________________
न्यायतीर्थप्रकरणम् । मविशिष्टधर्मिणः पक्षत्वात् इति धर्मधर्मिभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यम् । धर्मिणः प्रसिद्धिश्च प्रमाणात् विकल्पात् उभयतो वा । तत्र पर्वतो वह्निमानित्यत्र प्रमाणप्रसिद्धो धर्मी पर्वतः। अस्ति सर्वज्ञः, नास्ति शशविषाणमित्यादिषु सर्वज्ञादि विकल्पप्रसिद्धो धर्मी । शब्दः परिणामीत्यत्र शब्द उभयप्रसिद्धो धर्मी, स हि वत्तेमानः प्रत्यक्षगम्यः, भूतो भावी च विकल्पगम्यः । स सर्वोपि धर्मीति प्रमाणविकल्पप्रसिद्धत्वम् । तत्र च प्रमाणोभयप्रसिद्धयोः धर्मिणोः साध्ये कामचारः। विकल्पप्रसिद्धे तु धर्मिणि सत्तेतरे साध्ये इति । हेतुप्रयोगात् परोक्षार्थसम्यनिर्णयः परार्थमनुमानम् । हेतुस्तूपचारात् । उपचारश्चात्र कारणे कार्यस्य, प्रतिपाद्यगतं यज्ज्ञानं तस्य कारणं हेतुवचनम् । कार्ये कारणोपचारो वा। प्रतिपादकगतं हि यदनुमानं तस्य कार्यं तद्वचनम् । साध्यस्य प्रतिनियतधर्मिसम्बन्धिताप्रसिद्धये हेतोरुपसंहारवचनमिव पक्षप्रयोगोप्यवश्यमेषितव्यः । त्रिविधं साधनमभिधायैव तत्समर्थनं कुर्वाणः को नाम नाङ्गीकुर्यात् पक्षप्रयोगम् ? । अनुमानवत् प्रत्यक्षमपि परार्थं भवति । तथाहि प्रत्यक्षपरिच्छन्नार्थाभिधायि वचनं परार्थ प्रत्यक्षम्, परप्र. त्यक्षहेतुत्वात् । यथा पश्य पुर एष कलशः इति । इदं चौपचारिक प्रत्यक्षम् । तथा वाक्यादेव तद्विषयमुदयत् प्रत्यक्षं तु तात्विकं परार्थम् । अयं च हेतुर्विधा । तथोपपत्त्यन्यथानुपपत्तिभेदात् । यथा पर्वतो वह्निमान् धृमस्यान्यथानुपपत्तेः, धूमस्य तथैवोपपतेर्वेति । अत्र च तात्पर्यसाम्यादेकतर एव हेतुप्रयोगः प्रयोक्तव्यः । एवं च पक्षसाधनप्रयोगलक्षणमवयवद्वयमेव परप्रतिपत्त्यजम्, न दृष्टान्तादिवचनम् । यत्तु सूत्रम् 'प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः' इति, तत्रोदाहरणादीनां न परप्रतिपत्तिप्रभुत्वम्, तत्र पक्षहेतुवचनयोरेव व्यापारोपलब्धेः। न च हेतोरन्यथानुपपत्तिनिर्णीतये, तोदेव तत्सिद्धेः। नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्रयोगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थानस