________________
तृतीयः सोपानः। माणात्तु ततो व्याप्तिग्रहश्रद्धा षण्डात्तनयदोहद एवेति । तथा तर्कः प्रमाणं प्रमाणविषयपरिशोधकत्वात्, अनुमानादिवत् । यस्तु नैवं नासावेवम् ? यथा मिथ्याज्ञानं प्रमेयोवार्थः । तथा तर्कः प्रमाणं प्रमाणानुग्राहकत्वात् यथा प्रवचनानुग्राहि प्रत्यक्षादीति सिद्धस्तर्कः प्रमाणमिति । वाच्यवाचकभावावगमेपि तकस्यैव प्रभुता तस्यैव सकलशब्दार्थगोचरत्वात् इति । Ahme - साधनात् साध्यविज्ञानमनुमानम् । तद् द्वेधा स्वार्थ परार्थ च । तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् । यथागृहीतधूमस्य स्मृतप्रतिबन्धस्य 'पर्वतो वह्निमान्' इति ज्ञानम् । अत्र हेतुग्रहणसम्बन्धस्मरणयोः समुदितयोरेव कारणत्वं ज्ञेयम्, अपरथा विस्मृताप्रतिपन्नप्रतिबन्धस्यागृहीतसाधनस्य च कस्यचिदनुमानोदयापत्तेः । निश्चितान्यथानुपपत्त्येकलक्षणं साधनम्, नतु त्रिलक्षणकं पञ्चलक्षणकं वा । तथाहि-बौद्धास्तावत् त्रिलक्षणं साधनमाहुः पक्षधर्मत्वम् , सपक्षे सत्त्वम् , विपक्षात् व्यावृत्तिरिति, पक्षधमत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्ष एव सत्त्वाभावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसत्त्वनियमाभावे चानैकान्तिकत्वव्यासेधस्यासम्भवेनानुमितिव्यवस्थानुपपत्तेरिति । तदेतदसारम् । पक्षधर्मत्वाभावपि 'शकटमुदेष्यति कृत्तिकोदयात् 'उपरि सविता भूमेरालोकवत्त्वात्' 'अस्ति नभश्चन्द्रः' पाथश्चन्द्रादित्याद्यनुमानोपलब्धेः। पक्षधर्मत्वाभावे प्रासाद एष धवलः काकस्य कालिम्न इत्यादेरपि गमकत्वप्रसङ्ग इति न वक्तव्यम्, अविनाभावस्यैव गमकत्वेनाभिप्रेतत्वात् । न चात्राविनाभाव उद्भासते, नहि धवलिम्येव प्रासादस्य श्यामिका काकीयोपपत्तिमतीत्यस्ति नियमः । नचाविनाभावी कश्चन विरुद्धो वा व्यभिचारी वाऽसिद्धो वा कापि कदापि दृष्टचरः, तथाचाहेतुव्यावृत्तं सकलहेत्वनुगतं निर्णीताविनाभावमेवैकं लक्षणं साधनस्य युक्तमुत्पश्यामः । एवमुक्तरूपत्रयी, अबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पाश्चरूप्यमपि नैयायिकाभिमतमपहस्तितं