्ति। गोरश्व इत्यादिजातिशब्दानामपि क्रियाशब्दत्वात् , गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इत्यादिगुणशब्दा अपि क्रियाशब्दा एव । शुचीभावाच्छुक्लः, नीलनान्नील इति । देवदत्तो यज्ञदत्त इत्यादि यदृच्छाशब्दा अपि क्रियाशब्दा एव । देव एनं देयात्, यज्ञ एनं देयादिति । संयोगि-समवायिद्रव्यशब्दा अपि क्रियाशब्दा एव । दण्डोस्सास्तीति दण्डी विषाणं भवत्यस्येति च विषाणीत्यस्ति क्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां प्रवृत्तिय॑वहारमात्रात् इति । तथाचेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते । क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभासः । यथाविशिष्टचेष्टाविहीनं घटवस्तु न घटपदवाच्यम्, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाराहित्यात् पटवदित्यादिः । एषु चाद्याश्चत्वारोऽर्थप्रधानाः शेषास्तु त्रयः शब्दप्रधानाः । अत्र पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमितविषयः इति ।
नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिधाभ्यां सप्तभङ्गीमनुव्रजति । प्रमाणसप्तभङ्गीवदेतद्विचारः करणीयः । नयसप्तभङ्गीध्वपि प्रतिभङ्गं सात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी, वस्त्वंशमात्रप्ररूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी, सम्पूर्णवस्तुखरूपप्रज्ञापकत्वादिति । प्रमाणवदस्य फलं व्यवस्थाप्यम् । प्रमाता तु प्रत्यक्षादिमसिद्धश्चैतन्यस्वरूपः परिणामी को साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौगलिकादृष्टवाँश्च जीवः । अत्र चैतन्यपरिणामित्वोत्कीर्तनेन जडखरूपः कूटस्थनित्य आत्मा यौगाभिमतो व्यपाचक्रे । कर्ता साक्षाद्भोक्तेति युगलेन कापिल
Page #39
--------------------------------------------------------------------------
________________
षष्ठः सोपानः ।
२९ मतं पराचक्रे । स्वदेहपरिमाणे चात्मनि वैभवाभिमानो यौगानामधचक्रे । उपान्त्यविशेषणेनात्माद्वैतमतं तिरश्चक्रे । चरमेण पुनश्चाaat निराचक्रे । एवम्भूतस्य जीवस्य सम्यग्ज्ञानक्रियाभ्यां घातिकर्मचतुष्कप्रहाणप्रभवे केवलज्ञाने सति भवोपग्राहिकर्मचतुष्कसंक्षयनिबन्धनः सर्वथा स्वरूपलाभः परमानन्दो जागर्त्तीति ॥ इति श्रीन्यायतीर्थप्रकरणे नयस्वरूपनिरूपणरूपः षष्ठः सोपानः ॥ ६॥
Page #40
--------------------------------------------------------------------------
________________
अर्हम् ।
साम्प्रतं प्रमाणनयतवं व्यवस्थाप्य तत्प्रयोगभूमीभूतो वादः प्रोद्यते
विजिगीषया तत्त्वनिर्णिनीषया वा साधनदूषणवदनं वादः । जल्पोप्यत्रैवान्तर्गतः । वितण्डा तु कथैव न । अयं च वादः सविजिगीषुको वादि-प्रतिवादि - सभ्य - सभापतिभिश्चतुरङ्गः । विपरीतो यङ्गः । कचित् पुनरुयङ्गः । अयं भावः - वादी तावत् विजिगीषुः तत्त्वनिर्णिनीषुचेति द्वेधा । तत्र तत्त्वनिर्णिनीपुर पि स्वस्मिन् परत्र चेति द्विधा । परत्र तत्त्वनिर्णिनीपुरपि क्षायोपशमि कज्ञानवान् केवली चेति चतुर्विधो वादी । एवमेव प्रतिवाद्यपि चतुर्धा । तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव वादः, अन्यतमस्याप्यङ्गस्याभावे जयपराजयव्यवस्थादिदौस्थ्यापत्तेः । द्वितीयस्तु स्वात्मनि तत्त्वनिर्णिनीपुर्न जिगीपुं प्रति न वा स्वस्मिन् तवनिर्णिनीपुं प्रति प्रतिवादी वादी वा भवितुमर्हति तस्मात् द्वितीये तृतीयस्य द्व्यङ्गः । तत्रैव तुरीयस्य च द्वयङ्ग एव । तृतीये क्षायोपशमिकज्ञानिनि प्रथमस्य चतुरङ्गः । तत्रैव द्वितीयतृतीययो -
ङ्गः । चतुर्थस्य च व्यङ्ग एव । चतुर्थेपि प्रथमस्य चतुरङ्गः । द्वितीयतृतीययोस्तु व्यङ्ग एव । केवलिनोस्तु वाद एव न । कचित् द्वितीयतृतीययोस्तृतीयतृतीययोर्वा व्यङ्गोपि वादः सम्भवति, तथाहि-यदा तूत्ताम्यतापि क्षायोपशमिकज्ञानिना न कथञ्चित् परत्र - त्वनिर्णयः पार्यते कर्तुम्, तदा तन्निर्णयार्थमुभाभ्यामपि सभ्याना - मपेक्षा क्रियते । कलहलाभाद्यभिप्रायाभावेन सभापतेस्तु नापेक्षेति ।
प्रमाणतः खपक्षस्थापन - प्रतिपक्षप्रतिक्षेपौ वादिप्रतिवादिनोः कर्म, द्वयमपि विधेयमिति भावः । वादिप्रतिवादिसिद्धान्ततच्च नदीष्णत्वधारणा - बाहुश्रुत्य प्रतिभा क्षान्ति माध्यस्थ्यैरुभयाभिमताः सभ्याः ।
Page #41
--------------------------------------------------------------------------
________________
सप्तमः सोपानः। वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविरमणं यथासम्भवं सभायां कथाफलकथनं च सभ्यानां कर्माणि । प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः । वादिसभ्याभिहितावधारण-कलहव्यपोहादि च सभापतेः कर्मेति । "भक्ति-क्षान्ति-विरक्ति-बुद्धि-रमणीप्राणेश्वर न्यायधी
लिप्सु श्रीमुनिराजचन्द्रविजयाऽभिप्रेरणाद् भूरिशः । अल्पं निर्मितवानिदं प्रकरणं श्रीन्यायतीर्थाभिधं ___ धर्माचार्यपदाम्बुजे परिचरन् श्रीन्यायतीर्थो मुनिः" ॥१॥ इति श्रीन्यायविजयमुनिविरचिते श्रीन्यायतीर्थप्रकरणे वादात्मकः
सप्तमः सोपानः ॥ ७॥
समाप्तं चेदं प्रकरणम्
AVARANAND
Page #42
--------------------------------------------------------------------------
Page #43
--------------------------------------------------------------------------
________________
ப
'
பாகனேங்கயம்
S
WU
Page #44
--------------------------------------------------------------------------
________________
11101
FAAAAAAAAAAAAAAAAAAAAAAAAAAAY ॥निम्मलपभावतो, भुवणुवयारप्पवीणकरणा जे॥ तवगणगगणे सूरा, जयंतु ते नेमिसूरींदा ॥१॥
YYYYXXX
॥जैनतत्त्वपरीक्षा.॥
प्रथमो वर्गः
Page #45
--------------------------------------------------------------------------
________________
Sareekerkakkertenerkonkerkertented * ॥ निम्मलपभाववंतो, भुवणुवयारप्पवीणकरणा जे॥
तवगणगगणे सूरा, जयंतु ते नेमिसूरीदा ॥१॥ सर्वतन्त्रस्वतन्त्रचातुर्विधविशारदश्रीमत्तपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरीश्वरविनेय
सिद्धान्तवाचस्पति-न्यायविशारद-अनुयोगाचार्य
ओ ही श्री महोपाध्यायश्रीउदयविजयगणिना
विनिर्मिता॥
॥जैनतत्त्वपरीक्षा.॥
Sstrokendrenkertendentertakertenderkanderkelendentenderkelenkertenderko
तस्याचायं - प्रथमो वर्गः॥
राजनगर (अमदावाद) स्थनागजीभूधराख्यरथ्यानिवासि-घेवरीयाशाखीय-हीराचन्द्रतनुजनुजमना
दासद्रविगसाहाय्येन मुद्रयित्वा जैनग्रन्थप्रकाशकसभायाः
कार्यवाहकशा. वाडीलाल-बापुलाल-इत्यनेन
प्राकाश्यं नीतः॥ प्रत ५००. सं. १९८३. सने १९१७.
मूल्य ०-४-०.
t
Page #46
--------------------------------------------------------------------------
________________
प्रकाशके छपाववा विगेरेनासर्व हक्क स्वाधीन राख्या छे.
ॐ अमदावाद-श्री जैन एडवोकेट प्रीन्टींग प्रेसमा
शा. चीमनलाल गोकळदासे छाप्युं.
Page #47
--------------------------------------------------------------------------
________________
* ॥ ग्रन्थोपोद्घातः॥
॥नन्दन्तुनमा प्रणतिततयो वीतरागपरमगुरुपदसरोजयोः।।
इह खलु विश्ववलये तावद्विदितमेतद्विज्ञानकलाकलापवतो विद्वद्वर्गस्य पीवरभागधेयस्य यदुताविद्यासन्तमसैकार्णवीभूते मोहमहाशै ठूषवशनानानर्त्तनविधिनर्तितभूतसमुदये रुचिरतत्त्वारुचिपापानुपरतिक्रोधमदनिकृतिप्रभृतिसम्परायवर्गान्तःकरणशक्त्यादिपारतन्त्र्यामर्थपरम्पराप्राबल्ये. कलयत्यपि काले कलावाखण्डलास्पदमखण्डे मेदिनीखण्डे सत्तर्कविकल्पमण्डनसुशास्त्रनिपुणमेधाविमण्डलचमत्कार कारितया हिताहितालोकलोचनतया प्रविदिते भववारिधिनिमज्जजन्तुजातयानपात्रे कनक इव निकषच्छेदतापकोटित्रितयसुपरीक्षिते श्रुतिमात्रेणापि द्वेषिजनजातस्यापि मुखमावहति स्वतःप्रतिष्ठिततत्त्वनिकुरम्बे कुतीर्थिकोपन्धस्तकुहेतुव्राताशक्यवाधस्वरूपे मुद्राङ्कितरूप्यक इव स्यान्मुद्रामुद्रितत्वेन सत्यस्वरूपेऽस्मिञ्जिनप्रणीतप्रवचने नास्त्येव परीक्षाहत्वम् । अपि च न चतस्याः परीक्षाया यद्यपि परतीथिकोपरचितकुंयुक्तिगिरिविभेदनवज्रेषु सम्मतितकानेकान्तजयपताकास्याद्वादरनाकरतदवतारिकाप्रमाणमीमांसास्याद्वादमञ्जरी न्यायालोकखण्डखायादिकेषु प्रमाणतर्कग्रन्थेषु तत्त्वप्रतिष्ठितौ किमपि क्षुण्णत्वम् । तथाऽप्यवाचीनकुयुक्तिविमलम्भविपलब्धमनसां मनस्विनामुपकारकारितया नास्या निष्प्रयोजनवारेकाकणोपि ॥ किश्चानेकग्रन्थसमयसमवायसारसन्दोहरूपत्वेनाध्येतृणामनायासतस्तत्तद्विषयकव्यक्तबोधविधायितया सफलखमेवास्या इति दिक् ॥ ' प्रणयने चास्याः सिद्धान्तोपनिषद्विचारपारावारपारीणानां प्रौढपरवादिवारणवाराकान्तैकान्तवादवादमदमथनपश्चाननानां विविधविष
Page #48
--------------------------------------------------------------------------
________________
मविषयाशीविषविषविलुप्तभावजीवनजन्तुजातजाङ्गलीमन्त्रायनाणानामनवयविद्याविद्याधरीलीलाविलाससफलीकृतजनीनामपारासारसंसारा. रण्यविनिर्जिगमिषुनिरुपसर्गसन्मार्गमार्गणाभिरतभव्यजनबातशरण्याना परहितकरणैकार्पितकरणानां परोपकारकर्मकर्मठशिरोमणीनां ब.थाभ्यन्तरानवरतसदाचरण चरणकरणसप्ततियोगयोगकरणत्रिकविशुद्धित्रिपथगापगाप्रवाह निर्घातान्तरकलुषकल्मषाणामखिलपक्चनमातृसमितिगुप्तिलतोत्करपुष्पाकराणामनल्पाभीष्टकान्तिकात्यन्तिकफलप्रदानकल्पद्रुमाणामात्महिताहितविवेकयाथात्म्यावबोधप्रतिपन्थिमोहसन्तमसविध्वंसतरणीनामशेषसत्त्वार्णवोल्लासेन्दुवदनानां भरतभूीमभूषणानाममेयगुणमणिमकराकरायमाणानां सर्वतन्त्रस्वतन्त्राणां प्रचण्डोइण्डसंसारार्णवनिमज्जनकनिवन्धनमनोवृत्तिवशीकारमहामन्त्रनिखिलश्रुतरनाराधनोपचारसदाप्ताममावेदिताङ्गोपाङ्गादियोगवियोपविद्यादिपीठपञ्चकायनुष्ठानसमाचरणगणभृदादिमहापुरुषसमाराधितश्रीमरिमत्रसमाराधनावाप्तगणभृ पदवीविभूषितानामखण्डमदिनीविदितज्ञानोपदेशादिप्रभावातिशयसंस्मारितातीतयुगप्रधानानामनेकपत्यमात्यकोटीश्वरेभ्यवर्गादिपर्षदुपासितपादारविन्दानां स्वपादपावनीकृतावनिवलयानां प्रतपत्साम्राज्यानां सकलमूरिपुरन्दरभट्टारकश्रीतपोगच्छाचार्यश्रीमदविजयनमिसूरिपादानां प्रसत्तिरेव परमकारणं मन्दमतेमीदशस्य ॥ इतोऽवलोक्यमाने विषयविभागे पूर्व तावदेतस्या वर्गsस्मिन् परीक्षापातनिकायां भवस्वरूपोपदर्शनपूर्वकमसारसंसारापारपारदर्शनतरण्डस्य तत्वावबोधस्थादेयता सममूचि। ततश्च परीक्षालक्षणमुपवर्ण्य प्रमितिलक्षगप्रतिपादनमिषेण तत्स्वरूपविसंवादिनां निराचिकीर्षितानां योगसाङ्ख्याद्वैतवादिवौद्धादीनां लक्षगगतविशेषणपात्रत्तिविधया सम्मतप्रमाणदुष्टांश मानिरूपणम् , प्रमाणभेदकीर्तनम्, अनेकदर्शनपतिपत्रमाणविभागगणनापतिपादकपद्यानि, सदागृहीतरमाण
Page #49
--------------------------------------------------------------------------
________________
(५) निराकरणदिशा सामव्यवहारिकप्रत्यक्षविभागोपवर्णनम्, इद्रियाणांपाप्यकारिखाप्राप्यकारिखदर्शनम्, बौद्धाभिमतश्रवणामाप्यकारिवनिरसनयुक्ति कदम्बकम् , श्रेत्रस्य शब्दकृतानुग्रहदर्शने भगवन्तस्तीर्थकरा एव निदर्शनविषयीकृता आगमवचनेन, व्यञ्जनावग्रहोपपन्नताद्वारण श्रेत्रमाप्यकारितासिद्धिः,सामान्यावबोधात्मकदर्शनान्तर्गतचक्षुर्दर्शनादिविभागमुखेनापि तसिद्धयुपवर्णनम् । कर्णप्राप्यकारितासिद्धिनिगमनं रत्रमभमूरिपादप्रदर्शितेन पद्येन ॥ नैयायिकसम्मतशब्दगुणवखण्डनोपक्रमः ।। उपपत्तिपूर्व श्रवणपथनिरूपणम्, शब्दद्रव्यत्वसिद्धियुक्तिकदम्बकम् , अन्तरान्तरानेकान्तवादसिद्धिस्समवायादिखण्डनश्च, उच्छृङ्खलनैयायिकपरिकल्पितशब्दवायुगुणत्वापाकृतिः, शब्दगुणफत्वेनैव नभस उपपन्नतेतरथा तन्नोपपद्यतेत्यभिमानवतांनैयायिकानां सयुक्तिकमाकाशस्य स्वतःपतिष्ठिततत्त्वत्वख्यापनेन निराकरणम् , तदन्तःपातिन्या एकस्मिन्नपि नभःप्रदेशेऽनन्तपरमाणुयावद्र्व्यव्यवस्थितेःसोपपत्ति सनिदर्शनं चोपवर्णनम् , नाममात्रेग धमोदिद्रव्याणांप्रज्ञापनम्, एतेन ये केचनानाघ्राय जैनदर्श गन्धमपि ज्ञानलवदुर्विदग्धतमा अविकलफेवलालोकबलावलोकितलोकालोकप्रतिष्ठितार्थसाथोहेद्वदनविनिर्गतसद्पतक्वान्यनाकलय्यानास्वाय तद्व्याख्यानसुस्वादुसुधास्यन्दंदीपायां पदीपकलिकायां शलभायमाना जैनाभिमततया पदार्थव्याख्या विदधतोजै-जातानभिप्रेतं विपनविषाहारोद्गारकल्पमसत्यतममुन्मत्ता इवोलुपन्त्यधमाध्वन्यात्मानंनिपातयनास्ते तद्रूपाएव संसूचिताःसम्माभिलापुकाणां पुरः॥ आकाशस्य द्रव्यतैव नास्तीति नास्तिकानुकारिनव्यनैयायिकमतपरासनम्, पौद्गलिकत्वेऽपि शब्दस्य पुद्गलप्रक्षेपातिचाराच्छब्दाणुपातातिचारस्यातिरिक्ततासिद्धिः, बौद्धपरिकल्पितशब्दायतननिरासः, अनेकागमग्रन्थप ठनोत्पत्तिपूर्वकं शब्दपौद्गलिकत्वोपदर्शनमिषेणानेकत्तत्त्वोपवर्णनम्, सनिदर्शनंवर्गणाकल्पनमयोजनम्, यन्त्राहतत्वे
Page #50
--------------------------------------------------------------------------
________________
(६.)
