________________
१४
न्यायतीर्थप्रकरणम् । भवति । स श्यामः तत्पुत्रत्वादित्यादावपि तदर्शनात् तथाहितत्पदार्थगर्भस्थमैत्रपुत्रे हेतुसद्भावः, सपक्षेष्वपि श्यामत्वेन संप्रतिपनेषु दृश्यमानेषु पञ्चसु मैत्रपुत्रेषु मैत्रपुत्रत्वसद्भावः, अश्यामेभ्यस्तदन्येभ्यो मैत्रपुत्रत्वव्यावर्त्तनात् विपक्षाद् व्यावृत्तिरप्यस्ति, विषयबाधाविरहात् अबाधितविषयत्वमप्यस्ति, प्रतिकूलसमबलप्रमाणाभावात् असत्प्रतिपक्षत्वमप्यस्ति, न पुनरयं हेतुभावेन कस्याप्यभ्युपगमविषयः । अथ नात्र विपक्षाद् व्यावृत्तिनिश्चिताऽस्ति, नहि श्यामत्वासत्वे तत्पुत्रत्वेनावश्यनिवर्त्तनीयमित्यत्रास्ति प्रमाणमिति चेत् ? हन्त ? ताम्मेवान्यथानुपपत्तिमुपासीनोऽभूः । अनौपाधिकसम्बन्धस्य व्याप्तित्वमूचिवांसो यौगा अपि प्रकृते शाकाद्याहारपरिणामरूपोपाध्युद्भावनेन तत्पुत्रत्वे विपक्षासत्त्वसम्भवाभावमावेदयन्तः परमार्थतो निश्चितान्यथानुपपत्तिमेव प्रत्यपत्सत । उपाधिश्च साध्येन समव्याप्तिकः साधनाव्यापक उच्यते । न चात्रानौपाधिकसम्बन्धे सति किश्चिदवशिष्यते यदपोहाय शेषलक्षणोत्कीर्तनं कीर्तये स्यात् । एवं सपक्षसत्त्वमप्यनौपयिकमेव, सत्त्वादेरपि गमकत्वापत्तेः । केवलान्वयि-केवलव्यतिरेकि-अन्वयव्यतिरेकि चेति त्रिधा साधनं लेपिवांसः कणभक्षान्तिषदः अन्वयव्यतिरेकिण्येव पाश्चरूप्यमुपयन्ति न पुनः शेषयोः, केवलान्वयिनि विपक्षासत्त्वासत्त्वात्, केवलव्यतिरेकिणि च सपक्षसत्त्वासम्भवात् चातूरूप्यमेव । कुतश्चातः सर्वहेत्वनुषक्तं लक्षणं निर्दिष्टं स्यात् । अबाधितविषयत्वमपि अविनाभावित्वव्यापकमेव, अविनाभाविस्थले बाधितविषयत्वानवकाशात् । एवमसत्प्रतिपक्षत्वकल्पनमप्यनुचितमेव । उक्तेनैव सिद्धेः। उक्तं हि
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥१॥ अन्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः । नान्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः ॥२॥ इति ॥