________________
अन्यथा
पञ्चमः सोपानः। मानः समस्ति जीव इत्यादिः । असिद्धविरुद्धानकान्तिका हेत्वाभासाः । तत्राप्रतीयमानस्वरूपोऽसिद्धः । स्वरूपाप्रतीतिश्चाज्ञानात् सन्देहाद् विपर्ययाद वा । स द्विधा । उभयासिद्धोऽन्यतरासिद्धश्च । आद्यो यथा-परिणामी शब्दः चाक्षुषत्वात् । द्वितीयो यथा-अचेतनास्तरवः विज्ञानेन्द्रियायुर्निरोधलक्षणमरणराहित्यात् । विशेष्यासिद्धादयस्तु वाद्यसिद्धत्वेन विवक्ष्यमाणा वाद्यसिद्धाः प्रतिवाद्यसिद्धत्वेन विवक्ष्यमाणाश्च प्रतिवाद्यसिद्धा इति असिद्ध एवान्तःपातिनः । आश्रयासिद्धस्तु हेत्वाभास एव न, समस्ति समस्तवस्तुस्तोमं परिज्ञाता चन्द्रोपरागादिज्ञानान्यथानुपपत्तेः इत्यादेर्गमकत्वोपलम्भात् । अत्र ह्याश्रयो धर्मी विकल्पप्रसिद्धः, नातोऽसिद्ध आश्रयः । अन्यथा सर्वज्ञधर्मिणोऽसिद्धिरपि कथम् ? तदुपपादने हि विकल्पसिद्धिमवश्यमुपासीत । अवश्यं च प्रामाणिकोपि षटतर्कीपरितर्ककर्कशशेमुषीविशेषसङ्ख्यावद्विराजिराजपरिषदि खरविषाणमस्ति नास्ति वा? इति साक्षेपं प्रसपद्दोद्भुरकन्धरेण केनापि प्रत्याहतः किश्चिदालपेत् न पुनस्तूष्णीमेव तदानीं पुष्णीयात्, अप्रकृतं च किमपि प्रलपन् सनिकारं निस्सार्येत, प्रकृतभाषणे तु विहाय विकल्पसिद्धधर्मिणं काऽन्या गतिरास्ते ? इति चिन्तनीयम् । अप्रामाणिके वस्तुनि मूकवावदकयोः कतरः श्रेयान् इति स्वयमेव विमृशन्तु भवन्त इति चेत् ? ननु स्वोक्तस्यैव तावद् विवेचनेऽवदधीत भवान्, मूकतैव श्रेयसीति च पूत्करोति निष्प्रमाणके वस्तुनीति विकल्पसिद्धं धर्मिणं विधाय मूकताधर्म च विदधातीत्यात्मानं मा स विसरः । एवं व्यधिकरणासिद्धोपि न, जलचन्द्रकृत्तिकोदयादीनां नभश्चन्द्रशकटोदयाद्यनुमापकत्वदर्शनात् । उवाच च भट्टोपि
पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा । ।
सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥१॥ इति ।। साध्याभावव्याप्यो हेतुर्विरुद्धः, तुरङ्गोऽयं विषाणित्वात् इत्यादि ।
इति साक्षेपंल्यावद्विरामामाणिकोदने हि
साध्य