नोपपयमाना परकल्पितकुयुक्तिनिराकरणपूर्वकं ध्वनिद्रव्यत्वसिद्धिः । शब्दद्रव्यत्व सिद्धिनिगमनम् ॥ क्रमश एतान् विषयान्य रूपमहमेतस्मिन् वर्गे ॥ अथ परगुणपरमाणुमप्युन्नत गिरीन्द्रमिवालोकयन्तः परकीयं दोषपरिकरमपि गच्छतः स्खलनं कापीत्यादिन्यायावलम्बनेन समादधतो मात्सर्या मेध्यांशेनाप्यन व दिग्धमानसाः सन्ति विद्वांसः कतिपये तवातंत्र विवेकपरिनिष्ठितास्खलत्स्वपरतन्त्रप्रचारबुद्धिविभवा येषामवलोकनेन शब्दतोऽर्थतश्वाशुद्धिं परित्यजन् सन्दर्भशुद्धिं चानुसरनैदम्पर्यार्थ - प्राधान्येनोपजीवंस्तत्तत्पक्षाणां पूर्वापरीभावहेतुमासादयन् परगुणासहमानभावानभिज्ञजनोत्मैक्षित दूषणगणमगणयन्नयं ग्रन्थ आसादयिष्यत्यापुष्पदन्तोदयं स्वस्थितिमित्याशास्ते श्रमणगुणमकरन्दद्विरेफः सूरिक्रमकमलोपासको ग्रन्थकारः ॥
Page #51
--------------------------------------------------------------------------
________________
॥ श्रीः॥ * सुज्ञ बन्धुओ. . आ ग्रन्थनी रचना करनार परमपूज्य परमोपकारी परमकृपालु प्रातःस्मरणीय पूज्यपाद विहितभगवतीयेोगाद्वहनादिप्रवचनोक्तशुद्धक्रियाकलाप विद्यापीठादिप्रस्थानपंचकाराधक समाराधितश्रीसूरिमन्त्र अमेयमहिमानिधान भारतमेदिनीमार्तण्ड जगद्विभूषण भट्टारक श्रीमत्तपोगच्छाचार्य श्रीमान् विजयनेमिसूरीश्वरजीमहाराजना शिष्यरत्न सिद्धान्तवाचस्पति न्यायविशारद अनुयोगाचार्य ओ ही श्री महोपाध्यायजी श्रीमान् उद्यविजयजीगणिजी महाराज छे.
ग्रन्थकर्तामहाराजश्रीने तथा न्यायवाचस्पति शास्त्रविशारद अनुयोगाचार्य ओह्री श्री महोपाध्याय श्रीदर्शनविजयजी गणिजीने, तथा अनुयोगाचार्य पन्न्यासजी श्रीप्रतापविजयजीगणिजीने संवत १९६९ मां कपडवंजमा भट्टारक सूरीश्वरजीमहाराजश्रीए भगवतीजीना योगोद्वहन करावी श्रीसंघना विशाल हर्ष साथे गणिपद पन्यासपद अनुयोगाचार्यपद आप्या हता ते सुविदितज छे. .. हालना चालू वर्ष १९७३ ना मागशर वदी ३ ने दिवसे श्रीसादरी-शहेरमां भट्टारक सूरीश्वरजीमहाराजसाहेबे श्रीमान् न्यायवाचस्पति शास्त्रविशारद अनुयोगाचार्य ओही श्री महोपाध्यायजीश्री दर्शन विजयजीगणिजीमहाराजने तथा ग्रन्यकर्ता महाशय श्रीमान् सिद्धान्तवाचस्पतिन्यायविशारद अनुयोगाचार्य ओ ही श्री महोपाध्यायजी श्रीउदयविजयजीगणिजीने-न्यायवाचस्पति शास्त्रविशारद तथा सिद्धान्तवाचस्पति न्यायविशारद
Page #52
--------------------------------------------------------------------------
________________
(८) बिरुदो साथे उपाध्यायपद. श्रीसंघना अपार हर्ष साथे
आपवामां आव्युं छे-आ शुभप्रसंगे-गोलवाड विगेरे प्रान्तना हजारो माणसो तथा-अमदावाद-खंभात-भावनगर-बोटाद विगेरे स्थलोना शेठ माणेकलालभाइ मनसुखभाइ-शेठ प्रतापसिंहभाइ मोहोलालभाइ तथा तत्त्वविवेचक सभाना सभासदो तथा शेठ अमरचंद जसराज-शेठ पोपटभाइ अमरचंद-शेठ छगनभाइ अमरचंद विगेरे अनेक गृहस्थो पधार्या हता.
आ शुभ प्रसंगे-सादरीना-नथमलजी मूलचंदवाला तथा मूरजी पूनमचंद विगेरे ग्रहस्थोए समवसरणनी रचना-नवकारशीओ विगेरे शासनोन्नति कार्यमा पुष्कल द्रव्यनो व्यय कर्यो हतो तेमज शेठ मनसुखभाइना पुत्ररत्न शेठ माणेकलालभाइ मनसुखभाइए पण आ शुभप्रसंगे-जुदा जुदा गामोना धार्मिककार्योमां पुष्कल सखावतो करी वीतराग धर्मनी अनुमोदना करावी छे-तेमज अमदावादनी श्री तत्त्वविवेचक सभाना मेम्बरो तथा भावनगरना शेठ अमरचंद जसराज तथा खंभातना शेठ पोपटभाइ अमरचंद तथा शेठ छगनभाइ अमरचंद विगेरे ग्रहस्थोए पण शासनोन्नतिना सत्कार्योमां द्रव्यव्यय कयों छे. आ प्रसंगे पन्यासजीश्री प्रेमविजयजीगणीजी तथा पन्यासजी श्रीसुमतिविजयजीगणिजीने पण उपाध्यायपदं आपवामां आव्युं छे. आवीरीते जे महात्माना उपाध्यायपदना महोत्सव प्रसंगे शासनोन्नतिना शुभकार्यो थयातेमज जेमना विद्वत्ता विगेरे सद्गुणो सुप्रसिद्धज छे तेज महात्मा सिद्धान्तवाचस्पति न्यायविशारद अनुयोगाचार्य ओही श्रीमहोपाध्यायजीश्रीउदयविजयजीगणिजीआग्रन्थना कर्ता छे आ ग्रन्थ उपरांत तेओश्रीए बीजा पण अनेक ग्रन्थोनी रचना करी छे अमे आशा राखीये छीये के हलवे हलवे ते ग्रन्थो
Page #53
--------------------------------------------------------------------------
________________
( 4 )
पण जनसमाजमां प्रसिद्ध करवा अमो भाग्यशाळी बनीशुं, आ ग्रन्थकर्ता महात्मानी जन्मभूमि श्रीस्तंभत्तीर्थ ( खंभात ) छे. तेओश्रीनो श्रीश्रीमाळ (विशाश्रीमालि ) ज्ञातिना शा. छोटालाल पानाचंदना कुलदीपक पुत्ररूपे रत्नकुक्षिणी माता बाइ परसननी कुक्षिये संवत् १९४४ मां जन्म कर्यो हतो, अने लघुवयमांज तेओ साहेबजी दीक्षा लइ आवा सुशोभितपदो मेळवावा तथा ग्रन्थो बनाववा भाग्यशाळी नीवड्या छे.
धारण
प्रसंगोपात अमारे कहेवुं जोइये के- भट्टारकश्री' सूरीश्वरजी महाराजना शिष्यरत्नोपैकी न्यायवाचस्पति शास्त्र विशारद अनुयोगाचार्य ओ ही श्री महोपाध्यायजी दर्शनविजजीगणिजी महाराजे पण " स्याद्वादबिन्दु” विगेरे न्यायना अपूर्वग्रन्थो बनावेला छे ते पण अमे आशा राखीये छोये के जैनप्रजानी सन्मुख प्रसिद्धिमां मूकवा भाग्यशाळी बनीशुं तेमज बीजा शिष्यरत्न अनुयोगाचार्यपन्यासजीश्रीप्रतापविजयजीगणिजी महाराजे पण "नूतनस्तोत्र संग्रह” तथा “प्राकृतरूपावली” ग्रन्थो बनाव्या छे जे प्रसिद्ध थयेला छे तेमज तेओश्रीए बनावेला वीजा पण ग्रन्थो छे तेमज मर्हम शिष्यरत्न प्रवर्तक श्रीयशोविजयजी महाराज पण एक नामीचा वैयाकरण तथा शीघ्रकवि तरीके प्रसिद्ध हता अने तेओनो बनावेलो-"स्तुतिकल्पलता” नामनो ग्रन्थ प्रसिद्धिमां मूकायेलो छे. श्रीमान् शिष्य पद्मविजयजी महाराजनी बनावेली "जिनस्तवनचोवीशी" पण प्रसिद्धिमा मूकायेली छे तेमज भट्टारकश्रीमानना प्रशिष्य अने ग्रन्थकर्ता महाराजना शिष्य श्रीमान् नन्दनविजयजीमहाराज़नो बनावेलो "स्तोत्र भानु" नामनो ग्रन्थ
Page #54
--------------------------------------------------------------------------
________________
प्रसिद्धिमां मूकायेलो छे...
ग्रन्थकर्ता तेमज उपर्युक्त ग्रन्थकर्ताओ के जेओए जैनप्रजाने ज्ञानदान करी उपकार कर्यो छे तेओनो अन्तःकरणपूर्वक आभार मानीये छोये, अने आवा शिष्यरत्नोने विद्वान् बनावमार भट्टारकश्रीमान् सूरीश्वरजीमहाराजनो पण अमो वारंवार अन्तः करणपूर्वक आभार मानीये छीये, तेमज उपर्युक्त महात्माओ तथा बीजा शिष्योने ज्ञानमां मदद करनार शेठ मनसुखभाइ भगुभाइ तथा तेमना पुत्ररत्न शेठ माणेकलालभाइने धन्यवाद आपवापूर्वक तेओश्रीनी धर्मकार्यनी अमो अनुमोदना करीये छीये. _आ ग्रन्थ छपाववामां द्रव्यनी सहाय आफ्नार-मांडवीनी पोलना रहीश-धेबरीया जमनादास हीराचंदनो पण अमो आभार मानीये छीये-छेवटे उपयुक्त महात्माओ जैनकोमना हितने माटे अनेक ग्रन्थोनी रचना करे तेमज अन्य मुनिसहाराजाओ पण आवीज रोते जैनकोमना हितने माटे अन्योनी रचना करी उपकार करे केटलं कही अमे आ प्रस्तावना संपूर्ण करीये छीये. - आ ग्रंथमा मुद्रणदोपथी या दृष्टिदोषथी मूल रही गइ होय तो सुधारी सुज्ञो वांचशे.
लिः श्रीश्रमणसंघ चरणकमलोपासक पाशीलालापुलाल शाह.
