________________
प्रथमः सोपानः। इत्याद्यनुमानसिद्धेश्च । एवं च स्वपरव्यवसायस्वभावं ज्ञानं प्रमाणमिति निगर्वः । एतदेव हि प्रमाणस्वरूपं यत्स्वपरव्यवसायस्वभावः। खस्य व्यवसायः पुनः स्वाभिमुख्येन प्रकाशनम् बाह्यस्येव तदाभिमुख्येन, घटमहमात्मना वेनि । कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्वानस्तदपि तत्प्रकारं नाभिमन्येत मिहिरालोकवत् इति । उक्ते च प्रमाणखरूपे प्रामाण्यं नानुक्तं भवति, तथाच प्रमेयाव्यभिचारित्वरूपं प्रामाण्यं स्वप्रमेयापेक्षया सर्वज्ञानवृत्ति बोध्यम्, स्वस्मिन् व्यभिचारासम्भवात् । बहिरर्थापेक्षया तु किश्चित् प्रमाणं किञ्चित्तदाभासमिति । प्रामाण्यविपरीतं चाप्रामाण्यम्, इमे उभे अपि उत्पत्तौ परतः, ज्ञानकारणगतगुणदोषापेक्षयोत्पादुके इत्यर्थः । निर्णये तु स्वतः, अभ्यासदशायाम् । अन्यत्र परतः, अनभ्यासदशायां संवादकबाधकज्ञानमपेक्ष्य तनिश्चयात् । एतेन स्वत एवोत्पत्तिं ज्ञप्तिं च प्रामाण्यस्याप्रामाण्यस्य च परत एवाभिमेनाना जैमिनीया निरस्ताः । नहि ज्ञानसामान्यसामग्रीमात्रजन्यत्वलक्षणं स्वतस्त्वमुत्पत्ती सम्भवति प्रामाण्यस्य । संशयादावपि तथात्वेन तत्समवतारात् । अयमर्थः-ज्ञानसामान्यसामग्रीसाम्येपि संशयादिज्ञानमप्रमाणम् , इतरच प्रमाणमिति विभागे किमपि निबन्धनमवश्यमुपासीत, ततो यथा संशयादावप्रामाण्ये दोषादिकमभ्युपगम्यते, तथा प्रामाण्येपि तत्प्रत्यनीकं कारणं गुणरूपमवश्यवक्तव्यम् । इतरथा प्रमाणाप्रमाणविभागासिद्धेः । परतः प्रामाण्यमप्रामाण्यं तु स्वत इत्येवमपि पुनर्विपर्ययेण वादिनं वादिनं को रुन्धीत ? न्याय्यं चैतत्, नहि पटसामान्यसामग्रीमानं रक्तपटे हेतुः, तद्वद् ज्ञानसामान्यसामग्रीमानं प्रमाणज्ञाने कथं हेतुभावेन न्याय्याभ्युपगमम् ? इति । एवं निर्णयोऽपि प्रामाण्यस्य अभ्यासदशायां स्वतएव विज्ञेयः । तथाहि अभ्यस्ते विषये जलमेतदिति ज्ञानोदये ज्ञानस्वरूपनिर्णयसमयएव तद्गतं प्रामाण्यमपि निर्णीतं भवति । ज्ञानस्वरूपनिर्णयश्च खेनैवेति तद्गतप्रामाण्यनिर्णयोपि ततएवेत्यर्थः । अपरथोत्तरक्षणे निःशङ्कप्र