________________
न्यायतीर्थप्रकरणम्। सपक्षसत्त्वासत्त्वे पक्षविपक्षव्यापकादिस्तत्प्रपञ्चः । अन्यथाप्युपपन्नोऽनैकान्तिकः अन्यथाप्युपपन्नत्वस्य निर्णयः सन्देहो वा, उभयथाप्यनैकान्तिकत्वम् । निर्णये यथा अनित्यः शब्दः प्रमेयत्वात् इति । सन्देहे यथा न विवादापन्नः पुरुषः सर्वज्ञो भवितुमर्हति वक्तृत्वात्, वक्तृत्वं हि विपक्षे सर्वज्ञे सन्देहास्पदीभूतम् । एवं स श्यामस्तत्पुत्रत्वादित्याद्यपि । पक्षसपक्षविपक्षव्यापकादिस्तदन्तःपाती । अकिञ्चित्करकालातीतप्रकरणसमा उक्तानतिरिक्ताः । तत्र अप्रयोजको हेतुरकिश्चित्करः। स द्वेधा सिद्धसाधना, बाधितविषयश्च। तत्राद्यो यथा शब्दः श्रावणः शब्दत्वादिति । अत्र च श्रावणत्वं शब्दे सिद्धमेव । बाधितविषयस्त्वनेकधा स चोक्तप्रायः । एतौ द्वावपि क्रमतोऽधिगतसाध्यधर्मविशेषणपक्षाभासे बाधितसाध्यधर्मविशेषणपक्षाभासे चान्तःपततः । प्रत्यक्षागमबाधितधर्मधर्मिनिर्देशानन्तरप्रयुक्तो हेतुश्च कालातीतोपि पूर्वत्रान्तर्भूत एव । प्रकरणसमस्तु भवत्येव न, असिद्ध एव वान्तर्गमनीय इति ।
साधम्र्येण वैध\ण चाष्टौ दृष्टान्ताभासाः । तत्र प्रथमे साध्यसाधनोभयविकलसन्दिग्धसाध्यसाधनोभयाप्रदर्शितविपरीतान्वयाः। तत्र साध्यधर्मसाधनोभयविकला शब्देऽपौरुषेयत्वे साध्ये कमात् दुःखपरमाणुघटा दृष्टान्ताः । रागादिमानयं वक्तृत्वात् चैत्रवदिति सन्दिग्धसाध्यधर्मा । मरणधर्मायं रागाइँमैत्रवदिति सन्दिग्धसाधनधर्मा । नायं सर्वज्ञः रागादेर्मुनिविशेषवदिति सन्दिग्धोभयधर्मा । अनित्यः शब्दः कृतकत्वात् इत्यप्रदर्शितान्वयः । तत्रैव यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः । चरमेऽसिद्धसाध्यसाधनोभयसन्दिग्धसाध्यसाधनोभयाप्रदर्शितविपरीतव्यतिरेकाः । तत्रामूर्तत्वेन शब्दनित्यत्वे साध्ये परमाणुकर्माकाशाः क्रमेणासिद्धसाध्यसाधनोभयव्यतिरेकाः रागी वचनाद्रथ्यापुरुषवदिति सन्दिग्धसाध्यव्यतिरेकः । मरणधर्मायं रागात् रथ्यापुरुषवत् इति सन्दिग्धसाधनव्यतिरेकः । किश्चिज्ज्ञोयं रागात् रथ्यापुरुषवदिति सन्दिग्धोभय