Page #55
--------------------------------------------------------------------------
________________
॥ अहम् ॥ . ॥ ऐदंयुगीनश्रीसंघशरण्यक्रमकजेभ्यो निखिलगुणरत्नरोहण- गिरिभ्यो भट्टारकश्रीतपोगच्छाचार्यश्रीमद्
विजयनेमिसूरीश्वरेभ्यो नमो नमः॥
. ॥ तदन्तेवासिविनेयसिद्धान्तवाचस्पति-न्यायविशारद. अनुयोगाचार्य-ओ ही श्री महोपाध्याय-श्रीमद्
उदयविजयगणिना
विनिर्मिता॥ ॥जैनतत्त्वपरीक्षा.॥
सुरासुरनतं नौमि, वीरं विश्वार्थवेदिनम् । सर्वकर्मविनिर्मुक्तं, वागीशं शिवसौख्यदम् ॥१॥ नमस्कृत्य तमोपोहं, स्यात्कारकिरणान्वितम् । तीर्थकृत्सूक्तमार्तण्ड, भव्यपाथोजबोधकम् ॥२॥ ऐदंयुगीनसङ्घस्या-धिपं नत्वा मुहुर्गुरुम् । नेमिसूरिं मुदा वक्ष्ये, जैनतत्त्वपरीक्षणम् ॥३॥ ___ इह ह्यनादिमहामोहमतङ्गजमालिन्यनवरतदुःखावर्तपरम्परापरिगते जन्मजरामरणहर्षामर्षरोगोहेगशोकाधिव्याध्युपाध्युपद्रवसङ्कटमकरशतसहस्रोपनिपातसङ्कुले सभेदप्रभेदनारकतिर्यग्नरामरगतिचतुष्कदिक्चक्रवाल इष्टानिष्टवियोगसम्प्रयोगवीची
Page #56
--------------------------------------------------------------------------
________________
(२).
मालाकरम्बितेऽनन्तानुबन्ध्यादिकषायपातालकलशावगाढमूले रागद्वेषावसायवाडवानलदन्दह्यमानानन्तजन्तुमालाकुले विचित्रकर्मपरिणत्यगाधसलिले भीमे भवार्णवे निमजतां तदुत्तितोषूणां जन्तूनां तदुत्तरणतन्त्रं तत्त्वावबोधतरण्ड एव सुक्षमः ॥ यदभ्यधायि, "विना ज्ञानं च चारित्रं, कर्मणां न विमोचनम् । न सम्यक्त्वं विना ते तु, तच्च तत्त्वावबोधतः॥१॥ ततश्च कर्मनिर्मुक्ते-र्भवेन्मुक्तिपुरी प्रति । गमनं भव्यजन्तूना, परमानन्ददायकम् ॥२॥ सा दृष्टिढिविधा प्रोक्ता, नैसर्गी चोपदेशजा। केषाश्चिन्मुक्तियोग्यानां, सा निसर्गाबुधैर्मता ॥३॥ केषाश्चिदुपदेशात् सो, मतैवं तत्त्वकोविदैः ॥ तत्त्वज्ञप्त्युपमस्तस्मा-दुपदेशो भवान्तदः ॥४॥"
स एव यथावस्थिततत्त्वावबोधः परमतनिराकरणपूवकस्वमतव्यवस्थापनरूपपरीक्षयैव सम्भवति॥ विबुधजनमान्या सा परीक्षा च ज्ञानपरोक्षज्ञप्तिवादिभाट्टानां स्वसमानाधिकरणस्वानन्तरसमयसमुत्पदिष्णुमानसेन ज्ञानज्ञानविदां यौगानामचेतनज्ञानवादिसाङ्ख्यानाञ्च लोकालोकवर्त्तिद्रव्यपर्यायात्मकानेकपदार्थसार्थविलोपकब्रह्माद्वैतवादिनांशून्यवादिसौगतानाञ्च निर्विकल्पकप्रत्यक्षप्रमाणत्ववादिनांताथागतानां स्वलक्षणावगाहित्वा
Page #57
--------------------------------------------------------------------------
________________
(३) निर्विकल्पकस्यैव प्रमाणत्वमिति मन्यमानानां चार्वाकाणाञ्च कदाग्रहग्रहं निग्रहीतुं संशयविपर्ययानध्यवसायानां स्वसमयप्रसिद्धदर्शनस्य च प्रामाण्यमपाक गृहीतस्वपरव्यवसायिविशेषणज्ञानरूपप्रमाणाद्भवति ॥अतस्तदेवादी निरूप्यते। तत्प्रमाणं द्विविधम्, प्रत्यक्ष परोक्षञ्चेति। तत्रादिम द्विविधम् , सांव्यवहारिकपारमार्थिकभेदात्। उदीचीनञ्च स्मरणप्रत्यभिज्ञानतर्वानुमानागमभेदात् पञ्चधेति। ननुप्रत्यक्षमेकमेव प्रमाणमिति चार्वाकैरभिहितत्वात् तदेवानुमानसहितं द्विविधमेवेति बौद्धवैशेषिकसम्मतत्वादेतद्विविधमप्यागमेन सह त्रिविधमेवेति. कपिलोक्तस्वादेतत्रितयमप्युपमानेन सहितं चतुर्विधमित्यक्षपादोक्तेस्तदेतच्चतुष्कमप्यर्थापत्त्या सह पञ्चधेति प्रभाकरप्रतिपादनात पश्चापि तान्यनुपलब्ध्या सह षडेवेति भट्टः वेदान्तिनोरुक्तेश्चैवं सम्भवैतिह्यप्रतिभादिस्वभावानां प्रभूतानामपि सत्त्वात्, तथा चाभ्यधिष्महि“प्रत्यक्ष मानमेकन्तु, चार्वाकैरभिधीयते। अनुमानेन युक्तन्तद्, द्विधा बौद्धैर्विवेचितम् ॥१॥ तदेवं द्विविधं प्रोक्तम् , कणभक्षानुयायिभिः । आगमेनान्वितं तत्तु, त्रिधा कपिलसम्मतम् ॥२॥ त्रितयन्तूपमानेना-न्वितं मानं चतुर्विधम्। अक्षपादेन तत्प्रोक्तम्, स्वमतालम्बिनःप्रति ॥३॥
Page #58
--------------------------------------------------------------------------
________________
( ४ ) अर्थापत्त्या सहैतच्च पञ्चधाऽऽह प्रभाकरः । पञ्चाप्यनुपलब्ध्या षट्, तान्याहुर्भट्ट सूनवः ॥ ४ ॥ षड्वै वेदान्तिनोऽप्याहुः, सम्भवाद्यानि चापरे । प्रभूतानामपीत्थम्, प्रतिपत्तिरनेकधा ॥ ५॥ "
इति । तत्कथमेवं सङ्गच्छते यद्विविधं प्रमाणमितीति चेत्, तन्न, अनुमानस्य परोक्षरूपप्रमाणत्वसमर्थनेन प्रत्यभिज्ञादीनां प्रमाणत्वसत्त्वेनोपमानादीनां प्रत्यभिज्ञादिष्वन्तर्भावेन च चार्वाकाद्यभिहितानामुन्मतप्रलपितप्रायत्वात् । ननु प्रत्यक्षस्येन्द्रियजन्यत्वाविशेषे कथं द्विभेद इति चेत्, स्पष्टताजीवातुकस्य तस्येन्द्रयमात्रजन्यत्वस्यासिद्धेः, सांव्यवहारिकप्रत्यक्षस्य बाह्यसापेक्षत्वात् पारमार्थिकस्य चात्मसापेक्षत्वादिति । सांव्यवहारिकमपीन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं चेति द्विभेदम् । इन्द्रियाण्येव स्पर्शनादीनि पञ्च करणानि वस्तु प्राप्याप्राप्य च यज्ज्ञानं जनयन्ति तदिन्द्रियनिबन्धनम् । मनएवसाधारणं कारणं यस्मिंस्तदनिन्द्रियनिबन्धनम् । न च सर्वेष्वपि प्रत्यक्षेषु मनो व्याप्रियत एवेति कथं तद्विविधमिति वाच्यम् । करणभेदेन तद्भेदात्, तथाहि यदसाधारणं कारणं तदेव करणमिति नियमात् स्वप्ना - वस्थायां वाह्येन्द्रियव्यापारविगमाद्वाह्यप्रत्यक्षाभावेन बाह्यप्रत्यक्ष इन्द्रियाण्येवासाधारणानि कारणानीति ता
Page #59
--------------------------------------------------------------------------
________________
न्येव करणानि न मन इति। किञ्चासंज्ञिप्रत्यक्षे व्यभिचारेण सर्वप्रत्यक्षेषु मनसो व्याप्रियमाणत्वस्यासिद्धः । ननु वस्तुप्राप्याप्राप्येति कथम्, सर्वेषामप्यक्षाणां सम्बद्धवस्तुग्राहित्वेन प्राप्यकारित्वात् यदवादि “सम्बद्धं वर्तमानं हि गृह्यते चक्षुरादिना” इति चेत्, नस्पर्शनरसनघ्राणश्रोत्राणां यथायथं वद्धस्पृष्टादिवस्तुग्राहकत्वेन प्राप्यकारित्वात् चक्षुर्मनसोस्तद्विपरीतत्वेनाप्राप्यकारित्वादिति । अत्राहुबौद्धाः-श्रोत्रस्याप्यप्राप्यकारित्वाच्चतुर्णां प्राप्यकारित्वमसिद्धम्। तथा हि-यद्यदिग्देशव्यपदेशकारि तत्तदप्राप्यकारि,यथा लोचनम्। अप्राप्यकारित्वव्याप्यदिग्देशव्यपदेशकारित्ववच्छ्रोत्रम्।यन्न दिग्देशव्यपदेशकारि तन्नाप्राप्यकारि, यथा रसना। दिग्देशव्यपदेशकारि चेदम्। इत्यन्वयव्यतिरेकाभ्यामुदाहरणोपनयाभ्यामवयवाभ्यामप्राप्यकारित्वं श्रोत्रस्य । न च दिग्देशव्यपदेशकारित्वस्यासिद्धिः, प्राच्यादिदिस्थितपुरुषोच्चारितशब्दे प्राच्यादित आगतोऽयमिति प्रतीतः । इति चेन्मैवम् । गन्धस्पर्शयोरपि तथाप्रतीतत्वाद्माणस्पर्शनयोरप्यप्राप्यकारित्वप्रसक्तः। न च तत्तद्गन्धस्पर्शादीनामनुमानतः कारणान्यवगम्य तथाप्रतीतिः, शब्देऽप्येवं वक्तुं शक्यत्वात्। किञ्च श्रोत्रस्य दिग्देशविषयकत्वमपि न युक्तियुक्तम्, शब्दस्यैव श्रोत्रविषयत्वात्, “श्रोत्रविषयाः शब्दाः” इति वचनात्,
Page #60
--------------------------------------------------------------------------
________________
अन्यथा तेषामपि शब्दत्वप्रसङ्गः। किञ्चेन्द्रियाणां रूपिद्रव्यग्राहकत्वात् दिग्देशस्य चाकाशभागरूपस्यारूपित्वेन नेन्द्रियग्राह्यत्वमिति श्रोत्रेण तद्ग्रहणायोगः। शब्दस्य तु यथा रूपिद्रव्यत्वं तथा समनन्तरमेव वक्ष्यते विस्तरेण। ननु यथास्पर्शनादीनां प्राप्यकारित्वेन चन्दनाग्निकृतावनुग्रहोपघातौ भवतः, तथा श्रोत्रस्यापि शब्दकृतो तो स्यातामिति चेत्, सत्यम्,भवत एवानुग्रहोपघाता पाटववाधिर्यलक्षणौ श्रोत्रस्यापि। तदुक्तं मलयगिरिपूज्यरावश्यकतो नन्दीवृत्तौ च, “दृश्यते हि सद्योजातबालकानां कर्णदेशाभ्यण गाढास्फालितझल्लरीझात्कारश्रवणस्फोटः" इत्यादि, अत एव भगवतस्तीर्थकरस्य जन्ममहोत्सवावसरे दिक्कुमारिका एत्यायोजनं संवर्तकेन मेदिनोशुद्धिप्रभृतिकं चन्दनरक्षापोट्टलिकापर्यवसानं सर्वं स्वकृत्यं कृत्वा भगवतः कर्णपाटवनिमित्तं पाषाणद्वयं गृहीत्वा वादयन्ति, तथा चोक्तमावश्यकटीकायां भवविरहसूरिभिः, "भगवतो तित्थगरस्स कण्णमूलंसि दुवे पाहाणवट्टते टिंटियावंति" इति । यदि च श्रोत्रस्याप्राप्यकारित्वमेव, तदानुकूलवायुके शब्दे किं दूरतोऽपि बुद्धिरन्यथा निकटे ऽपि सा न। न च पटुघटितद्वारे कथं शब्दबुद्धिस्ततः शब्दस्यानागतेरिति वाच्यम्। यथा गन्धबुद्धिस्तव तथा त१ भगवतस्तीर्थकरस्य कर्णमूले द्वौ पाषाणगोलको वादयन्ति । ...
