SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ (२५) भवति" इति सिद्धान्तमुक्तावलीकृद्वचःकर्णशष्कुलोविवरावच्छिन्नेश्वरस्यैव श्रोत्रत्वम्” इति शिरोमणिकृन्मतं चापहस्तितम् । न चाकाशस्यान्यथानुपपत्त्या तद्गुणत्वकल्पनं, तथाहि शब्दो द्रव्यसमवेतो गुणत्वात् संयोगवत्, इति द्रव्यसमवेतत्वे सिद्धे शब्दो नस्पर्शवद्रव्यसमवेतः, न दिकालमनःसमवेतः, नात्मसमवेतः,अग्निसंयोगासमवायिकारणकत्वाभावे सत्यकारणगुणपूर्वकप्रत्यक्षत्वात् सुखवत, विशेषगुणत्वाद्रपवत, बहिरिन्द्रियग्राह्यत्वात् स्पर्शवदिति अनन्यसमवेतत्वाच्छब्दस्य गगनसमवेतत्वं परिशेषानुमानेन कल्प्यत इति वाच्यम् । प्रथमतृतीययोर्गुणत्वासिङ्ख्या स्वरूपासिद्धेद्वितीयतुर्ययोश्चाप्रयोजकत्वात् । एतेन शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिद्धयतीति वचश्शब्दगुणकमाकाशमिति वचश्चाप्यपास्तम् । ननु तर्हि आकाशे प्रत्यक्षत्वप्रयोजकोद्भूतरूपाभावात् प्रत्यक्षत्वासम्भवेन किं मानमिति चेत्, अनुमानमेव, तथाहि द्रव्याणि साश्रयाणि द्रव्यत्ववत्त्वादित्यादि, न च भूतलादीनां घटाद्याधारत्वेनैवोपपत्ता, उमन्यगवेषणयेति वाच्यम् । अदृश्यमानपरमाण्वाद्याधारतयेकस्यैव तस्य सिद्धेः । तथा चोक्तं प्रशतिपञ्चमाले प्रयोदशशतकचतुथोंदेशके “ आगासथिकाएणं भंते जीवाणं अजीवाण य
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy