________________
अन्यथा तेषामपि शब्दत्वप्रसङ्गः। किञ्चेन्द्रियाणां रूपिद्रव्यग्राहकत्वात् दिग्देशस्य चाकाशभागरूपस्यारूपित्वेन नेन्द्रियग्राह्यत्वमिति श्रोत्रेण तद्ग्रहणायोगः। शब्दस्य तु यथा रूपिद्रव्यत्वं तथा समनन्तरमेव वक्ष्यते विस्तरेण। ननु यथास्पर्शनादीनां प्राप्यकारित्वेन चन्दनाग्निकृतावनुग्रहोपघातौ भवतः, तथा श्रोत्रस्यापि शब्दकृतो तो स्यातामिति चेत्, सत्यम्,भवत एवानुग्रहोपघाता पाटववाधिर्यलक्षणौ श्रोत्रस्यापि। तदुक्तं मलयगिरिपूज्यरावश्यकतो नन्दीवृत्तौ च, “दृश्यते हि सद्योजातबालकानां कर्णदेशाभ्यण गाढास्फालितझल्लरीझात्कारश्रवणस्फोटः" इत्यादि, अत एव भगवतस्तीर्थकरस्य जन्ममहोत्सवावसरे दिक्कुमारिका एत्यायोजनं संवर्तकेन मेदिनोशुद्धिप्रभृतिकं चन्दनरक्षापोट्टलिकापर्यवसानं सर्वं स्वकृत्यं कृत्वा भगवतः कर्णपाटवनिमित्तं पाषाणद्वयं गृहीत्वा वादयन्ति, तथा चोक्तमावश्यकटीकायां भवविरहसूरिभिः, "भगवतो तित्थगरस्स कण्णमूलंसि दुवे पाहाणवट्टते टिंटियावंति" इति । यदि च श्रोत्रस्याप्राप्यकारित्वमेव, तदानुकूलवायुके शब्दे किं दूरतोऽपि बुद्धिरन्यथा निकटे ऽपि सा न। न च पटुघटितद्वारे कथं शब्दबुद्धिस्ततः शब्दस्यानागतेरिति वाच्यम्। यथा गन्धबुद्धिस्तव तथा त१ भगवतस्तीर्थकरस्य कर्णमूले द्वौ पाषाणगोलको वादयन्ति । ...