Page #61
--------------------------------------------------------------------------
________________
स्या अपि सिद्धेः॥वस्तुतस्तु द्रव्यशब्दस्य जीवपरिगृहीतभाषायोग्यपुद्गलसमूहत्वेन भावशब्दस्य च बहिनिगंतनिर्गच्छद्भाषापरिणामपरिणतभाषावर्गणापरमाणुसमूहत्वेन सूक्ष्मत्वात् कपाटादिनाऽप्रतिबद्धस्य बहिरागमनत एव बुद्धिः। तथैव प्रज्ञप्त्याख्यपञ्चमाङ्गे द्वितीयशतकषष्ठोद्देशके प्रज्ञापनायां चैकादशभाषापदे आवश्यकसूत्रस्पर्शिकनियुक्तिटीकायां च प्रतिपादितम्। एवञ्च श्रोत्रस्य सिद्धं प्राप्यकारित्वम् । प्रतिपादिता च श्रोत्रस्य प्राप्यकारितार्थान्तरव्याजेन प्रज्ञप्त्याख्यपञ्चमागे पश्च. मशते चतुर्थोद्देशके। “छउमत्थे णं मणूसे आउडिज्जमाणाई सदाइं सुणेइ तं जहा संखसदाणि वा जाव झुसिराणि वा ताई भंते किं पुट्ठाइं सुणेइ अपुट्ठाइं सुणेइ । गोयमा । पुट्टाई सुणेइ नो अपुटाई" इत्यादि ॥ तथा च भगवत्यां द्वितीयशतकचतुर्थोदेशके प्रज्ञापनायाश्च पञ्चदशेन्द्रियपदप्रथमोद्देशकेऽपि “पुठपविठ्ठत्ती"त्यादिना श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थं प्रविष्टश्च गृह्णन्तीत्यादि निगदितम्। अत एव च “शब्दोऽपि स्वपरिणाममजहद् द्वादशयोजनप्रमितात् प्रदेशादागतः श्रोत्रेण प्राप्यकारिणोत्कर्षाद् गृह्यते” इत्याद्यावश्यकटीकायां
१ छद्मस्थो मनुष्य आकुटयमानान् शब्दान् शृणोति तद्यथा शङ्खशब्दान्वा शुषिराणि वा तानि भदन्त किं स्पृष्टानि शणोति अस्पृष्टानि शृणोति । गौतम। स्पृष्टानि शृणोति नो अस्पृष्टानि।
Page #62
--------------------------------------------------------------------------
________________
हरिभद्रसूरिभिः प्रोक्तं सगच्छते॥ इत्थञ्च श्रोत्रस्य प्राप्यकारित्वेन तस्य व्यञ्जनावग्रहो न चक्षुर्मनसोरित्यप्युपपद्यते । तथा चोक्तं चतुश्चत्वारिंशदुत्तरचतुर्दशशतग्रन्थसूत्रणसूत्रधारैः श्रीमद्धरिभद्रसूरिभिः शिष्यहिताख्याया. मावश्यकटीकायां "शब्दादिपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति अयश्च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः अप्राप्तकारित्वादिति ॥एतेन श्री श्रमणसङ्घसमुद्रोत्कर्षेन्दुभिःश्रीमद्यशोविजयवाचकपुङ्गवैरपि व्यञ्जनेन शब्दादिपरिणतद्रव्यनिकुरुम्बेण व्यञ्जनस्य श्रोत्रेन्द्रियादेरवग्रहःसम्बन्धोव्य
जनावग्रह इत्यादिज्ञानबिन्द्राख्यप्रकरणे व्यञ्जनावग्रहव्युत्पत्तियां प्रतिपादिता साऽपिसूपपादा।व्यक्तीकृतश्चैषोऽर्थः द्रव्यलोकप्रकाशेतृतीयसर्गेश्रीविनयविजयोपाध्यायैः, “प्राप्यार्थावच्छेदकत्वात्, श्रवणादीनि जानते। . अङ्गुलासङ्ख्येयभागा-दपि शब्दादिमागतम् ॥१॥ चतुर्णामत एवैषां, व्यञ्जनावग्रहो भवेत्। दृष्टान्तानव्यमृत्पात्र-शयितोद्बोधनात्मकात् ॥२॥ यथा शरावकं नव्यं, नैवैकेनोदबिन्दुना ॥ क्लियते किन्तु भूयोभिः, पतद्भिस्तैर्निरन्तरम् ॥३॥ एवं सुप्तोऽपि नैकेन, शब्देन प्रतिबुद्ध्यते ॥ किन्तु तैः पञ्चषैः कर्णे,शब्दद्रव्य ते सति॥४॥इत्यादि
Page #63
--------------------------------------------------------------------------
________________
(९) अत एव चसामान्यावबोधात्मकस्य दर्शनस्य चक्षुदर्शनाचक्षुर्दर्शने इति भेदो सङ्गच्छते।तथा हि बाह्येन्द्रियस्य चक्षुष एवाप्राप्तकारित्वात्तदर्शनमन्यन्नान्यस्य। ननु सामान्यत इन्द्रियानिन्द्रियजन्यं सामान्यावबोधात्मकं व्यावहारिकमेकमेव दर्शनं स्यात् किं चक्षुर्दर्शनमचक्षुर्दशनमिति विभागेनेति चेत्, न,अवान्तरविशेषद्योतनेन शिष्यमतिव्युत्पत्तिफलत्वात् । न चैवं सतीन्द्रियदर्शनमनिन्द्रियदर्शनमित्येव वाच्यम्, न तु चक्षुर्दर्शनमचक्षुदर्शनमिति, अन्यथान्येन्द्रियजान्यपि तानि चक्षुदर्शनमिव भेदमापद्येरन्निति वाच्यम्। वस्तूनां सामान्यविशेषोभयात्मकत्वात् तत्कीर्तनमपि सामान्यविशेषोभयरूपेणैवेतिशिष्टसमयपरिपालनाय चक्षुर्दर्शनमिति विशेषेणाचक्षुर्दर्शनमिति च सामान्येन दर्शननिर्देशात् । तथा चोक्तं नवाङ्गोटीकाकर्तृभिः पूज्यपादश्रीमदभयदेवसूरिभिः प्रज्ञप्त्याख्यपञ्चमाङ्गस्य प्रथमशतकतृतीयोद्देशकटीकायाम्, “ सामान्यविशेषास्मकत्वावस्तुनः क्वचिद्विशेषतस्तन्निर्देशःक्वचिच्च सामान्यतः,तत्रचक्षुर्दर्शनमिति विशेषतोऽचक्षुर्दर्शनमिति च सामान्यतः” इत्यादि । ननु श्रोत्रदशनमश्रोत्रदनिमित्यादिना प्रकारान्तरेणापि सामान्यविशेषाभ्यां तन्निर्देशसम्भव इति चेत्, सत्यम्। तथापि चक्षुषो
Page #64
--------------------------------------------------------------------------
________________
(१०) प्राप्यकारित्वप्रतिपत्तये चक्षुर्दर्शनमिति विशेषतस्तनिर्देशादरः । अन्येषान्वप्राप्यकारित्वाविशेषेणाचक्षुदर्शनमिति सामान्यतो निर्देशः। मनसस्त्वप्राप्यकारित्वेऽपि तदपेक्षिणः प्राप्यकारीन्द्रियस्य प्रभूतत्वात्तद्दशनस्याचक्षुर्दर्शन एवान्तर्भाव इत्यतः सिद्धं श्रोत्रस्य प्राप्यकारित्वम्॥ तथा चावश्यकनिर्युक्तावप्युक्तं पूज्यः "पुठं सुणेइ सई” इत्यादि।
भणितं च भाष्यकारेण जिनप्रवचनप्रदीपेन जिनभद्रगणिक्षमाश्रमणेन सयुक्तिकम् ,
"पांवंति सद्दगन्धा, ताइं गंतुं सयं न गिण्हन्ति।" - इत्यादि ॥ संवादितश्चायमर्थो रत्नाकरावतारिकायां रत्नप्रभसूरिभिः " एवञ्च प्राप्य एवैष, शब्दः श्रोत्रेण गृह्यते। श्रोत्रस्यापि ततः सिद्धा, निर्बाधा प्राप्यकारिता॥१॥" • अथेह योगाः सङ्गिरन्ते, सुष्ठु श्रोत्रस्य प्राप्यकारित्वं, किन्तु यदुदितं शब्दस्य भाषावगणापरमाणुसमूहत्वेनेति, तन्न सहामहे ॥ तथा हि शब्दो
१ स्पृष्टं शृणोति शब्दम् , २ प्राप्नुतः ( अन्यत आगत्य ) शब्दगन्धौ ते, गत्वा स्वयं (ते शब्दगन्धदेशं शब्दगन्धौ) न गृहणीतः ॥ विशे० गा० २०६॥
Page #65
--------------------------------------------------------------------------
________________
(११) गुणश्चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्, यो यश्चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमान् स स गुपः, यथा स्पर्शः, चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमांश्चायम्, चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वाद्गुणः, इति न्यायेन शब्दस्य गुणत्वसिद्धेरिति चेत्, न, अप्रयोजकत्वात् । अन्यथाऽऽकाशादिवदरूपित्वेनाऽऽत्मनोऽप्यचेतनत्वापत्तिः। न च शब्दस्य परमाणुसमूहत्वे घटादेवि चाक्षुषस्पार्शनापत्तिरिति वाच्यम्। तस्य सूक्ष्मपरिणामपरिणतत्वेन चक्षुःस्पर्शनायोग्यत्वात्। न चैवं श्रावणमपि माभूदिति वाच्यम्। अन्येन्द्रियगणाच्छ्रोत्रस्य प्रायः पटुतरत्वेन भाषापरिणतानां सूक्ष्माणामपि तेषां तद्ग्रहणयोग्यत्वात् । तथोक्तं भवविरहसूरिभिः शिष्यहितायामावश्यकवृत्ता “ तस्य (शब्दस्य) सूक्ष्मत्वाद्भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रस्य चान्येन्द्रियगणात् प्रायः पटुतरत्वात् स्पष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णातीत्यादि"॥ भणितमिदमर्थतः शब्दग्रहणप्रक्रियाप्रदर्शनद्वारा लोकप्रकाशे विनयविजयोपाध्यायैरपि, “ स्पर्शादिद्रव्यसङ्घाता-पेक्षया द्रव्यसंहतिः। बह्वी सूक्ष्मासन्नशब्द-योग्यद्रव्याभिवासिका ॥१॥
Page #66
--------------------------------------------------------------------------
________________
(१२) तन्निवृतीन्द्रियस्यान्त-र्गत्वोपकरणेन्द्रियम् ॥ स्पृष्ट्वापि सद्यः कुरुते-भिव्यक्ति सा स्वगाचराम्॥२॥ अन्येन्द्रियापेक्षया च, श्रवणं पटुशक्तिकम् ॥ ततः स्पृष्टानेव शब्दान्, गृह्णातीत्युचितं जगुः॥३॥"
न च श्रोत्रेन्द्रियं द्रव्याग्राहकं रूपस्पशाग्राहकबहिरिन्द्रियत्वाद्रसनावदित्यनेनार्थतः शब्दस्य द्रव्यत्वे प्रतिक्षिप्ते क्रियात्वादेरसम्भवेन गुणत्वसिद्धिरिति साम्प्रतम्।शब्दो द्रव्यं क्रियावत्त्वात् इत्यनुमानेन द्रव्यत्वसिद्धेः श्रोत्रसंयोगेनैव तद्ग्रहात् पूर्वोक्तानुमानस्याप्रयोजकत्वात्, न च शब्द क्रियावत्त्वासिद्धिः, संहरणवायुवहनादिना तत्सिद्धेः । तथा चोक्तं तत्त्वार्थटीकायां सिद्धसेनगणिभिः। “स चायाति श्रोत्रदेशमाशु पुद्गलमयत्वे सति सक्रियत्वात्, सक्रियत्वं वायुनोहह्यमानत्वाद् धूमस्येव, गृहादिषु पिण्डीभवनात्, विशेषतश्च द्वारानुविधानात् तोयवत्,प्रतिघाताच्च नितम्बादिषु वायुवत् ” इत्यादि, आह च भाष्यसुधाम्भोनिधिभगवाञ्जिनभद्रगणिक्षमाश्रमणो गन्धशब्दयोर्घाणश्रवणदेशप्राप्त्या हेतुत्वप्रतिपादनमिषेण तयोः पुद्गलमयत्वसाधनप्रसङ्गे।
Page #67
--------------------------------------------------------------------------
________________
(१३) “ज' ते पोग्गलमइया, सक्किरिया वायुवहणाओ। धूमो व्व संहरणओ, दाराणुविहाणओ विसेसेणं ॥ तोयं व णितंबाइसु, पडिघायाओ अ वाउव्वत्ति॥१॥" उक्तश्चायमों विनयविजयोपाध्यायैरपि, “गन्धादिद्रव्यवहाता-नुकूल्येन प्रसर्पणात्" इत्यादि। तथा च शब्दः क्रियावान् संहरणादिमत्त्वात् इत्याद्यनुमानतःप्रत्यक्षतोऽपि चागतोऽयं शब्द इत्यादिना क्रियावत्त्वसिद्धेः । न च तत्प्रयोजकवायुसंहरणान्नोक्तप्रक्रिया सङ्गच्छत इति वाच्यम्, मृदङ्गध्वन्यादिषु वायोरनुपलम्भात्तत्प्रतिध्वनेरनुपपत्तेः, स्त्रीपुंनपुंसकोच्चरितशब्दप्रतिध्वनिषु वैजात्यानुपपत्तेश्चेत्यादिक बहुतरमूड्नीयम् तत्तु वक्ष्यत उत्तरत्र इहैव । न च वायवौपाधिक्येव शब्दे गतिरनुभूयमानेति वाच्यम् । आगतेयमिन्द्रनीलप्रभेत्यादिवत्तस्या औपाधिकोत्वासम्भवात् । किञ्च शब्दे क्रियानभ्युपगमे तस्य श्रावणमप्यनुपपन्नं शब्दस्य तत्रानागतेःश्रोत्रस्य च शब्ददेशेऽगमनात् । तथा चोक्तं महामहोपाध्यायन्यायविशारदन्यायाचार्यभगवद्यशोविजयवाचकैस्स्वकृतन्यायालोके प्रथमप्रकाश आत्मविभुत्वखण्डने “ अन्यथा
१ यत्तौ ( गन्धशब्दो) पुदालमयो, सक्रियौ वायुवहनात् ॥ धूमवत्संहरणतः (गृहादिषु पिण्डीभवनात्) द्वारानुविधानतो विशेपण ॥ तोयवत् नितम्बादिः (गिरिगुहादिषु) प्रतिघातात् वायुवदिति ॥ विश० गा० २०६, २०७॥
Page #68
--------------------------------------------------------------------------
________________
(शब्दक्रियाभावे) श्रोत्रेण शब्दग्रहणं न स्यात् तस्य शब्ददेशेऽगमनात् गमने वाऽवान्तरालवर्तिशब्दानामपि ग्रहणप्रसङ्गात् अनुवातप्रतिवाततिर्यग्वातेषु च प्रतिपत्त्यप्रतिपत्तीषत्प्रतिपत्तिभेदाभावप्रसङ्गाच्च तस्य तत्कृतोपकाराद्ययोगात्। न च भेाद्यवच्छेदेन जनितेनाद्यशब्देन निमित्तपवनतारतम्यातारतम्ये कदम्बगोकलकवीचीतरङ्गन्यायेन जनितेष्वनुपरिपाटीतः कप्रदेशप्राप्तेषु शब्देषु नानुपपत्तिः श्रावणस्येति साम्प्रतम् । चापमुक्तबाणसमानजातीयैः प्रतिक्षणप्रभवैरन्यैरेव लक्ष्यप्राप्तिरिति ब्रुवतः शाक्यस्यापि प्रामाणिकत्वापत्तेः। एतेन “आद्यशब्देन बहिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तेनैव शब्देन जन्यते तेन चापरः एवं क्रमेण श्रोत्रोत्पन्नो गृह्यते इत्यादि” तथा“वीचीतरङ्गन्यायेन, तदुत्पत्तिस्तु कीर्तिता ॥ कदम्बगोलकन्याया-दुत्पत्तिः कस्यचिन्मते ॥१॥"
