________________
अहम् । अथ प्रमाणाभासः। येषां लक्षणं निर्दिष्टं तल्लक्षणरहितास्तद्वदाभासमानास्तदाभासा वेदितव्याः । प्रमाणसामान्यस्वरूपहीनाः ज्ञानात्मकसंशयादयः, अचेतनाः सन्निकर्षादयश्च प्रमाणाभासाः। एवमनात्मप्रकाशकं स्वमात्रावभासकं ज्ञानं निर्विकल्पकं च प्रमाणाभासं जानीत । तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः । केवलमन:पर्याययोस्तु विपर्ययः कदापि न सम्भवति, आयस समस्तावरणक्षयोद्भूतेः। अन्त्यस्य संयमविशुद्धिप्रादुर्भूतेः । अवधिज्ञानाभासं विभङ्गापरपर्यायं भवत्येव । यथा शिवाख्यराजर्षेरसङ्ख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् । अम्बुधरेषु गन्धर्वनगरज्ञानम् दुःखे सुखज्ञानं च सांव्यवहारिकप्रत्यक्षाभासम् । अननुभूतेऽर्थे तदितिज्ञानं स्मृत्याभासम् । तुल्ये पदार्थे स एवायमिति, एकसिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञाभासम् । असत्यामपि व्याप्तौ तदवभासस्तकौमासः, यथा-स श्यामो मैत्रपुत्रत्वात् इत्यत्र यावान् मैत्रपुत्रः स सर्वः श्याम इति । पक्षाभासादिभवं ज्ञानमनुमानाभासम् । तत्र बाधितानभिमताधिगतसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः । तत्र बाधितसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकखवचनादिभिः साध्यधर्मस्य बाधनाद् बहुविधः । तत्राद्यो यथा-वहिरनुष्ण इति, एषा हि प्रतिज्ञोष्णत्वग्राह्यध्यक्षेण बाधिता भवति । शब्दोऽपरिणामीति तत्परिणामित्वानुमानेन बाध्यते । जैनेन रजनीभोजनं भजनीयमिति चागमेन बाध्यते । नरशिरःकपालं शुचि, प्राण्यअत्वात् शङ्खशुक्तिवदिति लोकप्रतीत्या बाध्यते । माता मे वन्ध्या, निरन्तरमहं मौनीत्यादि स्ववाचा बाध्यते । एवं सरणादिबाधोपि विज्ञेयः । अनभिमतसाध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः । अधिगतसाध्यधर्मविशेषणो यथा आहेतान् प्रत्यवधारणवर्ज परेण प्रयुज्य