________________
न्यायतीर्थप्रकरणम् । त्ययोगात् । अनभ्यस्तविषये तु जलज्ञाने जाते जलज्ञानं मम जातमिति ज्ञप्तावपि ज्ञानस्वरूपस्य तत्प्रामाण्यावधारणमन्यत एव भवति, अन्यथोत्तरकाले सन्देहानुपपत्तेः । भवति च सन्देहः जलज्ञानं मम जातं तत्कि जलमाहोस्वित् मरीचिका ? इति । ततः कमलपरिमलशिशिरमन्दवायुप्रचारप्रभृतिभिरवधारयति यत् प्राक्तनं जलज्ञानं प्रमाणम् कमलपरिमलाद्यन्यथानुपपत्तेरिति । परत्र च स्वतएव प्रामाण्यावधारणात् नानवस्थादौस्थ्यावस्था । अनुमाने तु सर्वत्रापि सर्वथापि निरस्तसमस्तव्यभिचारारेके स्वतएव प्रामाण्यनिश्चयः, अव्यभिचारिलिङ्गसमुद्भवात, नहि लिङ्गाकारं ज्ञानं लिङ्गं विना, नच लिङ्गं लिङ्गिनमृते इतिदिक।
अस्यच प्रमाणस्य विषयः सामान्यविशेषायनेकान्तात्मकं वस्तु, अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूपपरिणत्यार्थक्रियासामर्थ्यघटनाच्च । एतेन सामान्यविशेषादिधर्मान् धर्मिणः पृथग्भावेनाभ्युपजगन्वांसो यौगा अपास्ताः । कथञ्चित् वस्तुनः सामान्याद्यात्मकत्वात् । एकान्तभेदे विशेष्यविशेषणभावानुपपत्तेः। करभरासभयोरिव धर्मधर्मिव्यपदेशाभावानुषक्तेश्च । धर्माणामपि च पृथक्पदार्थान्तरत्वकल्पने एकत्रैवार्थे पदार्थानन्त्यप्रसङ्गः, अनन्तधर्मकत्वात् वस्तुनः । अत्यन्ताभेदोपि धर्मधर्मिणोरन्यतरस्यासत्त्वप्रसङ्गेन निराकृतएव । एवं च परस्परसापेक्षसामान्यविशेषाद्यात्माऽर्थः प्रमाणस्य विषयो वेदितव्यः। एवं सर्वमेव वस्तु वद्रव्यक्षेत्रकालभावैः सत् , परद्रव्यक्षेत्रकालभावैश्वासत् वेदितव्यम् । सत्त्वमात्राभ्युपगमे पररूपेणापि सत्त्वानुषङ्गः । असत्त्वमात्रदर्शने च शून्यवादापातः । एवं नित्यानित्यत्वादयोपि सर्ववस्तुस्वभावाः प्रमाणसिद्धा ज्ञेयाः ।
तत्र सामान्यं द्विधा तिर्यगूर्ध्वताभेदात् । तत्र प्रतिव्यक्ति समान: परिणामस्तिर्यक्सामान्यम्, शबलशावलेयादिपिण्डेषु गोत्वं यथा ।