इति विश्वनाथपञ्चाननवचो “भेयादिदेशमारभ्य द्वितीयादिशब्दाः शब्दजा” इति तर्कसङ्ग्रहदीपिकाकारवचनमपि व्युदस्तम् ॥ वस्तुतस्तु शब्दस्य द्रव्यत्वे श्रोत्रसंयोगेनैव तद्ग्रहोत्पत्ताबुक्तगौरवाङ्गीकारे प्रमाणाभावान च स एवायं बोण इत्यादि प्रत्यभिज्ञानाद् बाणादावेकत्वसिद्धिः, स एवायं क इत्यादिरूपा
Page #69
--------------------------------------------------------------------------
________________
(१५) शब्देऽपि सा निरावाधैव । तथा च सुष्ठक्तं श्रीमद्यशोविजयवाचकैः “स एवायं शब्दो यमुदचीचरच्चैत्र इत्यत्रापि हि प्रत्यभिज्ञानमबाधितमेवेति ।” एतेन “सोऽयं क इति बुद्धिस्तु, साजात्यमवलम्बते” इति मुक्तावलीकारवचोऽप्यपास्तम्। न च तीव्रमन्दादिभेदेन शब्दभेद इति वक्तव्यम्। एकस्यैव शब्दस्य निकटदूरदरतरे तीव्रमन्दमन्दतरपरिणते। तथा चोक्तं लोकप्रकाशे, “शब्दादीनां पुद्गला ये, परतः स्युः समागताः। तथामन्दपरीगामा-स्ते जायन्ते स्वभावतः ॥१॥"
इतिाननु तीव्रत्वमन्दत्वयोविरूद्धयोरेकत्र निवेशोऽनुपपन्न इति चेत् । न । विरुद्धयो रक्तनीलरूपयोघंट इवोपपत्तेः। न च तत्र भिन्नकालावच्छेदेन तयोर्वर्तनान्न विरोधः, प्रकृतेऽपि तथैवेति किं नाभ्युपगम्यते॥ किञ्चैकस्मिन्नपि पुरुषे पित्रपेक्षया पुत्रत्वस्य पुत्रापेक्षया पितृत्वस्य च दर्शनादनेकान्तवादे वस्तूनामनन्तधर्मात्मकत्वादेककालावच्छेदेनापि मन्दतीत्रशब्दापेक्षया तीवस्वमन्दत्ववृत्तिरविरुद्धैव ॥ वस्तुतस्तु यच्छब्दे नोक्तभेदस्तच्छब्दस्यैक्येन श्रोत्रप्राप्तेरभावाच्छ्रावणत्वाभावप्रसङ्गः ॥ न च श्रोत्रं चक्षुराद्यतिरिक्तमिन्द्रियम् इन्द्रियान्तरा
Page #70
--------------------------------------------------------------------------
________________
(१६) ग्राह्यगुणग्राहकत्वादिति शब्दे गुणत्वसिद्धिः, हेतो गुणपदप्रवेशस्याप्रयोजकत्वाद्गौरवकरवाच, शब्दोऽपौद्गलिकःअतिनिबिडप्रदेशप्रवेशनिर्गमयोरप्रतिघाताद् गन्धवत्, इत्यपोद्गलिकत्वसिद्धिः इत्यप्यतितुच्छम्, श्रोत्रप्राप्यकारित्वस्थापनायां वस्तुतस्वित्यादिना समाहितत्वात्, आश्रयं विना गुणानां गतेरशक्यत्वेन दृष्टान्तासिद्धेः, साश्रयाणां गमने वा तदाश्रयेणैव व्यभिचाराच्च । तथाहि-वय॑मानजात्यकस्तूरिकादिगन्धद्रव्यं हि पिहितद्वारापवरकस्यान्तर्विशति बहिश्च नियति न चापोद्गलिकः, न चापवरकादौ सूक्ष्मरन्ध्रसम्भवान्नातिनिविडप्रदेशत्वमतो गन्धद्रव्यप्रवेशनिष्क्रमौ, कथमन्यथोद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वं सवथा नीरन्ध्रेऽपवरकादौ तु न प्रवेशनिर्गमयोः सम्भव इति साम्प्रतम् । शब्देऽपि तुल्ययोगक्षेमत्वात् । न चाकाशादिवत् पूर्व पश्चाच्चावयवानुपलब्धेरपौगलिकस्वसिद्धिरिति वाच्यम्, यद्यपि सूक्ष्मपरिणामपरिणतानां तेषाश्चमंचक्षुषामवयवोपलब्धेरभावस्तथाप्यतिशायिज्ञानवतां तत्सम्भवेन साधनासिद्धेः परमाण्वादिनोल्कादिनाउनैकान्तिकत्वाच्च। न चापोद्गलिकत्वस्य पुद्गलसमवायिकारणकत्वाभाववत्त्वमित्यर्थे कथं परमाणा व्यभिचारः, छ्यणुकादा तदापत्तेः । न च योग्यत्वनिवे
Page #71
--------------------------------------------------------------------------
________________
( १७ )
शे सोऽपि कथम्, तथा सति त्रसरेणैौ तु स निर्वाध एव । किञ्चावयवानुपलब्धेरित्यस्य स्वावयवानुपलब्धेरिति पर्यवसितत्वेनाकाशस्यावयवाभावेन तदुपलब्ध्यप्रसिद्धया तदभावस्यापि सुतरामसिद्धेर्दृष्टान्तासिद्धिः। ननु व्यतिरेकदृष्टान्तेन साधने कथं सेति चेत्, न, अप्रयोजकत्वात् । ननु निरुपाधिकत्वमेव प्रयोजक मस्त्विति चेत्, न, अमूर्त्तत्वस्यैव तत्त्वात्, तथा हि साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः, स च प्रकृतेऽपि अपौगलिकेषु आत्मादिषु सत्त्वात् साधनवत्सु शब्दोल्कादिषु चासत्वान्निराबाध एव । सूक्ष्ममूतीन्तराप्रेरकत्वाच्छब्दस्य गन्धादिवदपौद्गलिकत्वसि - द्धिरित्यप्यसाम्प्रतम्, अप्रयोजकत्वाद्धूमसूक्ष्मरजोगन्धद्रव्यादिभिर्व्यभिचाराच्च । नहि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशो द्भिन्नस्मथुप्रेरकं दृश्यते । शब्दस्य गगनगुणत्वात् तत्सिद्धिरिति चेत्, न, गुणत्वासिद्ध्या शब्दो न गगनगुणः अस्मदादिप्रत्यक्षत्वाद्रूपवदित्याद्यनुमानेन च स्वरूपासिद्धेरप्रयोजकवाच्च । एतेन
“ आकाशस्य तु विज्ञेयः, शब्दो वैशेषिको गुणः इति विश्वनाथभट्टाचार्यवचोऽप्यपास्तम् । स्पर्शशून्याश्रयत्वेन तत्सिद्धिरिति तु मन्दम्, शब्दाश्रयभू
""
Page #72
--------------------------------------------------------------------------
________________
(१८) ताया भाषावर्गणायस्स्पर्शवत्त्वेन स्वरूपासिद्धेरनुकूलतर्काभावाच्च । तथा च स्याद्वादमञ्जरीटीकाकारैमल्लिषेणसूरिभिरप्युक्तम्- “शब्दपर्यायस्याश्रयो भा. षावर्गणा न पुनराकाशं, तत्र च स्पर्शो निर्णीयत एव, यथा, शब्दाश्रयः स्पर्शवाननुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धद्रव्याधारद्रव्यपरमाणुवत्” इत्यादि। न चस्पर्शवत्वे तत्स्पर्शस्य स्पार्शनापत्तिः, सिंहावलोकनन्यायेन विलोक्यतां तावत्तदाश्रयस्य सूक्ष्मपरिणामपरिणतत्वात् त्रसरेणोरिव स्पर्शनायोग्यत्वात् तत्स्पर्शस्याप्ययोग्यत्वेन तदुपपत्तेः। अनुमया तु स्पर्शवत्त्वं शब्दस्य सिद्धमेव। तथाहि।शब्दः स्पर्शवान् स्वसम्बद्धार्थान्तराभिघातहेतुत्वादण्डादिवत् । झरुल्लादिध्वनिविशेषाभिसम्बन्धेन श्रोत्राभिघातः प्रतीत एव तजन्यवाधिर्याद्युपलम्भेन। स्पर्शशून्यत्वे च शब्दस्य कालाकाशाभिसम्बन्धवच्छब्दाभिसम्बन्धेपिनासावुपलभ्येत। शब्दसहचरितेन पवनेनैवाभिघात इति तु न।अन्वयव्यतिरेकाभ्यां शब्दाभिसम्बन्धस्यैव तद्धेतुत्वसिद्धेः। अतो पि तस्य द्रव्यत्वसिद्धिः। शब्दस्य स्पर्शवत्त्वे तदाश्रयस्य तद्वत्त्वं सुतरां स्थितमेव ॥ किञ्च किमिदमाश्रयत्वं संयोगेन तादात्म्येन वा, आये गगनसंयुक्तघटादौ व्यभिचारः।
Page #73
--------------------------------------------------------------------------
________________
(१९) ननु वृत्त्यनियामकसम्बन्धेनाश्रयत्वस्यास्वीकारात् कथं व्यभिचार इति चेत्, तथा सति हेत्वसिद्धिरेव । अन्त्ये च भेदाभेदाङ्गीकारे स्याहादापत्तिः।न च समवायेनेति कथं तदापत्तिः, भिन्नाभिन्नेत्यादिविकल्पतस्तदनुपपत्तेस्तदङ्गीकारे प्रमाणाभावात् । किञ्च गगनाश्रयस्वेन शब्दस्य गुणत्वे सर्वस्य सर्वशब्दग्रहणापत्तिस्सनिकर्षाविशेषात्, न च कर्णशष्कुल्यवच्छेदेनोत्पन्नो गृह्यते इति साम्प्रतम्, अवच्छेद्यस्याऽऽकाशत्वेनाविशेषात्, तदन्यत्वे शब्दस्य तत्रासमवायादनायासादेव द्रव्यत्वसिद्धिः । न च तत्तत्पुरुषीयादिघटितभिन्नभिनसन्निकर्षाभ्युपगमेन न साऽऽपत्तिरिति साम्प्रतम् , द्रव्यत्वे संयोगेनैवोपपत्तौ तादृशमहागौरवाङ्गीकारे प्रमाणाभावात् । एतेन “शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः कारणम्” इतिवचोऽप्यवगणितम् । ननु शब्दो विभुद्रव्यं मूर्त वा, आधे सर्वेषामपि ग्रहणापत्तिः, मूतद्रव्यत्वे च मूर्त्तद्रव्यप्रत्यक्षं प्रत्युद्भूतरूपस्य कारणत्वान्न तच्छ्रावणमिति चेत्, न, मूर्त्तद्रव्यप्रत्यक्ष प्रति योग्यताविशेषस्यैव हेतुत्वात्। तथा चोक्तम्भव्यजनमनोमयूरवारिदैः श्रीमद्यशोविजयवाचकैः॥
"द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति योग्यताविशेषस्यैव हेतुत्वात् । स च व्यावृत्तिविशेषः शक्तिविशेषो वा”
Page #74
--------------------------------------------------------------------------
________________
( २० )
इत्यादि । अत एव " तस्मादयः शब्दो यं प्रति योग्यः स तेन गृह्यते नान्य" इति तत्वचिन्तामणिवचोऽपि सङ्गच्छते ॥ किञ्च महत्त्वात्पत्वपरिमाणवत्त्वाच्छब्दस्य द्रव्यत्वम् । न च शब्देयत्ताया अप्रत्यक्षत्वेन तत्परमाणासिद्धिः, वायाविव शब्दे तस्याप्रयोजकत्वात् । वस्तुतस्तु तस्य सूक्ष्मपरिणामपरिणतत्वेनास्मदादीनां प्रत्यक्षासम्भवेऽपि विश्ववेदिनां तत्सिद्धेः । न च तीव्रत्वमन्दत्वाभ्यां तदुपपत्तिः, शब्दगुणत्वासिद्धया तयोगुणगतजातित्वासिद्धेः, तीत्रत्वमन्दत्वाभ्यां महत्त्वाल्पवप्रत्यये च तीव्रवाहिन्या गिरिसरितो महत्त्वस्य मन्दवाहिन्या गङ्गायाश्चाल्पत्वस्य प्रसक्तेः । न च कारणगतमहत्त्वात्पत्वप्रत्ययः, तथा सति भवन्मते तत्समवायिकारणस्याकाशस्य परममहत्त्वेन सर्वेषामपि तथाधीप्रसङ्गः, मूर्त्तकारणगताल्पत्व महत्त्वप्रत्ययेऽप्यन्यत्र तथापत्तिश्च । किञ्च एकत्वादिसङ्ख्यावत्त्वादपि शब्दस्य द्रव्यत्वम् । न च गगनगतसङ्ख्योपचारः, नियमादेकत्वप्रसक्तेः । वाय्वादिकारणगतसङ्ख्यासम्बन्धित्वमपि न युक्तियुक्तम्, बहुत्वस्यैव सर्वदा भानप्रसङ्गात्, यथा यथासङ्ख्याप्रतीतिस्तथा तथा कारणगतसङ्ख्योपचा र इत्यपि न युक्तम्, शब्दस्य द्रव्यत्वेन स्वयं सङ्ख्याव - त्त्वात् तथोपचारे मानाभावादन्यत्रापि तथापत्तेश्च ।
Page #75
--------------------------------------------------------------------------
________________
(२१) अत्राहुरुच्छ्रङ्खलनैयायिकाः, शब्दस्य गगनाश्रयत्वे सवयाविरोधादिदोषाहायुगुण एव शब्दः॥ तथाहि शब्दो वायुगुणः तन्नाशादेव तन्नाशात् वायुस्पर्शवदिति चेत्, मैवं, पूर्वोक्तयुक्त्या गुणत्वासिद्धया वायुगुणत्वस्यापि सुतरामसिद्धेः, वायोः सत्त्वेऽप्यनुपलभ्यमानत्वेन स्वरूपासिद्धेः, एजनादिनाऽनैकान्तिकत्वाच्च । अपि च पवनगुणत्वे तत्स्पर्शस्येव स्पार्शनप्रसङ्गः। ननु रसरूपादीनामिव शब्दस्य स्पार्शनप्रतिबन्धकत्वमिति चेत्, मानाभावात्, कल्पनागौरवाच्च, गुणचाक्षुषजनकतावच्छेदकजात्या सह साङ्कर्यात् गुणस्पार्शनजनकतावच्छेदकजातेरप्यसिद्धिः, तथा चोक्तं भविकपद्मविबोधनभास्करैायविशारदैर्यशोविजयवाचकपुङ्गवैः,“शब्दे गुणस्पार्शनजनकतावच्छेदकजात्यभावान्न दोष इति चेत्, न, तादृशजातेरसिद्धेर्गुणचाक्षुषजनकतावच्छेदिकया साङ्कर्यादिति दिग्” इत्यादि। तथा च न वायोगुणः शब्दः। तथैवोक्तं मुक्तावलीकारेण विश्वनाथपश्चाननेनापि " न च सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यम् । अयावद्रव्यभावित्वेन वायुविशेषगुणत्वाभावात्" इत्यादि ॥ किश्च मूर्तत्वादेव नाकाशगुणः शब्दः, यो हि यद्गुणः स तत्समानधर्मा, यथा ज्ञानमात्मनः, तथाह्य
Page #76
--------------------------------------------------------------------------
________________
(२२) मूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्तमेवेति, एवं शब्दोऽपि यद्याकाशगुणस्तर्हि तस्यामूर्तत्वाच्छब्दस्यापि तद्गुणत्वेनामूर्तताप्रसङ्गः, तथा च भणितं शीलागाचार्यपादैः सूत्रकृताख्यद्वितीयाङवृत्तौ "शब्दश्चाकाशस्य गुण एव न भवति तस्य पौगलिकत्वादाकाशस्य चामूर्तत्वात्” इत्यादि। न चेदं नीतिसङ्गतम् ,अमूतत्वलक्षणायोगात् । तथाहि मूर्तिविरहो ह्यमूर्त्तता । नन्वभीष्टमेव तस्यामूर्तत्वमिति चेत्, न, तत्र शब्दे स्पर्शवत्वेन मूर्ततायास्सिद्धत्वात् । तथाहि स्पर्शवन्तः शब्दाः तत्सम्पर्के उपघातदर्शनाल्लोष्ठुवत्, न चात्रासिद्धिदोषदुष्टो हेतुः, यतस्तत्कालजन्मिनो बालस्य कर्णस्थानसन्निधौ गाढास्फालितझल्लादिध्वनिभिः श्रोवस्फोटो दृश्यते, तथा चोक्तमावश्यकवृत्तौ मलयगिरिपूज्यैः "दृश्यते हि सद्योजातबालकानां कर्णदेशाभ्यर्ण गाढास्फालितझल्लरीझणत्कारश्रवणतः श्रवग्रस्फोटः” इत्यादि, न चेत्थं श्रवणस्फोटादिरूपोपघातकृत्त्वमस्पर्शवत्वे सति सम्भवति यथा नभसः, ततो विपक्षावृत्तित्वात् न व्यभिचारित्वमपि हेतोः। एवञ्चाभिघातादिनापि स्पर्शवत्वं शब्दस्य । तथा हि, शब्दाः स्पर्शवन्तः अभिघाते गिरिगह्वरादिषु शब्दोत्थानात् उपलखण्डवत्, वादिप्रतिवादिनोरुभयोरपि सिद्धोऽयं
Page #77
--------------------------------------------------------------------------
________________
(२३) हेतुः, तथा हि अतिप्रयासशब्दितशब्दाभिघातादिना गिरिगह्वरादिषु प्रतिदिशं प्रसरन्तःशब्दाःसञ्जायमानाः शृणुमो वयम्, ततः स्पर्शवत्त्वान्मूर्ती एवेति सिद्धम् , "रूपस्पर्शादिसन्निवेशो मूर्तिः, इति वचनात्॥ रूपस्पशादिसन्निवेशो युपपत्तितः वक्ष्याम्यनन्तरमिहैव॥ किञ्चाकाशमेकमने वा, यद्याद्यः पक्षः, तार्ह लक्षयोजनतोऽपि शब्दश्रवणं स्यात्, आकाशस्यैकत्वाच्छब्दस्य च तद्गुणत्वान्निकटदरादिभेदाभावात् ॥ यदोदीचीनो विकल्पः, तदा तु वदनदेशस्थितशब्दस्यान्यनभोवर्तिनः श्रोतुः कथं श्रवणं, वदनदेशाकाशगुणतयाशब्दस्य श्रोतृगतश्रोत्रेन्द्रियाकाशसम्बन्धाभावात्, अतोऽपि न युक्तिमच्छब्दस्याम्बरगुणत्वम् ॥ नन्वाकाशगुणत्वानभ्युपगमे शब्दस्य स्थितिरेव नोपपद्यते, पदार्थमात्रेण चावश्यमेव स्थितिमता भवितव्यम्, तत्र रूपरसगन्धस्पर्शानां पृथिव्यादिभूतचतुष्टयमेवाश्रयः, शब्दस्य तु तदाश्रयत्वानुपपत्त्या आकाशाश्रयत्वं सिछ्यति, ततश्चाम्बरगुणः शब्द इति । तदप्यचारु, एवंसति पृथिव्यप्तेजोवाय्वादिसर्वद्रव्याणामप्याकाशाश्रयत्वेन तद्गुणत्वप्रसङ्गः । तथा च सति आकाशद्रव्याद्वैतवादः समजनि नव्यः। नचाश्रयणमात्रं न तद्गुणत्वप्रयोजकं किन्तु समवायः स चास्ति ध्वनेरम्बरे
Page #78
--------------------------------------------------------------------------
________________
(२४) सम्बन्धो न तु क्षित्यादीनां तथा । ननु कोऽयं समवायः । परस्परमेकीभावेनावस्थानं यथा पृथ्वीजलादिभिः सह रूपरसादीनामिति चेत्, न, शब्दस्याम्बरगुणत्वासिद्ध्या तेन सह ध्वनेर्लोलीभावेनावस्थानाप्रतीतेः । किश्च समवायस्य सम्बन्धत्वमप्यनुपपन्नमित्यादि सिंहावलोकनेन विलोक्यताम् । अथाकाश उ. पलभ्यमानत्वात्तद्गुणता शब्दस्येत्यप्यपरिपेशलम् । एवं सति अर्कतुलकादीनामम्बर उपलभ्यमानत्वात् तद्गुणत्वासक्तिः। अथार्कतूलकादीनां परमार्थतो भू. म्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि परमार्थत: स्थानं श्रोत्रादि यत्पुनराकाशेऽवस्थानोपलम्भस्तद्वायुना सञ्चायमाणत्वात्, तथाहि यतो यतो वायु:सञ्चरति ततस्ततः शब्दोऽपि गच्छति ॥ उक्तश्च प्रज्ञाकरगुप्तेन॥ यथा च प्रेर्यते तूल-माकाशे मातरिश्वना ॥ तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित्॥१॥
न च तथापि श्रोत्रग्राह्यत्वेन तदाश्रितत्वाच्छब्दस्य श्रोत्रस्य चाकाशरूपत्वात् तद्गुणः शब्द इति साम्प्रतम्। श्रोत्रस्य गगनात्मकत्वे गगनस्य सर्वत्राविशेषाद्वाधिर्याद्यभावप्रसङ्गात्। एतेन “आकाश एकएव सन्नपि उपाधेः कर्णशष्कुलीभेदाद्भिन्नं श्रोत्रात्मकं
Page #79
--------------------------------------------------------------------------
________________
(२५)
भवति" इति सिद्धान्तमुक्तावलीकृद्वचःकर्णशष्कुलोविवरावच्छिन्नेश्वरस्यैव श्रोत्रत्वम्” इति शिरोमणिकृन्मतं चापहस्तितम् । न चाकाशस्यान्यथानुपपत्त्या तद्गुणत्वकल्पनं, तथाहि शब्दो द्रव्यसमवेतो गुणत्वात् संयोगवत्, इति द्रव्यसमवेतत्वे सिद्धे शब्दो नस्पर्शवद्रव्यसमवेतः, न दिकालमनःसमवेतः, नात्मसमवेतः,अग्निसंयोगासमवायिकारणकत्वाभावे सत्यकारणगुणपूर्वकप्रत्यक्षत्वात् सुखवत, विशेषगुणत्वाद्रपवत, बहिरिन्द्रियग्राह्यत्वात् स्पर्शवदिति अनन्यसमवेतत्वाच्छब्दस्य गगनसमवेतत्वं परिशेषानुमानेन कल्प्यत इति वाच्यम् । प्रथमतृतीययोर्गुणत्वासिङ्ख्या स्वरूपासिद्धेद्वितीयतुर्ययोश्चाप्रयोजकत्वात् । एतेन शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिद्धयतीति वचश्शब्दगुणकमाकाशमिति वचश्चाप्यपास्तम् । ननु तर्हि आकाशे प्रत्यक्षत्वप्रयोजकोद्भूतरूपाभावात् प्रत्यक्षत्वासम्भवेन किं मानमिति चेत्, अनुमानमेव, तथाहि द्रव्याणि साश्रयाणि द्रव्यत्ववत्त्वादित्यादि, न च भूतलादीनां घटाद्याधारत्वेनैवोपपत्ता, उमन्यगवेषणयेति वाच्यम् । अदृश्यमानपरमाण्वाद्याधारतयेकस्यैव तस्य सिद्धेः । तथा चोक्तं प्रशतिपञ्चमाले प्रयोदशशतकचतुथोंदेशके “ आगासथिकाएणं भंते जीवाणं अजीवाण य
Page #80
--------------------------------------------------------------------------
________________
(२६) कि पवतंति, गोयमा, आगासस्थिकाएणं जीबदव्वाण य अजीवदव्वाण य भायणभूए, एगेण वि से पुण्णे, दोहिं वि पुण्णे, सयं पि माएज्जा, कोडिसएणं वि पुण्णे, कोडिसहस्सं पि माएज्जा, अवगाहणालक्खणेणं आगासत्थिकाए” इत्यादि, अयमस्यालापकस्यार्थः, भगवान् गौतमस्वामी श्रुतकेवली चतुर्दशपूर्वविद्द्वादशाङ्गप्रणेता सर्वाक्षरसन्निपाती तीर्थकरभाषित. मातृकापदश्रवणमात्रावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमो विवक्षितार्थपरिज्ञानसमन्वितोऽपि स्ववचसि शिष्यप्रत्यायनार्थ गणधरप्रश्नतीर्थकरनिर्वचनरूपत्वात् सूत्रस्येति सूत्रणार्थ, नहि नामानाभोग-श्छद्मस्थस्येह कस्यचिन्नास्ति ॥ ज्ञानावरणीयं हि, ज्ञानावरणप्रकृतिकर्म ॥१॥ इति न्यायाच्छद्मस्थस्यापि स्वस्यानाभोगसम्भवादा भगवते श्रीमते महावीरस्वामिने काश्यपाय ज्ञातसू. नवे केवलालोकबलावलोकितलोकालोकार्थभावाय परमर्षये पप्रच्छ, आकाशास्तिकायः आङिति मर्यादया स्वस्वभावापरित्यागरूपतया काशन्ते स्वरूपेणावभासन्ते यस्मिन् व्यवस्थिता: पदार्थाः तदाकाशं, यदा त्व. भिविधावाङ्, तदा आङिति सर्वभावाभिव्याप्त्याकाशते इत्याकाशम् , अस्तयः प्रदेशाः, तेषां काय: सङ्घातः .. " गणकाए य निकाये खंधे वग्गे तहेव रासीय "
१ गणः कायश्च निकायः स्कन्धो वर्गस्तथैव राशिश्च ।
Page #81
--------------------------------------------------------------------------
________________
(२७ ( इति वचनात् अस्तिकायः प्रदेशसङ्घात इत्यर्थः, आकाशश्च तदस्तिकायश्चाकाशास्तिकायस्तेनाकाशास्तिकायेन, भदन्त इति परमगुर्वामन्त्रणं,जीवन्ति प्राणान्धारयन्तीति जीवास्तेषां जीवानां, जीवाश्चेतनावन्तस्तविपरीता अजीवास्तेषामजीवानां, चःसमुच्चये, किमिति स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मेण धमिज्ञानविषयिणीच्छा किमोऽर्थः, प्रवर्त्तते,भगवानाह'गोयमा' इति कोमलामन्त्रणे गौतम, आकाशास्तिकायः जीवद्रव्याणां चाजीवद्रव्याणां च भाजनभूतः, अनेन इदमुक्तं भवति सत्यस्मिजीवादीनामवगाहः प्रवर्तते एतस्यैव प्रनितत्वादिति, भाजनभावमेवास्य दर्शयन्नाह-एगेण वि' इत्यादि, एकेन परमाण्वादिना, 'सेत्ति'असौ आकाशास्तिकायप्रदेश इति गम्यते, पूर्णो भृतः, तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः,शतमपि मायादेकस्मिन्प्रदेशे, कोटिशतेनापि पूर्णोऽसावस्ति, एवं कोटिशतसहस्नमपि मायात् । ननु कथमेतदुच्यते यत्र एकोऽणुर्माति तत्र द्वौ शतं सहस्राण्यपि मायादिति चेत्, न, पुद्गलानां परिणामस्य विचित्रत्वात्, यथाऽपवरकाकाशमेकप्रदीपप्रभापटलेनापि पूर्यते द्वितीयमपि प्रभापटलं तत्र माति यावच्छतमपि तेषां तत्र माति । ननु मूर्तयोः समानदेशविरुद्धत्वमिति न्यायात् एकत्र
Page #82
--------------------------------------------------------------------------
________________
(२८) प्रदेशे द्वयोरण्वोवृत्तिरेव विरुद्धयते, तथा च कथमेकः द्वाभ्यां पूर्ण इत्यादीति चेत्, न, विहितोत्तरत्वात्, अत एव च तन्न्यायस्याप्रामाण्यं, कथमन्यथा तत्प्रा. माण्यमङ्गीकुर्वतां यौगानामवयविनि पाकः । न चावयविनाऽवष्टब्धेषु अवयवेषु पाको न सम्भवति, किन्तु वह्निसंयोगेनावयवेषु विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः, पुनश्च पक्वपरमाणुसंयोगाद्वयणुकादिक्रमेण महावयविपर्यन्तमुत्पत्तिः, तेजसामतिशयितवेगवशात् पूर्वव्यहनाशो झटितिव्यहान्तरोत्पत्तिश्चेति अतःसम्भाव्यते परमाणावेव पाक इति वाच्यम्,अवयविनां सच्छिद्रत्वादः सूक्ष्मावयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेष्वपि पाकस्याविरुद्धत्वात्, न च मूर्तयोः समानदेशताविरोध इति वाच्यम्, अनन्तावयवितन्नाशकल्पने गौरवात्सोऽयं घट इति प्रत्यभिज्ञाप्रतीतेश्च न्यायस्याप्रामाणिकत्वात्। वस्तुतस्तु आकाशस्यावगाहस्वभावत्वान्न किश्चिदपि विरुद्धयते, यथैकस्यापि परोपकारिण उपकार्यकसद्भावे एकस्यैवोपकारकत्वं हयसत्त्वे द्वयोरपि शतसत्वे शतस्य सहस्रसत्त्वे सहस्रस्यापि, यथा वा एकस्मिन् पारदकर्षके मणिमन्त्रौषध्यादीनामचिन्त्यः प्रभाव इति न्यायात् औषधिविशेषप्रभावतः शतमपि स्वर्णकर्षकाणि मायात् न पुनर्मानावगाहनयोवृद्धिः
Page #83
--------------------------------------------------------------------------
________________
(२९) प्रतिपक्षौषधिसद्भावे विपर्ययोऽपि स्यादतो न कश्चिदोषः, विशेषार्थिना भगवतीवृत्तिरवलोकनीया। प्रतिपादितश्चाकाशास्तिकायः पूर्वसूरिभिरपि श्यामाचार्यः प्रज्ञापनाप्रथमपदे " से किं तं अरूबीअजीवपन्नवणा, अरूवीअजीवपन्नवणा दसविहा पन्नत्ता, तं जहा-धम्मस्थिकाए १ धम्मत्थिकायस्स देसे २ धम्मत्थिकायस्स पदेसा ३ एवं अधम्मत्थिकाए १ अधम्मत्थिकायस्स देसे २ अधम्मत्थिकायस्स पदेसा ३ एवं आगासथिकाए १ आगासस्थिकायस्स देसे २ आगासत्थिकायस्स पदेसा ३ अद्धासमए य"। तथा “जीवानां पुद्गलानाञ्च, धर्माधर्मास्तिकाययोः । बादराणां घटो यह-दाकाशमवकाशदम् ॥१॥ धर्मादीनां वृत्ति-द्रव्याणां यत्र भवति तत्क्षेत्रम्। तैद्रव्यैः सह लोक-स्तविपरीतं ह्यलोकाख्यम् ॥२॥
इत्यादीनि पूर्वर्षिवचनान्यपि तत्सिद्धिप्रतिपादकानि। वस्तुतस्त्वस्मदादीनां योग्यताविशेषाभावात् त
१ अथ का सा अरूप्यजीवप्रज्ञापना। अरूप्यजीवप्रज्ञापना दशविधा प्रज्ञप्ता, तद्यथा। धर्मास्तिकायः१ धर्मास्तिकायस्य देशः २ धर्मास्तिकायस्य प्रदेशाः३ अधर्मास्तिकायः४ अधर्मास्तिकायस्य देशः ५ अधर्मास्तिकायस्य प्रदेशाः ६ आकाशास्तिकायः ७ आकाशास्तिकायस्य देशः ८ आकाशास्तिकायस्य प्रदेशाः ९ अद्धासमयश्च १०.
Page #84
--------------------------------------------------------------------------
________________
(३०) प्रत्यक्षाभावेऽपि सकलरूप्यरूपिद्रव्यपर्यायवेदिनां प्रत्यक्षादेव तत्सिद्धिः । इत्थं चाकाशं द्रव्यमेव नास्तीत्यभिदधतां नव्यनैयायिकानां वचोऽप्यपास्तम् । ननु शब्दस्य परमाणुसमूहत्वे तत्र रूपादीनां घट इवापत्तिरिति चेत्, न, इष्टापत्तेः, आश्रयस्य च सूक्ष्मत्वात्तदग्रहः, तथा चोक्तं भगवत्यां त्रयोदशशतकसप्तमोद्देशके "रुवीभंते भासाअरूवीभासा,गोयमा, रूवीभासानो अरूबीभासत्ति” उक्तञ्च वर्गणानां वर्णादिचिन्ताधिकारे कर्मप्रकृतिवृत्योर्मलयगिरियशोविजयवाचकाभ्यामपि " तैजसप्रायोग्याद्याश्च वर्गणाः पञ्चवर्णाः पञ्चरसा द्विगन्धाश्च ज्ञातव्याः, स्पर्शचिन्तायान्तु चतुःस्पर्शाः"
इत्यादि। ननु शब्दस्य द्रव्यत्वे श्रोत्रस्य प्राप्यकारीन्द्रियत्वेन चन्दनाग्न्यादिकृतौ त्वचोऽनुग्रहोपघाताविवानुग्रहोपघातौ श्रोत्रस्य शब्दकृतौ स्यातामिति चेत्, दृश्यत एव श्रोत्रस्य शब्दकृतौ पाटववाधिर्यलक्षणावनुग्रहोपघातावित्यादि विस्तरेण श्रोत्रप्राप्यकारित्वव्यवस्थापनावसरे प्रागेव प्रतिपादितं, तच मण्डूकप्लुत्या कुशाग्रीयया धियाऽवधार्यताम् । ननु शब्दस्य द्रव्यस- १ रूपिणी भदन्त भाषा अरूपिणी भाषा । गौतम । रूपिणी भाषा नो अरूपिणी भाषेति ।
Page #85
--------------------------------------------------------------------------
________________
मूहत्व आवश्यकसूत्रप्रत्याख्यानाध्ययने * देसावगासियस्स समणोवासएणं इमे पंचाइयारा जाणियव्वा ण समायरियव्वा तं जहा आणवणप्पओमे पेसका णप्पओगे सदाणुव्वातेत्यादि" आणवणे पेसवणे सद्दे रूवे य पुग्गलख्केवें । देसावगासियंमि बीए सिख्कावए निंदे ॥१॥"
इत्यादि श्रावकप्रतिक्रमणसूत्रे वंदित्तुनाम्नि च श्रावकस्य द्वितीयदेशावकाशिकनामशिक्षाव्रतातिचारपञ्चके सामान्यात् पुद्गलप्रक्षेपातिचारात् शब्दाणुपाता. तिचारस्य पृथगुपादानमयुक्तम्, किञ्च-लेष्ठ्वादिप्रक्षे. पाणामपि पृथक्पृथग्नामग्रहणेनातिचारबाहुल्यप्रसङ्ग इति चेत्, सत्यम्, तथापि शब्दानां पुद्गलसमूहवत्त्वस्य लेष्ठ्वादीनामिव चाक्षुषस्पार्शनप्रत्यक्षाभावेन माभून्मुग्धजनानां तदनतिचारत्वारेकेति तदतिरिक्तग्रहणम् । वस्तुतस्तु पदार्थानां सामान्यविशेषोभयात्मकत्वात् क्वचित्सामान्यतः क्वचिच्च विशेषतस्तन्नि
२ देशावकाशिकस्य श्रमणोपासकेन इमे पश्चातिचारा ज्ञातव्या न समाचरितव्याः । तद्यथा । आनयनपयोगः १ प्रेषणपयोगः 3 शब्दाणुपात इत्यादि।
आनयनं प्रेषणं शब्दान् रूपाणि च पुद्गलक्षेपान् देशावकाशिके द्वितीये शिक्षावते निन्दामि ॥१॥
Page #86
--------------------------------------------------------------------------
________________
(३२) देश इति शिष्टसमयात् सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थ भेदेनोपन्यासः इति न्यायाच्च, यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायातः, तथा पुद्गलप्रक्षेप इति सामान्यतः शब्दाणपात इति च विशेषतो निर्देश इत्यस्यादुष्टत्वं सामान्यतो विशेषतो निर्देशनीयमिति विवेचितमस्माभिः श्रोत्रप्राप्यकारित्वस्थापनायाम्। अपि चौदारिकवर्गणापुद्गलप्रक्षेपे पुद्गलप्रक्षेपातिचारः भाषावर्गणापुद्गलाणुपाते च शब्दाणुपातातिचार इत्यनयोर्भेदः, इति सिद्धं शब्दस्य द्रव्यसमुद्भुतत्वम् । तथा च पूर्वाचार्योक्तमनुमानमपि शब्दपौद्गलिकत्वसिद्धौ प्रमाणम्, तथा हि शब्दः पौगलिक इन्द्रियार्थत्वाद्रूपादिवदित्यादि॥ तथा चोक्तं स्थानाङ्गस्य जीवाभिगमाख्योपाड़े भगवद्भिः। “से नूणं भंते सुब्भिसहपोग्गलाई दुब्भिसदत्ताए परिणमंति हंता गोयमा" इत्यादिना, इत्थं च शब्दस्य सिद्धे पौद्गलिकत्वे यौद्वैादशायतननिरूपणावसरे शब्दायतनाख्यमायतनमुपकल्पितं तदपि निरस्तम्, तस्याजीवतत्त्वप्रभेदरूपस्य पृथक्कल्पनानुचितत्वात् । यथा च तत्परिकल्पितानि द्वादशायतनानि तन्निरासप्रकारश्च द्वयमपित
१ स नूनं भदन्त सुरभिशब्दपुद्गला दुर्गन्धिशब्दतया परिणमन्ति । इन्त गौतम ।
Page #87
--------------------------------------------------------------------------
________________
( ३३ )
स्प्रसङ्गे निरूपयिष्याम इति । वर्णितश्चाजीवतत्रत्वेऽन्तर्भावः सूत्रकृताख्यद्वितीयाङ्गटीकायां शीलाङ्काचार्यैरपि द्वादशे समवसरणाख्याध्ययने बौद्धनिरासावसरे "शब्दायतनं च पौद्गलिकत्वाच्छब्दस्याजीवग्रहणेन ग्रहएम्” इत्यादि, एवं च भाषास्वरूपमामूलं "भाष्यत इति भाषा तद्योग्यतया परिणामितनिस्सृष्टनिस्सृज्यमानद्रव्यसंहतिः " इत्यादि भगवतीद्वितीयशतकषष्ठोद्देशकटीकायामभयदेवसूरिभिः । तथा “वाग्येोगप्रयत्ननिस्सृष्टोऽनन्तानन्तप्रादेशिक पुद्गलस्कन्धप्रतिविशिष्टपरिणामः शब्दः पुद्गलद्रव्यसङ्घातभेदजन्मा ” इत्यादि तत्त्वार्थवृत्तौ द्वितीयाध्याये सिद्धसेनमणिभिरपि सुष्ठु विवेचितम् ॥ अत एव च रूपिद्रव्यावगाहिनोवधिज्ञानस्य जघन्यविषयत्वं तैजसभाषान्तरालद्रव्याणां सम्भवति, तथोक्तमावश्यकनिर्युक्तौ तट्टीकायाञ्च, " 'तेयाभासादव्वाण अंतरे इत्थ लहइ पट्ठवओत्ति" इत्थञ्च द्रव्यभाववाग्लक्षणमावश्यकबृहद्वृत्त्युक्तम् १ द्रव्ययोगलक्षणं चावश्यक सूत्र स्पर्शिकनिर्युक्तितट्टोकोक्तमपि २ उपपद्यते । तथाहि " वच् भाषणे वचनमुच्यतेऽनयेति वाक्, सापि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाक् शब्दपरिणामयोग्याः पुद्गला जीवप१ तेजोभाषाद्रव्याणामन्तरम् अत्र लभते मस्थापक इति ॥
Page #88
--------------------------------------------------------------------------
________________
(३४) रिगृहीताः, भाववाक्पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः” इत्यादि १॥ “दव्वे मणवइकाए जोग्गदव्वत्ति"मनोवाकाययोग्यानि द्रव्याणि द्रव्ययोगः, ए. तदुक्तं भवति जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि द्रव्ययोग” इत्यादि २॥ अत एव च वाग्योगलक्षणमपि सूत्रोक्तं सङ्गच्छते ॥ तथाहि " औदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स वाग्योग इत्यादि” विषमकलिकालकालिमकल्मषकर्दमकलङ्कप्रक्षालनजलनिधिप्रवाहवाक्प्रवाहा वादिवैतालाः शान्तिसूरिपादा उत्तराध्ययनीयचतुस्त्रिंशलेश्याध्ययनटीकायां जगुः । तथा च “ यया भाषाप्रायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यावलम्ब्य मुञ्चति सा भाषापर्याप्तिः” इति मलयगिरिभिर्भाषापर्याप्तेर्लक्षणं षड्विधपर्याप्तिस्वरूपोपवर्णनप्रसङ्गे प्रज्ञापनाटीकोक्तमपि सङ्गच्छते । तथा च पञ्चास्तिकायटीकाकृदाशावसनवचनमपि “तत एव अमूर्त्तत्वादेव चाशब्द धर्म " इत्यादि, “एवमयमुक्तगुणवृत्तिः परमाणुः शब्दस्कन्धपरिणतिशक्तिस्वभावाच्छब्दकारणम्” इत्यादि चशब्दस्य नभोधर्मत्वाभावःपरमाणुजन्यत्वञ्च प्रतिपादयति। एवञ्च भाषायाः
Page #89
--------------------------------------------------------------------------
________________
(३५) पञ्चमद्रव्यवर्गणात्वमपि युक्तमाभाति, तथोक्तमावश्यकनियुक्तौ चतुर्दशपूर्वविद्भिःश्रुतकेवलिभिर्भद्रबाहुपादैः ओरालविउठ्वाहारतेयभासाणुपाणमणकम्मे ॥ अह दव्यवग्गणाणं कमोत्ति ॥ तथैव सम्वादितं कर्मप्रकृतौ भव्यजनमनःकुमुदेन्दुभिः श्रीमच्छिवशर्मसूरिभिः, जोगेहिं तयणुरूवं, परिणमइ गिण्हिऊण पंचतणू । पाउग्गे चालंबइ, भासाणुमणत्तणे खंधे ॥१॥ प्रतिपादितञ्च देवेन्द्रपूज्यैर्देवेन्द्रसूरिभिः शतकाख्यप श्चमकर्मग्रन्थे। “ इंगदुगणुगाइ जा अभवणंतगुणिआणू । खंधा उरलोचिअवग्गणाओ तह अगहणं तरिया ॥१॥ एमेव विउव्वाहारतेअभासाणुपाणमणकम्मे।
१ औदारिकवैक्रियाहारकतेजोभापानपानमनःकर्मसु ॥ अथ द्रव्यवर्गणानां क्रन इति ॥
२ योगैस्तदनुरूपं परिणमयति गृहीत्वा पञ्चतनूनि ॥प्रायोग्याथालम्बते भाष.णुभनोमयान् स्कन्धान् ॥१॥
३ एकद्विकाणुकादये यावदभव्यानन्तगुणिताणवः। स्कन्धा औदारिकोचितवर्गणा स्तथाग्रहणान्तरिताः॥१॥ एवमेव वैक्रियाहारकतेजोभाषानपानमनःकर्मसु । सूक्ष्माः क्रमादवगाहः ऊनोनामुलासङ्ख्येयांशः ॥२॥
Page #90
--------------------------------------------------------------------------
________________
(३६) सुहुमा कमावगाहो ऊणूणंगुलअसंखंसो ॥२॥ उक्तञ्च “तत उत्कृष्टाग्रहणवर्गणात एकपरमाण्वधिकस्कन्धरूपा जघन्या भाषाप्रायोग्यावर्गणा यत्पुद्गलान् गृहीत्वा जन्तवः सत्यादिभाषारूपतया परिणमय्यालम्ब्य च विसृजन्ति, तत एकैकपरमाण्वधिकस्कन्धरूपाभाषाप्रायोग्यावर्गणस्तावहाच्यायावदुत्कृष्ट" इत्यादि कर्मप्रकृतिविवरणयोर्मलयगिरियशोविजयोपाध्यायपुङ्गवाभ्याम्।ननुकिमर्थमेता औदारिकवैक्रियाहारकतैजस भाषादिद्रव्यवर्गणाःप्ररूप्यन्तेतीर्थकृद्भिरितिचेत्,उच्यते प्रतिपत्तिहेतोः,यथाकश्चिद्गोपपति!पव्यामोहनिरासार्थं रक्तशुक्लादिभेदेन गवां वर्गणा: कल्पितवांस्तथा विनेयव्यामोहनिरासार्थ पुद्गलवर्गणाः परमाण्वादिभेदेन निरूपितवाञ्जगत्पतिस्तीर्थकरः, तथा हि इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुचिको नाम धनपतिरभूत्, स च तासां गवामतिबाहुल्यात् सहस्रादिसङ्ख्यामितानां पृथक्पृथगनुपालनार्थ प्रभूतान् गोपान् न्ययुक्त, तेऽपि च गोपाः परस्परसंमिलितासु गोष्वात्मीयाः सम्यगजानानाः सन्तः विवदन्ते स्म, तांश्च परस्परतो विवदमानानुपलभ्यासौ कुचिकर्णस्तेपामव्यामोहार्थमधिकरणव्यवच्छित्तये च रक्तशुक्लऋ
Page #91
--------------------------------------------------------------------------
________________
( ३७ ) ornर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवानित्येष दृष्टान्तः, अयमत्रोपनयः । इह
पपतिकुचिकर्णकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्योऽव्यामोहार्थं गोमण्डलसदृशं पुद्गलास्तिकायमेकद्वित्रिसङ्ख्याता सङ्ख्यातानन्तादिपरमा वौदारिकवैक्रियाहार कतैजसभाषादिवर्गणाविभागेन प्ररूपितवान् इत्यादीत्यलमतिप्रसङ्गेनाप्रस्तुतत्वाद् विशेषजिज्ञासुना चावश्यककर्मप्रकृतिकर्मग्रन्थादिवृत्तिभ्योऽवसेयम्। शब्दशास्त्रविद्भिरपि वर्णानां स्थाननिरूपणप्रसङ्गे स्थानपदव्याख्यामिषेणशब्दोत्पत्तिप्रतिपादनद्वारातत्पौगलिकत्वमाख्यायि । यदुचुर्हेमसूरिपादाः स्वकृत सिद्ध हेम शब्दानुशासने । 'यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानम् ' ॥ किञ्चाङ्गलभूमिजैरपि प्रज्ञाशालिभिःशब्दस्यपौद्गलिकत्वं निरचायि, तथाहि शब्द: पौद्गलिक एव फोनोग्राफ्नामकयन्त्रेण संह्रियमाणत्वाद् बधिरकाचादिना च निरुध्यमानत्वादित्यादि । ननु शब्दनिमित्तानां कोष्ट वायूनामेव यन्त्रविशेषतोऽवष्टभ्याभिधारणं नतु शब्दानां यतस्तेषामभिधारणेऽभ्युपगम्यमाने नानादिग्व्यवस्थित पुरुषश्रोत्राभिमुखानां वक्तृसाम्मुखीनयन्त्राभिधारएवद्विरुद्ध दिग्व्यवस्थितयन्त्राभिधार
Page #92
--------------------------------------------------------------------------
________________
(३८) णमपि स्यान्न चैवं, तद्वायूनां तत्त्वे तेषां सम्मुखदिग्मात्रप्रसारिणां साम्मुखीनेनैव ग्रहणं देशान्तरीणशब्दोत्पत्तिस्तु शब्दादेव तजन्यात् कदम्बगोलकन्यायात् वीचितरङ्गन्यायाहा, किञ्च शब्दाभिधारणे प्रत्यक्षस्वभावानां तेषां तद्यत्रातिसन्निहितकणरुपलम्भोऽपि भवेत् अनध्यक्षस्वभावानां तेषां तथात्वे न कदाचिदपि तदुपलम्भ इति, न च वायवभिधारणे पुनस्तादृशशब्दोपलम्भः कथं, पूर्वोत्पन्नानां तेषां चिर विनष्टत्वादिति वाच्यम्, कण्ठादिस्थाने काद्यक्षरप्रयोजको यादृशपरमाणुप्रचयसमुद्भूतोऽवयवी तादृशपरमाणुप्रचयसमुद्भूतावयविविशेषस्य यन्त्रेऽपि स्वीकारात्तेन सा भेधृतवायुसंघटनतस्तत्रापि तादृशशब्दोत्पत्तेस्तम्भवात्, न च घकारोत्तराकारोत्तरटकारोत्तरावरूपस्य घटशब्दगतानुपूर्वीविशेषस्यावच्छिन्नं प्रति तत्तच्छब्दगतेष्टसाधनत्वादिज्ञानचिकीर्षादिजन्यप्रयत्नविशेष एव कारणमिति तदभावात्तादृशानुपूर्वी विशेषावच्छिन्नशब्दोद्भवः कथमिति वाच्यम्, प्रयत्नादीनां तत्तच्छब्दनिमित्तवायुविशेषप्रेरण एवोपक्षीणशक्तेस्तत्प्रेरितास्तु वायुविशेषा एव कण्ठताल्वादिस्थानेत संयुक्तास्त एव कण्ठताल्वादिस्थानसजातीयव्यैरत्रापि
Page #93
--------------------------------------------------------------------------
________________
(३९) संयुज्यन्त इति तादृशशब्दोत्पत्तेः सम्भवादिति चेत्, न, अदृष्टचरैतादृशकल्पनापेक्षया पौद्गलिकशब्दाभिधारणकल्पनायां लाघवात्, तथाहि स्त्रीपुंनपुंसकोच्चरितशब्देषु वैजात्यन्तावदनुभूयमानं नापहोतुं शक्यते, ना. पि तन्न कस्यचिदपि कार्यतावच्छेदकमित्यभिधातुंयुक्तं, तथा सति कार्यमात्रवृत्तिजातित्वं तस्य न स्यात्, स्वञ्च तत्तद्वैजात्यावच्छिन्नं प्रति विलक्षणतत्तज्जातीयकण्ठतावादितत्तद्वायुसंयोग एव कारणं तावद्भवद्भिरभ्युपगन्तव्यं, नतु प्रयत्नादिकम् , यतस्समानेष्वपि प्रयत्नादिषु कस्यचित्पुंसः स्त्रीशब्दसदृशशब्ददर्शनात्, तत्तत्स्त्रीपुनपुंसककण्ठताल्वादिगतपरस्परविरुद्धनानावैजात्ययोगि च नैकं वस्तु भवितुमर्हति, साङ्कर्यस्य जातिबाधकताया भवद्भिरेवाभ्युपगमात्, कारणे जातिसाङ्कर्ये कार्येऽपि तत्तत्कार्यवैजात्यसाङ्कर्ये चित्ररूपवल्लौकिकशब्दविलक्षण एव शब्दो यत्नतः प्रादुःष्यान्न चैवम्, किञ्च न स्त्रीपुंनपुंसकानामेव परस्परं भेदात्तत्तजातीयोक्तशब्दभेदः, किन्तु स्त्रीणां पुंसां नपुंसकानामपि प्रत्येकशो मिथश्शब्दवैजात्यदर्शनादिति स्त्रीत्वादिततज्जात्यवान्तरवैजात्ययोगितत्तद्वयक्तीयकण्ठताल्वादिगतनानावैजात्ययोग्यपि तद्वस्त्वभ्युपगन्तव्यं यत्संयु
Page #94
--------------------------------------------------------------------------
________________
(४०) तो यन्त्रावष्टब्धवायुस्तादृशशब्दजनकोऽभ्युपगत इति, तावतापि च नोपलभ्यमानशब्दप्रादुर्भावोपपादनं सु. ष्ठु भवेत्, प्रत्युत पूर्वयुक्त्यातिविचित्रस्य लौकिकविलक्षणस्य शब्दस्यैव प्रादुर्भावस्तस्माद्भवेदितीदृशकुमृष्टिकल्पनापेक्षया यथोपलभ्यमानशब्दाभिधारणमेव न्याय्यं लाघवात् ॥ किञ्च वाद्यवादनोत्थशब्दानामपि यन्त्राभिधारणं दृश्यते तत्र च वायोरनुपलम्भाहाय्वभिधारणं न कल्पनाहम्। न च वाद्यवादनोत्थाः शब्दा एव नोररीक्रियन्त इति वाच्यं, तत्र तत्र भवद्भिरेवाड़ीकारात्, तथाहि “वीणाप्रभवशब्दग्रह इति वीणायां शब्द:,""कर्णेन वीणाशब्दंशृणोमि इति वीणादौ शब्द" इति चिन्तामणिसन्निकर्षवादरहस्ये गङ्गेशोपाध्यायः, " शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः” इति कारिकावल्यां विश्वनाथपञ्चाननः, “ शब्दं शृणोमीत्य नुभवसिद्धशब्दत्वजातिमान् शब्दः स द्विधा ध्वनिर्वर्णश्च तत्र ध्वनिः सङ्गीतशास्त्रसिद्धानेकभेदवांस्तत्करणं मुखवीणादि” इति कौण्डभट्टविरचितायां पदार्थदीपिकायामिति । शब्दस्याभिधारणाख्यसंयोगविशेषसिद्धौ तेन क्रियावत्त्वमनुमीयते, क्रियावत्त्वात् संयोगविशेषवत्त्वाच्च द्रव्यत्वमिति प्रागेव व्यासतो विचारितम्॥ तथा
Page #95
--------------------------------------------------------------------------
________________
(४१) च सिद्धः शब्दवर्गणाजन्यः शब्द इति॥ उक्तञ्च-विनयविजयोपाध्यायैः लोकप्रकाशे एकादशसर्गे ॥ "गन्धद्रव्यादिवढाता-नुकूल्येन प्रसर्पणात् ॥ तादृशद्रव्यवच्छोत्रो-पघातकतयापि च ॥१॥ ध्वने; पोद्गलिकत्वं स्या-द्यौक्तिकं यत्तु केचन ॥ मन्यन्ते व्योमगुणतां, तस्य तन्नोपयुज्यते ॥२॥ अस्य व्योमगुणत्वे तु, दूरासन्नस्थशब्दयोः॥ श्रवणे न विशेषः स्यात्, सर्वगं खलु यन्नभः ॥३॥
॥इति सिद्धं शब्दस्य द्रव्यत्वम् ॥ लब्ध्वा गुरूपदेश, मतमधिगम्य च जिनेश्वरस्य तथा। जिनतत्त्वपरीक्षाया-माद्यो वर्गो न्यगादि मया ॥१॥ विरचय्यादिमवर्गे, समर्जितं यन्मया सुकृतिगम्यम् ॥ पुण्यं तेन लभन्तां, भव्याः सद्बोधिवररत्नम् ॥२॥ __श्रीतपोगणनभोदिनमणीनां सकलशिष्टसमयसमाचारविचारोचितवचोविस्तरमरीचिविदलितनिखिलजनतामिथ्यात्वतिमिराणां श्रीमद्भगवदहबदनारविन्दविनिर्गतागमग्रन्थादिविस्तीर्णश्रुतरत्नपारावारपारगतानां सुविशदसदाप्तागमाबाधितगुरुपरम्परोपात्तोदात्तागमैदम्पर्याणां दुरन्तैकान्तवादमदमषीमलिनपरवादिवातविभेदनैकप्रमाणनयनिक्षेपानुयोगानुपमवाग्व्यतिकरोद्गतकेसरकेसरीणां सैद्धा
Page #96
--------------------------------------------------------------------------
________________ . (42) .. न्तिकतार्किकचक्रचक्रवर्तिनां शाब्दिकसाहित्यादिविन्निवहचूडामणीनां भीमभवभ्रमणैकनिबन्धनमनोवृत्तिक्शीकारमहामन्त्रनिखिलश्रुतरत्नाराधनोपचारसदाप्तागमावदितयोगविद्यादिपीठपञ्चकाधनुष्ठानसमाचरणगणधरादिमहापुरुषसमाराधितश्रीसूरिमन्त्रासधनावाप्तगणभृत्पद्वीविभूषितानां पश्चाचारचारुचारित्रसम्यक्त्वज्ञानाद्यतिशयमभावसंस्मारितपूर्वयुगप्रधानानां निःशेषसत्त्वार्णवोल्लासोत्सवानन्दचन्द्राननानां विद्वदृन्दवृन्दारकवन्दितक्रमसरोरुहाणांसवतन्त्रस्वतन्त्राणां बहुमानावनतानेकराजेन्द्रामात्यकोटिध्वजश्रेष्टिवर्गादिमहासंसलंसेवितपादेन्दीवराणां सकलसूरिपुरन्दराणां भधारकश्रीविजयनेमिसूरीश्वराणां क्रमकमलमकरन्दप्रस्यन्दास्वादलोलचञ्चरीकेण मन्दमतिना विनेयाणुना उदयविजयेन विशिष्टज्ञानोदयाथै विरचितायां जनतत्त्वप, रीक्षायां श्रोत्रप्राप्यकारित्वशब्दद्रव्यत्वव्यवस्थापकः प्रथमो वर्गः समाप्तः॥ . युगरसनन्देन्दुमिते, वर्षे मासे नभस्यशितपक्षे। पञ्चम्यां भावपुरे, वर्गोऽयं पूर्णतामाप // 1 // // इति शम् //